पुरातनकाले एकः सज्जनः आसीत् | तस्य द्वितीया भार्या अतीव दर्पाभिमानयुक्ता आसीत् | एतस्याः भार्यायाः पूर्वसम्बन्धात् द्वे पुत्र्यौ | ते अपि स्वमातृसदृशे दर्पादिगुणयुक्ते | सज्जनस्य अपि पूर्वविवाहकारणात् एकं कन्यारत्नम् आसीत् | सा कन्या सुन्दरी सुगुणसम्पन्ना मृदुभाषिणी च | नाम तस्याः सिण्डरेला |
सिण्डरेलायाः विमाता दुष्टमतिः सिण्डरेलां सर्वेषु निकृष्टेषु गृहकार्येषु नियोजयति स्म | यथा वस्त्रप्रक्षालनं भूभागसंमार्जनं भाण्डादिधावनम् इत्यादीनि | विमातुः पुत्र्यौ तु सुखेन वसति स्म | ततोsपि सिण्डरेला शान्तभावेन न किञ्चिदपि प्रतिवदन्ती विमातुः तस्याः पुत्र्योः च दुष्करां सेवां करोति स्म | क्षीणवदना मलिनवस्त्रधारिणी अपि जातसुन्दरी चारुहासिनी सा नेत्रानन्दकरिणी आसीत् |
एकदा तस्य राज्यस्य युवराजः नृत्यक्रीडोत्सवम् एकम् आयोजयन् निमन्त्रणपत्रान् राज्ये महाजनकृते प्रेषितवान् | सिण्डरेलायाः अन्योदर्यौ अपि निमन्त्रणं स्वीकृत्य हर्षिते अभवतः | ते सज्जताम् औत्सुक्येन आरभताम् | उत्सवार्थं वस्त्रचयनकार्ये सुमग्नं तत् कन्याद्वयम् | सिण्डरेला एव तयोः अंशुकयुतककञ्चुकादीनि स्वहस्ताभ्यां स्यूतवती | तयोः केशालङ्कारम् अपि कृतवती | इति सिण्डरेलया अलङ्कृते ते कन्ये तस्याः भर्त्सनम् अपहासमपि कुर्वत्यौ राजमार्गम् अनुसृत्य नृत्यक्रीडोत्सवम् जग्मतुः | सिण्डरेला तु अश्रुपूर्णा खिन्ना बभूव |
राजगृहे नृत्यक्रीडोत्सवसमारम्भे अतिथिजनाः परिमग्ना आसन् | सिण्डरेला यथा रथात् अवतीर्णा अनन्यकान्तियुक्तां तां दृष्ट्वा कापि राजकुवरी इति मत्वा स्वयं युवराजः तस्याः परमादरं कुर्वन् सभामन्दिरे नीतवान् | सुवर्णवस्त्रोपेतां सुन्दरकेशालङ्कृतां सौन्दर्याकृतीम् अपूर्वदृष्टां सिण्डरेलां दृष्ट्वा सर्वे तत्र उपस्थिताः अतिथयः वृद्धो महाराजः अपि चकिता अभवन् | तत्र विमातृजाते भगिन्यौ अपि सिण्डरेलाम् अभिज्ञातुं न अशक्नुताम् | सिण्डरेलायाः अमितसौन्दर्येण मोहितः राजपुत्रः तया सह नृत्यं कृत्वा आमोदत | सिण्डरेला अपि राजपुत्रेण सह रममाणा समयप्रज्ञामेव विस्मृता | मध्यरात्रेः घण्टारवं श्रुत्वा भीता सा उत्सवं त्यक्त्वा त्वरया स्वस्य मायारथं प्रति अधावत् | परन्तु अतीता मध्यरात्रिः | भग्ना देवीमाया | रथः तथा अश्वादयः च अदृश्याः अभवन् | सिण्डरेला पुनः छिद्रवस्त्रधारिणी सत्वरं स्वगृहं गत्वा मार्जनादिकार्येषु रता |
अत्र राजगृहे उत्सवः परिसमाप्तः | सर्वे अथितयः प्रतिगताः | राजपुत्रः तु सिण्डरेलां अदृष्ट्वा विरहपीडितः अतीव व्यथितः च अभवत् | खिन्नमनस्कः सः सिण्डरेलादर्शनकांक्षी तां कथं लभै इति बहु अचिन्तयत् | दिष्ट्या तस्य समीपे सिण्डरेलायाः काचकनिर्मितं एकं पादत्राणम् आसीत् | तत् एकं पादत्राणं गतरात्रौ त्वरमाणया सिण्डरेलया राजगृहे एव विस्मृतम् |
No comments:
Post a Comment