रामायण-सुन्दरकाण्डम् - ३०

रामायण-सुन्दरकाण्डम्
त्रिन्शः सर्गः
अन्वयसहितः
(Text Reference: ValmikiRamayan.net)

Click on a word to know the declension of noun or the conjugation of verb.

हनुमानापि विक्रान्तः सर्वं शुश्राव तत्त्वतः | सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् || १ ||
विक्रान्तः हनुमान् सीतायाः त्रिजटायाःराक्षसीनां अपि च सर्वं तर्जनं तत्त्वतः शुश्राव |

अवेक्षमाणः तां देवीं देवताम् इव नन्दने | ततो बहु विधां चिन्तां चिन्तयामास वानरः || २ ||

यां कपीनां सहस्राणि सुबहूनि अयुतानि च | दिक्षु सर्वासु मार्गन्ते सा इयम् आसादिता मया || ३ ||
यां (सीतां) सहस्राणि सुबहूनि कपीनां अयुतानि च सर्वासु दिक्षु मार्गन्ते सा इयम् मया आसादिता (प्राप्ता) |

चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता | गूढेन चरता तावदवेक्षितमिदं मया || ४ ||
सुयुक्तेन चारेण गूढेन चरता शत्रोः शक्तिम् अवेक्षता मया तु तावद् इदम् अवेक्षितम् |
टिप्पणी - सुयुक्तेन - स्वामिना नियुक्तेन | अवेक्षता (प्रातिपदिकम् अवेक्षत्) - जानता (अवगच्छता हनुमता) | इदम् - एतत् वृत्तान्तम् | अवेक्षितं - ज्ञातम् |

राक्षसानां विशेषः च पुरी चेयम् अवेक्षिता | राक्षसाधिपतेरस्य प्रभावो रावणस्य च || ५ ||
राक्षसानां विशेषः च अस्य राक्षसाधिपतेः रावणस्य प्रभावः च इयम् पुरीं (च) अवेक्षिता |
टिप्पणी - राक्षसानां विशेषः = राक्षसानां ऐश्वर्यादिविशेषः | अवेक्षिता = निरीक्षिता इत्यपि पाठान्तरे |

युक्तं तस्य अप्रमेयस्य सर्वसत्त्वदयावतः | समाश्वासयितुं भार्याम् पतिदर्शनकान्क्षिणीम् || ६ ||
तस्य अप्रमेयस्य सर्वसत्त्वदयावतः पतिदर्शनकान्क्षिणीं भार्याम् समाश्वासयितुं युक्तम् |
टिप्पणी - युक्तम् = न्यायम् (योग्यम्)

अहमाश्वासयाम्यानां पूर्णचन्द्रनिभाननाम् | अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम् || ७ ||
अहं एनां पूर्णचन्द्रनिभाननाम् अदृष्टदुःखां दुःखस्य न हि अन्तं अधिगच्छतीम् आश्वासयामि |

यदि ह्यहमेनां देवीं शोकोपहतचेतनाम् | अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् || ८ ||

यदि हि अहम् एनां देवीं शोकोपहतचेतनाम् अनाश्वास्य गमिष्यामि दोषवत् गमनं भवेत् |
टिप्पणी - दोषवत् = दोषविशिष्टम्

गते हि मयि तत्रेयं राजपुत्री यशस्विनी | परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् || ९ ||
गते हि मयि तत्र इयं यशस्विनी राजपुत्री जानकी परित्राणम् अविन्दन्ती जीवितं त्यजेत् |
टिप्पणी - गते रामसमीपे | परित्राणं स्वरक्षाम् | अविन्दन्ती अपश्यन्ती इति पाठान्तरम् |

मया च स महाबाहुः पूर्णचन्द्रनिभाननः | समाश्वासयितुम् न्याय्यः सीतादर्शन लालसः || १० ||
सीतादर्शनलालसः पूर्णचन्द्रनिभाननः च सः महाबाहुः मया समाश्वासयितुम् न्याय्यः |
टिप्पणी - समाश्वासयितुम् सीताकथनेन बोधयितुम् | न्याय्यः योग्यः |

निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषितम् | कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् || ११ ||
निशाचरीणां प्रत्यक्षम् अभिभाषणम् अक्षमम् च | इदं कथं नु खलु कर्तव्यं अहं कृच्छ्रगतः हि  |
टिप्पणी - अक्षमम् अयोग्यम् | इदं - इदं कार्यम् | कृच्छ्रम् कष्टं पीडा व्यथा |

अनेन रात्रिशेषेण यदि नाश्वास्यते मया | सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् || १२ ||
यदि मया अनेन रात्रिशेषेण न आश्वास्यते (तर्हि) जीवितं परित्यक्ष्यति सर्वथा न अस्ति संदेहः |

रामः च यदि पृच्छेन्मां किं मां सीताऽब्रवीद्वचः | किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् || १३ ||
यदि रामः मां पृच्छेत् च मां सीता किं वचः अब्रवीत् (तर्हि) सुमध्यमाम् असम्भाष्य अहं किं तं प्रतिब्रूयाम् |

सीतासंदेशरहितं मामितस्त्वरया गतम् | निर्दहेदपि काकुत्स्थः क्रुद्धसतीव्रेण चक्षुषा || १४ ||
क्रुद्धः काकुत्स्थः इतः त्वरया गतम् सीतासंदेशरहितम् माम् तीव्रेण चक्षुषा निर्दहेत् अपि |

यदि वोद्योजयिष्यामि भर्तारं रामकारणात् | व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति || १५ ||
यदि वा रामकारणात् भर्तारम् उद्योजयिष्यामि (तर्हि) तस्य ससैन्यस्य आगमनं व्यर्थं भविष्यति |
टिप्पणी - यदि असंभाष्य एव | रामकारणात् रामप्रयोजनात् हेतोः | भर्तारं स्वस्वामिनं सुग्रीवम् |

अन्तरं त्वहमासाद्य राक्षसीनामवस्थितः | शनैराश्वासयाम्यद्य संतापबहुलामिमाम् || १६ ||
अहं तु राक्षसीनां (मध्ये) अवस्थितः अन्तरं (समयावकाशं) आसाद्य (प्राप्य) संतापबहुलां इमां शनैः अद्य आश्वासयामि |

अहं ह्यतितनुश्चैव वानरश्च विशेषतः | वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् || १७ ||
अहं हि अतितनुः (अतिसूक्ष्मः) विशेषतः वानरः च | इह संस्कृतां मानुषीं च वाचं उदाहरिष्यामि |

यदि प्रदास्यामि द्विजातिरिव संस्कृताम् | रावणं मन्यमाना मां सीता भीता भविष्यति || १८ ||
यदि द्विजातिः इव संस्कृतां वाचं प्रदास्यामि (तर्हि) मां रावणं मन्यमाना सीता भीता भविष्यति |
टिप्पणी - द्विजातिः (पुंलिङ्गम्) = द्विजः, ब्राह्मणः (जातिः = जन्म)

वानरस्य विशेषेण कथं स्यादभिभाषणम् | (पाठान्तरे एव दृश्यते अयं श्लोकः)
विशेषेण वानरस्य कथम् अभिभाषणं स्यात्  |

अवश्यमेव वक्तव्यम् मानुषं वाक्यमर्थवत् | मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता || १९ ||
मानुषं वाक्यम् एव अर्थवत् अवश्यं वक्तव्यम् | अन्यथा इयम् अनिन्दिता मया सान्त्वयितुं न शक्या |
टिप्पणी - मानुषम् = कोसलदेशवर्तिमनुष्यसंबन्धितम् (देवीपरिचितत्वात्)

सेयमालोक्य मे रूपम् जानकी भाषितम् तथा | रक्षोभिस्त्रासिता पूर्वम् भूयसत्रासमुपैष्यति || २० ||
इयं जानकी मे रूपं तथा भाषितम् आलोक्य पूर्वं रक्षोभिः त्रासिता सा भूयः त्रासम् उपैष्यति |
टिप्पणी  - रूपम् = वानररूपम्, भाषितम् = मानुषवाचम्

ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी | जानमाना विशालाक्षी रावणं कामरूपिणम् || २१ ||
ततः जातपरित्रासा मनस्विनी विशालाक्षी कामरूपिणम् रावणं जानमाना शब्दं कुर्यात् |

सीतया च कृते शब्दे सहसा राक्षसीगणः | नानाप्रहरणो घोरः समेयादन्तकोपमः || २२ ||
सीतया शब्दे कृते च राक्षसीगणः अन्तकोपमः नानाप्रहरणः घोरः सहसा समेयात् |
टिप्पणी  - समेयात् = मिलितः भवेत्

ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः | वधे च ग्रहणे चैव कुर्युः यत्नं यथाबलम् || २३ ||
ततः विकृताननाः सर्वतः मां सम्परिक्षिप्य वधे च ग्रहणे चैव यथाबलं यत्नं कुर्युः |

गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् | दृष्ट्वा च परिधावन्तं भवेयुर्भयशङ्किताः || २४ ||
(मां) परिधावन्तं दृष्ट्वा उत्तमशाखिनां शाखाः प्रशाखाः स्कन्धान् च गृह्य (राक्षस्यः) भयशङ्किताः भवेयुः |

मम रूपं च सम्प्रेक्ष्य वनं विचरतो महत् | राक्षस्यो भयवित्रस्ता भवेयुः विकृताननाः || २५ ||
वनं विचरतः मम महत् रूपं सम्प्रेक्ष्य विकृताननाः राक्षस्यः भयवित्रस्ताः भवेयुः |

ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि | राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने || २६ ||
ततः राक्षस्यः राक्षसेन्द्रनिवेशने राक्षसेन्द्रनियुक्तानां रक्षसाम् अपि समाह्वानं कुर्युः |

ते शूलशरनिस्त्रिंशविविधायुधपाणयः | आपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिणः || २७ ||
ते शूलशरनिस्त्रिंशविविधायुधपाणयः उद्विग्नकारिणः अस्मिन् विमर्दे वेगेन आपतेयुः |

संरुद्धः तैः तु परितो विधमे राक्षसम् बलम् | शक्नुयाम् न तु सम्प्राप्तुं परं पारं महोदधेः || २८ ||
राक्षसं बलं विधमे तैः परितः तु संरुद्धः (अहं) महोदधेः परं पारं सम्प्राप्तुं न तु शक्नुयाम् |

मां वा गृह्णीयुः आवृत्य बहवः शीघ्रकारिणः | स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् || २९ ||
बहवः शीघ्रकारिणः आवृत्य मां गृह्णीयुः मम च ग्रहणम् भवेत् वा इयम् च अगृहीतार्था स्यात् |

हिंसाभिरुचयो हिंस्युः इमां वा जनकात्मजाम् | विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् || ३० ||
इमां जनकात्मजां हिंसाभिरुचयः हिंस्युः वा ततः रामसुग्रीवयोः इदं कार्यं विपन्नं स्यात् |

1 comment:

  1. 6 to 12 class (sanskrit ) materials available this site :- https://www.samskrittutorial.in
    sanskrit class 8 :- https://play.google.com/store/apps/details?id=com.kesu.aptech.samskrit
    materials(videos/pdf/script) available app (application )
    6 to 12 class app also available play store, search on samskrit promotion or samskrit tutorial. https://play.google.com/store/search?q=samskrit%20tutorial

    ReplyDelete