स्वामी विवेकानन्दः तथा राजा मङ्गलसिंहः
भारतदेशे विवेकानन्दः नाम महान् तत्वज्ञानी बभूव | तस्य विषये अनेकाः कथाः आख्यानकाश्च प्रचलिताश्च सन्ति | अथैव एका घटना अत्र निरूप्यते |
एकदा देशभ्रमणरतः विवेकानन्दः १८९१तमे वत्सरे आलवारप्रदेशं प्राप्तः यत्र मङ्गलसिंहः राजा आसीत् | राजा धर्मभीरुरपि पाश्चात्यसंस्कृतिप्रभावितमतिरसीत् | मङ्गलसिंहः विवेकानन्दस्य यथाविधिस्वागतं कृत्वा राजभवने सभामेकाम् आयोजयत |
सभायां स राजा ऋषिमुनीनां जीवनम् अर्थहीनमिति प्रतिपादयत | विवेकानन्दः कामलोलुप्तजीवनं निरर्थकमिति उवाच | व्यग्रो राजा मूर्तिपूजापि मौढ्यमेव इति प्रत्यवदत् | मूर्तिस्तु निर्जीवः पाषाणमृण्मयरित्यपि भर्त्सयामास | तदा विवेकानन्दः परितः अवलोकयन् भित्तौ विलम्बितं भावचित्रमेकं ददर्श |
एतत् कस्य चित्रमिति पृष्टवान् | एतन्मम दिवङ्गतस्य पितुः चित्रमिति मङ्गलसिंहः उवाच | विवेकानन्दः तस्य भावचित्रस्य उपरि निष्ठीवनं कर्तुं राजमवदत् | मङ्गलसिंहः क्रुद्धः तत्तु मम परमादरणीयपितुः पूर्वमहारजस्य चित्रमस्ति, कथं निष्ठीवनं उक्तमिति | विवेकानन्दः स्मयन् तमुवाच कुत्रस्ते पिता, एतत्तु निर्जीवं चित्रं कागदमेव, तथापि श्रद्धवता त्वया पिता दृश्यते | एतावदेव भक्ताः श्रद्धया भावयन्तः शिलामूर्तिष्वपि भगवन्तमेव अनुभवन्ति | अतः अनुभवः एव मुख्यः इति सिद्ध्यते | तदा राजा मङ्गलसिंहः लज्जितः विवेकानन्दस्य बहु सम्मानं चकार |
No comments:
Post a Comment