भगवद्भक्तिप्रभावनिरूपणम्
(श्रीमद्भागवतपुराणे नवमस्कन्दे अध्याय ४-५)
पुरा अम्बरीष नाम राजा अभवत् | सः महान् चक्रवर्तिः अपि परमविष्णुभक्तः संसारे असक्तहृदयः आसीत् | नृपतेः भक्त्या सदाचारेण च सुप्रीतः भगवान् नारायणः स्वकीयं दिव्यायुधं सुदर्शनचक्रं तस्य संरक्षणाय न्ययोजयत | भागवतः सः राजा द्वादशीव्रतं प्रतिपक्षं आचरति स्म | व्रतनियमानुसारेण पक्षस्य एकादश्यां तिथौ निराहारो भूत्वा द्वादशे दिने प्रातः नियतकाले एव भोजनं करणीयम् | इयं विधिः पारणम् इति कथ्यते | अन्यथा व्रतभङ्गः भवेत् |

तदनन्तरं दुर्वासोमुनिः राजभवनं प्रत्यागत्य नृपस्य जलप्राशनविषयं दिव्यद्रुष्ट्या अवगतवान् | स्वस्य अपमानम् अभवत् इति क्रोधमूर्छितः ऋषिः तपःशक्त्या जटाकेशेन राक्षसीमेकां निर्ममे | सा राक्षसी अम्बरीषं हन्तुम् उद्युक्ता |

दुर्वासोमुनिः द्रुतमेव अम्बरीषस्य सकाशं गत्वा भागवतश्रेष्ठस्य पादस्पर्शं अकरोत् | अम्बरीषस्तु निर्मलमतिः महामुनेः पादस्पर्शेन लज्जितः तं प्रणम्य सुदर्शनचक्रं नारायणं च स्तुतवान् | सुदर्शनचक्रं शान्तं बभूव | भगवद्भक्तिप्रभावं जानन् मुनिः स्वधामं जगाम |
No comments:
Post a Comment