सुभाषितानि - Subhashitas

पुत्रपौत्रोपपन्नोपि जननीं यः समाश्रितः |
अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् || महाभारतम् शान्तिपर्व २७२.२८

स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि |
मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली || इति वेणीसंहारे ||
अन्वयः - स्त्रीणां चेतांसि साहचर्यात् भर्तृसदृशानि हि भवन्ति | विषविटपिसमाश्रिता वल्ली मधुरा अपि मूर्च्छयते |
अर्थः - स्त्रीजनाः स्वपतिजनानां सहवाकारणात् समानबुद्धिं विन्दन्ति | यथा एका कोमला वल्ली विषवृक्षसङ्गवशात् मधुरा सत्यपि विषभावं प्राप्य अन्यजनान् बाधयति |
Ladies acquire minds similar to those of their husbands by living with them over a period of time. A sweet creeper, winding around a poisonous tree, acquires poisonous qualities.

अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम् |
जयेत् सम्यक् प्रयोगेण नीत्यार्थमात्मनो हितान् ||
इति महाभारते सभापर्वणि भीमोक्तिः |
A person, even if weak, with continuous effort and by following the righteous path, wins over a strong opponent and gets his desires. - Bhimasena in Mahabharata Sabhaparva
Bimasena's message: Even if one is at a disadvantage, by following the righteous path correctly, the situation can be turned into one's favor. No need to follow immoral path.

द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम्।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥ (रघु १.२८)

शिष्टः द्वेष्यः अपि संमतः यथा तस्य आर्तस्य औषधम् | प्रियः अपि दुष्टः त्याज्यः आसीत् उरगक्षता अङ्गुली इव |
A good person though hated should be tolerated, as a medicine is tolerated by a person who needs it. A wicked person though lovable should be abandoned as a poisoned finger is (forcibly) separated (to save rest of the body).

वचस्तत्रैव वक्तव्यं यत्रोक्तं सफलं भवेत् |
स्थायीभवन्ति चात्यन्तं रङ्गः शुक्लपटे यथा ||

भाषणं तस्मिन् स्थाने एव कुर्यात् यत्र तस्य उपयोगः स्यात् | यथा वर्णलेपनस्य प्रभावः श्वेतवस्त्रे एव अधिकं भवति |

The effect of coloring is permanent on a white cloth. Similarly, we should speak only where it is fruitful (or makes sense).
---------------------
वन्देऽहं तं हनूमानिति महितमहापौरुषो बाहुशाली
ख्यातस्तेऽग्र्योऽवतारः सहित इह बहुब्रह्मचर्यादिधर्मैः ।
सस्नेहानां सहस्वानहरहरहितं निर्दहन् देहभाजा-
-मंहोमोहापहो यः स्पृहयति महतीं भक्तिमद्यापि रामे ॥ (श्रीहरिवायुस्तुतिः)

हनूमान् इति यः वायुदेवस्य प्रथमावतारः प्रसिद्धः तं नमामि | सः हनूमान् महापौरुषयुक्तः पराक्रमी ब्रह्मचर्यादिभिः सद्गुणैः युक्तश्च | सः बलवान् सर्वदा भक्तानां हितकाम्यया तेषां दैहिककष्टानि अज्ञानसंभूतमोहं भस्मीकरोति | अद्य अपि रामे महतीं भक्तिं समाचरति |

I bow to Hanuman who is famous as the first incarnation of God Vayu. Hanuman is strong, is adored with good qualities like brahmacharya etc. He removes the physical problems and delusional mental state of the devotees. He, even today, worships Lord Rama.
------------------------------
अद्भिः गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुध्दिर्ज्ञानेन शुध्यति ॥

Body gets clean by water, mind by right words, soul by education and hard work, intellect by the right knowledge.


प्रहेलिका (Riddles)

अग्रतः प्रथमा यस्य द्वितीया सहितं तथा ।
भषत्युच्चैस्तृतीया च कथं स्यात्प्रथमो मम ॥
यस्य षष्टी चतुर्थी च विहस्य च विहाय च ।
यस्याहं द्वितीया स्यात् द्वितीया स्यामहं कथम् ॥

एकोनाविंशतिः स्त्रियः स्नानार्थं सरितं गताः |
विंशतिः पुनरायाता एको मकरेण भक्षितः ||

परिहारः - एकोना = एको + ना (नरः)

एकः नरः विंशतिः स्त्रियाः गताः, परन्तु विंशतिः स्त्रियः पुनरायाताः एकः नरः भक्षितः |
----------------------------------------------------------------
तातेन कथितं पुत्र लेखं लिख ममाज्ञया |
न तेन लिखितो लेखः पितुराज्ञा न लोपिता ||

परिहारः - न + तेन = नतेन (विनम्रेण)
-----------------------------------------------------------------------
चतुर्थजः पञ्चमगः दृष्ट्वा प्रथमजाकृतिम् |
तृतीयं तत्र निक्षिप्य द्वितीयमगमत् पुनः ||

(पञ्चभूताः)
चतुर्थजः = वायुपुत्रः हनुमान् पञ्चमगः = आकाशमार्गगमनः प्रथमाजा = भूपुत्री सीता
तृतीयम् = अग्निम् द्वितीयम् = जलधिम्
----------------------------------------------------------------
केशवं पतितं दृष्ट्वा पाण्डवाः हर्षनिर्भराः |
रुदन्ति कौरवाः सर्वे हाहा केशव केशव ||

के = जले शवम् = मृतशरीरम् पाण्डवाः = श्वेतपक्षिणः कौरवाः = काकाः
------------------------------------------------------------------
प्रातः द्यूतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः।
रात्रौ चौर्यप्रसङ्गेन कालो गच्छति धीमताम्।।

द्यूतप्रसङ्गः = महाभरतम् (यस्मिन् द्यूतक्रीडाख्यानम्)
स्त्रीप्रसङ्गः = श्रीमद्रामायणम् (यस्मिन् सीतानिमित्तं कथा)
चौर्यप्रसङ्गः = श्रीमद्भागवतम् (यस्मिन् श्रीकृष्णस्य नवनीतचौर्यादिलीला)

Wise people spend their mornings by reading/listening to/studying Mahabharata, afternoons by Ramayana, evenings by Bhagavata.
------------------------------------------------