Sunday, October 21, 2018

कन्दुकस्तुतिः Kandukastuti of Madhvacharya

कन्दुकः - गेन्दुकः इति जनप्रियः सर्वसामन्यश्च क्रीडनकः | मध्वमुनिना (1238-1317) बाल्यकाले पूर्वाश्रमे विरचितं सुमनोहरस्तोत्रमिदं तस्य काव्यकौशलमपि प्रकाशयति |

श्रीमन्मध्वाचार्यविरचिता कन्दुकस्तुतिः

अम्बरगङ्गा-चुम्बित-पादः पदतल-विदलित-गुरुतर-शकटः ।
कालियनाग-क्ष्वेल-निहन्ता सरसिज-नवदल-विकसित-नयनः ॥१॥
कालघनाली-कर्बुर-कायः शरशत-शकलित-रिपुशत-निवहः ।
सन्ततमस्मान् पातु मुरारिः सततग-समजव-खगपति-निरतः ॥२॥

अन्वयः 
अम्बरगङ्गा-चुम्बित-पादः पदतल-विदलित-गुरुतर-शकटः कालियनाग-क्ष्वेल-निहन्ता सरसिज-नवदल-विकसित-नयनः कालघनाली-कर्बुर-कायः शरशत-शकलित-रिपुशत-निवहः सततग-समजव-खगपति-निरतः मुरारिः अस्मान् सन्ततं पातु |

प्रतिपदार्थः 
अम्बरगङ्गाचुम्बितपादः 
अम्बरम् = आकाशः | द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् - इत्यमरः | आकाशे देवलोके वा प्रवहति गङ्गा सा अम्बरगङ्गा | तया देवगङ्गया चुम्बितः पादः यस्य सः अम्बरगङ्गाचुम्बितपादः | वामानावतारे त्रिविक्रमरूपसमये प्रजापतिब्रह्मणा दिव्यगङ्गाजलेन पूजितः | उक्तं च -
धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र |
स्वर्धन्यभून्नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः || (श्रीमद्भागवतम् ८.२१.४) 

पदतलविदलितगुरुतरशकटः
यस्य पादतलभागेन गुरुतरः महान् शकटः यानविशेषः विदलितः भग्नः सः | शैशवावस्थायां श्रीकृष्णः शकटरूपिणम् असुरं लीलया पादाघातेन हतवान् इति | क्लीबेऽनः शकटोऽस्त्री स्यात् गन्त्री कम्बलिवाह्यकम् - इत्यमरः |

कालियनागक्ष्वेलनिहन्ता 
कालियनामकनागस्य विषं यः अपहृतवान् | कन्दुकग्रहणव्याजेन यमुनाजलं प्रविश्य श्रीकृष्णः तन्निवासं विषसर्पं मर्दितवान् | क्ष्वेलस्तु गरलं विषम् - इत्यमरः |

सरसिजनवदलविकसितनयनः 
सरसिजं कमलम् | सरसि जायते इति | नवदलविकसितं नूतनशकलैः पुष्पितं | कोमलकमलपुष्पमिव नेत्रं यस्य सः |
कालघनालीकर्बुरकायः 
काळाः कृष्णवर्णाः घनाः मेघाः | तेषाम् आली पङ्क्तिः | आली सख्यावली अपि - इत्यमरः | कृष्णमेघवत् वर्णयुक्तः कायः देहः यस्य सः | चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे - इत्यमरः |

शरशतशकलितरिपुशतनिवहः 
शरशतं बाणसमूहेन रिपुशतनिवहः शत्रुगणः शकलितः खण्डितः पराजितः येन सः | समूहनिवहव्यूहसंदोहविसरव्रजाः - इत्यमरः | रामकृष्णाद्यवतारेषु दुष्टशिक्षणं शिष्टरक्षणं कृतवान् |

सततगसमजवखगपतिनिरतः

सततगः सततं सर्वदा गच्छतीति वायुः | समजवः सदृशवेगः | वायुः सदृशः वेगः यस्य अस्ति सः गरुडः | खगानां पक्षिणां पतिः श्रेष्ठः गरुडः | तस्मिन् गरुडे निरतः संस्थितः | गरुडवाहनः विष्णुः |

मुरारिः
मुरनामकदैत्यस्य अरिः हन्ता | मुरस्य संसारतापस्य हर्ता इति वा |

सन्ततम् अस्मान् पातु 
सन्ततं सर्वदा अस्मान् भक्तजनान् पातु रक्षतु |

Saturday, October 6, 2018

शृगालस्य कूटनीतिः Fox's Vile Strategy

(महाभारताधारिता कथा)
एकस्मिन् महारण्ये कश्चिदेकः चतुरः श्रृगालः वसति स्म | व्याघ्रः वृकः नकुलः मूषकश्चेति तस्य चत्वारि मित्राणि आसन् | एकदा आहारेप्सवः ते तृणप्रदेशे चरन्तं बलिनं हरिणमेकं दृष्टवन्तः | वेगशीलः सः मृगः कथं मारणीयः इति मित्रवृन्दः चिन्ताग्रस्तोऽभवत् । कुशाग्रमतिः शृगालः उपायमेकं चिन्तितवान् | तदनुसारं यदा हरिणः शयानः तदा मूषकः तस्य पादेषु दशनं कृतवान् । व्रणपीडितो हरिणः धावने मन्दगतिः अभवत् । तदा व्याघ्रः हरिणं सकृदेव हतवान् । कपटहृदयः शृगालः भक्ष्यविभजनमनिच्छन् कूटनीतिं व्यदधात् । सः अशनातुरान् व्याघ्रनकुलमूषकवृकान् शिष्टधर्मं बोधयन् स्नात्वा आगन्तुं व्यपादिशत् । तथेति स्नानार्थं निर्गताः सर्वे । तेषु व्याघ्रः सर्वप्रथमः शुचीभूय प्रत्यागच्छत् ।

शृगालः ‌‌- हे वीरवर ! मूषकमुखात् श्रुतं मया यत् स एव मृगहन्तकः न तु अमानी व्याघ्रः इति ।
तच्छ्रुत्वा व्याघ्रः अन्यैर्हतं न खादामि इति उक्त्वा ततः निरगच्छत् । तदा आगतः मूषकः ।
शृगालः - हे मूषक ! मृगमांसं विषसमं च मूषकमेव खादामीति नकुलभाषणमासीत् ।
तदाकर्ण्य मूषकः सत्वरेण स्वबिलं प्राविशत् । तदनन्तरमागतः वृकः ।
शृगालः - हे वृकराज ! व्याघ्रोऽसौ क्रुद्धो अद्य । अस्मान् हन्तुकामः सः अचिरेणैव इह आयास्यति ।
तच्छ्रुत्वा वृकः ततः पलायितः । इदानीं नकुलः आगतः ।
शृगालः - हे नकुल ! मया सह युद्धे अन्ये सर्वे पराजिताः । यदि त्वं समर्थोऽसि मां निर्जित्य मृगाहारमिमं भक्षयस्व ।
व्याघ्रवृकौ येन पराजिताः सः मया जेतुं दुःशकः इति भीत्वा नकुलः ततः पलायितः ।

शृगालः निष्कण्टकः सर्वं पिशितं जग्ध्वा संतृप्तोऽभवत् ।

Thursday, September 20, 2018

Sundarakanda in One Shloka एकश्लोकी सुन्दरकाण्डम्

|| राघवेन्द्रस्वामिविरचितम् एकश्लोकी सुन्दरकाण्डम् ||

यस्य श्रीहनुमाननुग्रहबलात्तीर्णाम्बुधिर्लीलया
लङ्कां प्राप्य निशाम्य रामदयितां भङ्क्त्वा वनं राक्षसान् ।
अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः
तीर्णाब्धिः कपिभिर्युतो यमनमत् तं रामचन्द्रम्भजे ॥

इति राघवेन्द्रस्वामिविरचितं एकश्लोकी सुन्दरकाण्डं सम्पूर्णम् ।

पदच्छेदः
यस्य श्रीहनुमान् अनुग्रहबलात् तीर्णाम्बुधिः लीलया
लङ्कां प्राप्य निशाम्य रामदयितां भङ्क्त्वा वनं राक्षसान् ।
अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः
तीर्णाब्धिः कपिभिः युतो यम् अनमत् तं रामचन्द्रं भजे ॥

अन्वयः
यस्य अनुग्रहबलात् श्रीहनुमान् लीलया तीर्णाम्बुधिः, लङ्कां प्राप्य, रामदयितां निशाम्य, वनं भङ्क्त्वा, अक्षादीन् राक्षसान् विनिहत्य, दशकं वीक्ष्य, तां पुरीं दग्ध्वा, पुनः तीर्णाब्धिः, कपिभिः युतः, यम् अनमत्, तं रामचन्द्रं भजे |

अर्थः
यस्य = यस्य पुरुष्यस्य, अनुग्रहबलात् = प्रसादात्, श्रीहनुमान् = वायुपुत्रः, लीलया = निरायासेन, तीर्णाम्बुधिः = सागरं लङ्घितवान्, लङ्कां प्राप्य = लङ्कानगरीं गत्वा, रामदयितां निशाम्य = सीतां रामसंदेशं श्रावयित्वा, वनं भङ्क्त्वा = अशोकवनस्य नाशनं कृत्वा, अक्षादीन् राक्षसान् विनिहत्य = अक्षकुमारादीन् अनेकराक्षसान् मारयित्वा, दशकं वीक्ष्य = रावणेन सह वार्तालापं कृत्वा, तां पुरीं दग्ध्वा = लङ्कादहनं कृत्वा, पुनः तीर्णाब्धिः = पुनः सागरं लङ्घितवान्, कपिभिः युतः = वानरैः सह मिलितवान्, (अनन्तरं) यम् अनमत् = (सः आञ्जनेयः) यं पुरुषश्रेष्ठं प्रणतवान्, तं रामचन्द्रं भजे = तं श्रीरामचन्द्रं प्रीणये |

In English:
I salute Ramachandra, by whose blessings, Shri Hanuman easily crossed the sea, reached Lanka and delivered Rama's message to Sita, destroyed the (Ashoka) garden, killed Aksha and many demons, met Ravana, burned down the city of Lanka, crossed the sea again, joined with the other monkeys, and then bowed at his (Rama's) feet.

Saturday, September 8, 2018

गणपतिखण्डसंग्रहः Ganesha Katha


ब्रह्मवैवर्तपुराणान्तर्गतगणपतिखण्डसंग्रहः

गणेशजननम्
महादेवीपार्वती महादेवशिवः लोककल्याणहेतुना पुत्रीयन्तौ एकान्ते रमेते स्म | तस्मिन्नेव समये परमात्मा श्रीकृष्णः स्वभक्ते नीलकण्ठे अनुग्रहकामः वृद्धब्राह्मणरूपधारी तत्र आगतः | शङ्करभवनद्वारि स्थितो भिक्षां ययाच स भूसुरः | जगतः पितरौ गौरीश्वरौ लोकनीतिं प्रदर्शयन्तौ बुभुक्षितब्राह्मणाय अन्नदानार्थं सत्वरमन्तःपुरादपसृत्य चत्वरमासादितौ | याचकेन सह कुशलवचनं व्याहृत्य सती सा पाकगृहं प्रविशन्त्यां सति मायापतिः मायया शम्भुशय्यागारं प्रविश्य तत्रत्यतल्पस्थिते वृषभध्वजतेजसि स्वांशेन लीनोऽभूत् | तस्माज्जातः कृष्णांशसंभूतः शुभलक्षणाङ्गः सुन्दराकारः शिशुरेकः | देवी उमा द्वाराभ्याशे ब्राह्मणमदृष्ट्वा विस्मयाविष्टा स्वान्तःपुरं प्राप्ता | तत्र मन्दहासेन क्रीडन्तं बालं प्रेक्ष्य आनन्दतुन्दिला सा अर्भकं वक्षसि कृत्वा स्तन्यं पायितवती |

गजाननप्राप्तिः
गिरिजागिरीशयोः अपत्यजननवार्तां समाकर्ण्य वृन्दारकवृन्दः कैलासक्षेत्रं समागतः | अगजाननपद्मार्कं चारुहासिनं शिशुं दृष्ट्वा परितुष्यन्तः विष्णुमुखदेवाः सुकुमारं बुद्धिबलादिवरान् प्रददुः | शङ्करपुत्रः सः गणेश इति नाम्ना अङ्कितः | सूर्यपुत्रः  शनैश्चरोऽपि शिशोः समीपं नतमुुखः उपस्थितः | तद्दृष्ट्वा पार्वती शनैश्चरं तस्य कारणं पप्रच्छ | नवजाते स्वदृष्टिपातः अहितकारणं भवतीति शनैश्चरोऽब्रवीत् | तथापि मातुराग्रहवचनेन ग्रहाधिपतिः शनैश्चरः कटाक्षेण शिशुमीषदैक्षत | शनेः दृष्टिमात्रेण सपदि गणेशस्य शिरो भग्नीभूतम् | सुतस्य मृतावस्थां प्रपश्य भृशं विलपन्तीं पर्वतसुतां सान्त्वयित्वा श्रीहरिः गरुढारूढः उत्तरदिशि प्रस्थितवान् | तत्र सपरिवारं शयानस्य गजराजस्यैकस्य मस्तकं सुदर्शनचक्रेण कर्तयित्वा स्वहस्ते गृहीतवान् | तदा गजराजपत्नी रोदं रोदं नारायणं बहुधा स्तुतवती | स्तवप्रियः चक्रधारी कस्यचिदन्यगजस्य शिरः योजयित्वा तं गजराजं पुनर्जीवितं चकार | ततः गरुडवेगेन कैलासगिरिं प्राप्य पार्वतीपुत्रे करिशिरः संयुज्य तं जीवनप्रदानं कृतवान् | गजाननं पुनर्जीवितं दृष्ट्वा प्रमुदिता पार्वती भक्त्यादरेण श्रीविष्णुं प्राणमत् |

एकदन्तरूपम्
जामदग्निः भार्गवरामः पिनाकिनः पाशुपतास्त्रं प्राप्य कार्तवीर्यं निषूदितवान् | तदनन्तरं सः भूमण्डलमखिलं परिभ्रम्य तद् दुष्टक्षत्रियरहितं चकार | तन्महत्कार्यं समाप्य रेणुकानन्दनः नन्दिवाहनमभिवादयितुं कैलासं समपद्यत | त्रिलोचने निद्रासक्ते सति मन्दिरप्रवेशद्वास्थः गजाननः भार्गवमार्गं निरुध्य प्रतिपालनं प्रतिपादितवान् | शीघ्रकोपी विप्रर्षभरामो गजकर्णवचनमनादृत्य नागभूषणनिलयं प्रवेष्टुमुद्युक्तः | शक्तिसुतगजमुखभृगूद्वहयोर्मध्ये भीकरयुद्धं संजातम् | शान्ताकारो हस्तिवदनः बलिष्ठेन करिकरप्रायशुण्डेन क्षत्रकुलान्तकं लीलया वेष्टयित्वा बहुधा पीडयामास | कृष्णांशसंभूतद्विपाननेन परिक्लान्तो भार्गवः अस्त्रश्रेष्ठं परशुं प्रायोजयत् | सहस्रांशुप्रभामप्रभाकारः परशुरमोघो मातङ्गमुखं प्रति प्राद्रवत् | तन्निवारयितुं समर्थोऽपि गणेशः महादेवशङ्करसन्निहितपरशुं सम्मानयन् तमायुधं स्वीचकार | तद्घोरायुधं द्विरदवदनस्य वामदन्तं समूलं भञ्जितवत् | कदनेक्षुकाणां कैलासवसिनां कोलाहलेन उमोमेश्वरौ भवनाद् बहिरागतौ | रक्तसिक्तवदनं निजसुतं संपश्य भगवती मोमूर्च्छ्यमाना भृशं विललाप | परितप्ता सा दन्तभग्नकारणं परशुरामं शप्तुमुद्यता | तदा दिव्याभरणभूषितः श्रीमन्नारायणः प्रकटीभूय हिमसुतां सान्त्वनवचनेन प्रशामितवान् | भृगुश्रेष्ठः एकदन्तं गणपतिं संस्तुत्य स्वधामं निर्जगाम |

तुलसीनिषेधः
नवयौवना तुलसी पाणिग्रहणयोग्यं युवकं अन्विष्यन्ती महीतले भ्रमति स्म | तदा सा गङ्गातीरे गङ्गाञ्चितपादध्यानासक्तं गङ्गाधरसुतमन्वैक्षत | शान्ताकारं तारुण्यवर्णसौन्दर्यातिशयमनोहराकारं प्रपश्य स्मरशरक्षता बभूव सा | किञ्चित् प्रणयविनोदाकाङ्क्षी तुलसी निमीलितनेत्रं शैलजासुतमुपगम्य किमिदं हरिशत्रुवक्त्रं कथं ते भग्नदन्तः क्वेदं लम्बितोदरं तव इति उपहासं चकार | मूर्ध्नि तस्य किञ्चिज्जलं सुत्वा तर्जन्या तं पीडितवती | भग्नतपः शङ्करात्मजः स्मितवदनां युवतीभावप्रमत्तप्रमदां पुरतःस्थितां शान्तचित्तः एव मातरिति संबुध्य परिचयं चित्रप्रवृत्तिकारणं च पप्रच्छ | तुलसी मनोगतमाशयं परिणयेच्छां प्राकटयत | कृष्णैकमनस्कः विनायकः विनयेन तां तिरस्कुर्वन् पतिमन्यं मार्गयितुमकथयत् | नैराश्यदग्धहृदया तुलसी पत्नी तव असाध्वी भवत्विति पार्वतेयं शशाप | निष्कारणं शप्तः शंभुतनयः तुलसीमपि असुरग्रस्ता वृक्षरूपा भवेति प्रत्यशपत् | निरस्तपरिणामदुःखिता तुलसी नारायणं शरणङ्गता | तत्कृपया सा गणेशपरित्यक्तापि कालान्तरे शङ्खचूडासुरबन्धनमुक्ता वृक्षरूपेण श्रीहरिपरमप्रिया बभूव |

वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ |
निर्विघ्नं कुरुमे देव सर्वकार्येषु सर्वदा ||

Friday, June 22, 2018

Sanskrit and Computers - Words Apart

In any formal or informal gathering about Sanskrit, the topic of Sanskrit being very well suited for modern day advanced intelligent technologies comes up invariably. (See also the blog post: Sanskrit: Best Language for Computers-True or False?). And the Sanskrit lovers love to associate Sanskrit with any and every possible modern phenomenon. This goes in the same vein that many try to find everything in ancient Indian literature and stories to be somehow superior or advanced compared to its modern-day counterpart. For example: advanced weaponry, nuclear warfare, airplanes, architecture, astronomy, sea travel, test tube babies, gender-change procedures and so on. Some of it could be true. But this narcissism taken to the extreme could cloud the reality and become highly nonsensical and irrelevant.

For example, take the case of the subject of prosody (छन्दस्). The basic units of short and long weight of syllables are called laghu (लघु) and guru (गुरु). Some put it as the basis for today's binary system. The binary system has two states represented by 0 and 1, and is the underlying science of today's digital technology. But we can find this binary state in many other things like day/night, yes/no, black/white, wet/dry, hot/cold, open/close. The inventors of the binary system found it convenient and more efficient in the transmission of signals and quickly adapted it in electronics. There could be analogy between laghu/guru and 0/1, but saying that one has borrowed from another is bit of a stretch.

Another big topic is that of computers or robots and Sanskrit. Here, computers and robots represent state-of-the art technologies and are supposed to be the result of the most sophisticated advent in the technology. With the current trends in the industry, there is a huge push to mimic the human brain into a machine. That is a big temptation for Sanskrit lovers - to associate Sanskrit with anything that is perceived as modern and smart. Because Sanskrit grammar has a very well-defined structure and to the most part, is rule-based, it makes sense to think that the algorithmic approach fits the computers or the robots. This thought is in fact an insult to the Sanskrit language. If the entire language can be machine-generated and programmed into the robots, Sanskrit would be just another dumb computer language, only better in terms of its structure and understandable by humans too.

While Sanskrit has a well-defined grammatical structure, it is a highly evolved language. For those who do not believe in Darwin's theory of evolution, Sanskrit has been in existence forever and is the "original" language of the gods and mankind. Even with evolution theory in place, the experts have a range of 75,000 and 10,000 years for the most ancient Sanskrit literature - the Vedas- which themselves are in a very highly developed linguistic form. In Sanskrit, not only a word, but each sound, each letter has its own meaning. And they get together to form a word. The words can combine multiple times to form infinite number of words. The beauty of Sanskrit is that there is no specific word for a given thing. For example: for fire, there are not many alternate words in the English language. Thesaurus.com shows a few synonyms of fire, but they are mostly the words that are like fire - heat, tinder etc., but not the fire itself. But in Sanskrit, an object is defined by its characterstics. So, a fire can be referred to by multitude of words - like agni (one that does not move), hutaashana (one which eats everything), anala (one which is never satisfied), jvaalaa (one which burns), vaayusakha (friend of wind), saptajihva (one which has multiple flames) etc. Similarly, one word can refer to multiple objects. For example: hari might refer to the god (who destroys), or a horse (which moves fast), a lion, a parrot, a monkey, a serpent, a swan, a frog, a cuckoo, fire, wind, sun, moon, green and many more depending on the interpretation and context.

There is a famous verse which is a good example to quote here:
अङ्गुल्या कः कपाटं प्रहरति विशिखे माधवः किं वसन्तो
नो चक्री किं कुलालो न हि धरणीधरः किं द्विजिह्वः फणीन्द्रः |
नाहं घोराहिमर्दो किमुत खगपतिर्नो हरिः किं कपीन्द्रः
इत्येवं सत्यभामाप्रतिवचनाजितः पातु वश्चक्रपाणिः ||
When Krishna knocked on the door of his wife Satyabhaama's room, she asks - who is it?
Krishna: I am Maadhava. She: Is it the spring season (maadhava also means spring).
Krishna: No, I am Chakrii. She: Is it a potter?
Krishna: No, I am DharaNidhara. She: Is it the great serpent (who carries the earth)?
Krishna: No, I am the one who killed the poisonous snake (Kaaliya). She: Are you Garuda?
Krishna: No, I am Hari. She: Are you a monkey?
May lord Krishna, thus won over by the words of Satyabhaama, protect us.

This is true for every word and object in Sanskrit. It is completely contextual and the word formation is entirely natural. The speaker has the freedom to make use of the best combination of letters, words or compound words to describe the character(s) of an object in the given context and bring about the most appropriate meaning of that object. For instance, to describe a heating situation, jvaalaa maight be appropriate. If something is burning, saptajihava might convey it better. If want to indicate destruction, anala or hutaashana might work better. If the listener knows the difference in these meanings, the understanding would be more satisfying and complete, else it could be just understood as fire (something which burns). This flexible approach presents numerous possibilities to coin any new word on the fly. If it is some other language, we need to open its dictionary and look up the word or import the word as is. Not necessary here. For example: what is the word for traffic? The characteristic of traffic is excessive presence of flow of vehicles. One can come up with the word like प्रवाहिनी. What about a (motor) car? The machine is used for moving us or taking us places. While रथ or यन्त्ररथ can be used, one can call it गन्त्री.

Sanskrit language represents the pinnacle of human ingenuity, the unfathomable intelligence that has evolved (or existed) over billions of years. It is a complete natural representation of the eternal and infinite sounds in the universe. In that sense, it is truly गीर्वाणभारती - the divine language, the universal language. Thinking of today's (and any future) gadgets and Sanskrit on the same plane is belittling to this greatest language.

Friday, June 15, 2018

Saturday, June 9, 2018

Purandara Dasa पुरन्दरदासः

पञ्चदशतमे क्रैस्तशतके दक्षिणभारते कर्णाटप्रदेशे शिमोगाप्रान्ते वरदप्पनायकनामकः वाणिज्यवृत्तिनिरतः वसति स्म | १४८४तमे क्रैस्तशके तस्मिन् जातः श्रीनिवासनाम्ना पुत्रः | यथाक्रमं विद्याधीतस्य तस्य प्राप्ते वयसि सरस्वतीनामकवधुना विवाहः संपन्नः | श्रीनिवासस्य विंशके तारुण्ये तस्य पिता दिवंगतः | पितुः वाणिज्यवृत्तिमनुवर्तमानः श्रीनिवासः बहु शीघ्रं ख्यातधनाढ्योऽभवत् | चतुर्णां बालकानां जनकः सः स्ववृत्तिभावात् धनलालसापरः परमकृपणोऽपि आसीत् |

एकस्मिन् दिने श्रीनिवासे स्वापणे वृत्तिनिरते सति अकिञ्चनः कश्चन ब्राह्मणः एकदा पुत्रस्य उपनयनार्थं धनं याचमानः तत्र आगतवान् | दरिद्रेषु उदासीनः श्रीनिवासः ब्राह्मणं तिरस्कृतवान् | धनार्तस्य ब्राह्मणस्य पुनः पुनः प्रार्थनेनापि श्रीनिवासः कठिनहृदयो दाने नोदसहत | हताशो ब्राह्मणः श्रीनिवासस्य पत्नीं सरस्वतीं संप्राप्य तां विषयं निवेदयन् धनयाचनामकरोत् | निर्धनेषु दयापराऽपि सा पतिव्रता भर्तुराज्ञया विना दानेऽशक्तास्मीति अवदत् | परं यायाच्यमाने ब्राह्मणे कृपाविष्टा सा स्वमात्रा दत्तं नासाभरणं तस्मै दत्तवती | संतुष्टो ब्राह्मणः तत् स्वर्णाभरणमादाय श्रीनिवासस्य समीपे गतवान् | तदाभरणं न्यासरुपेण स्वीकृत्य धनं प्रदातुं व्यज्ञापयत् | श्रीनिवासः तदाभरणं स्वीकृत्य पत्न्याः इति अभिज्ञाय पेटिकायां स्थापितवान् | ब्राह्मणं तत्रेव प्रतीक्षमाणं कृत्वा गृहं प्रति अधावत् | गृहे पत्न्याः सरस्वत्याः नासिकायामभरणमदृष्ट्वा सः आक्रोशेन तद्दर्शयितुमवदत् | भयाक्रान्ता सरस्वती स्वप्राणत्यागोद्युक्ता महानसं गत्वा विषप्राशनाय चषकं कल्पितवती | अहो किमाश्चर्यम् | चषके नासाभरणं प्रत्यक्षोऽभवत् | तद्गृहीत्वा सा पतिं न्यवेदयत् | सविस्मितः श्रीनिवासः पुनः आपणमवाप्य दृष्टवान् यत् ब्राह्मणो नासीत् पेटिकायामाभरणमपि अदृष्टम् | एतत् सर्वं भगवतः श्रीहरेः एव लीलानाटकमिति विदितवान् |

ततः परं श्रीनिवासः संसारे वैराग्यभावं चिन्तयन् स्वधनं सर्वं दीनजनाय दत्त्वा हरिपरोऽभवत् | विजयनगरवासिनः तत्कालीनप्रसिद्धयते: व्यासराजसकाशात् तेन हरिदासदीक्षा समपद्यत | तद्दीक्षाप्रदानकाले तस्य नवनामकरणोऽपि जातः पुरन्दरदास इति | हस्ते तुन्तुवाद्यं पादयोः किङ्किण्यौ धरन् पुरन्दरदासः स्वरचितभक्तिपदानि गायन् जनेषु भक्तिमार्गं प्रसारयति स्म | सुलभावबोधानि कन्नडजनभाषायां रचितानि तस्य पद्यानि अतीव जनप्रियानि | तत्कारणात् दाससाहित्यं भारतीयसंगीतक्षेत्रं च विस्तारिते प्राकाशेताम् | प्रायः तेन ४७५००० रचनानि निर्मितानि इति श्रूयते | संप्रति प्रायशः उपसहस्रं रचनान्येव उपलब्धानि | भगवल्लीलापराणि पुराणेतिहासकथाविषयाकानि सामाजिकनीतिबोधकानि नैकानि तस्य पद्यानि प्रख्यातानि | कर्णाटराज्यस्य हम्पीनगरे पुरन्दरदासः अशीतितमे वयसि विष्णुपदमवाप |

पुरन्दरदासः हरिदासजनेषु अग्रगण्यः | अस्य भक्ताग्रेसरस्य कीर्तनानि अद्यापि मिथ्याचारविषये सामाजिकवैषम्यविषये अन्धानुकरणविषये उद्बोधकानि सन्ति |

मन्मनोभीष्टवरदं सर्वाभीष्टफलप्रदम् |
पुरन्दरगुरुं वन्दे दासश्रेष्ठं दयानिधिम् ||

ज्ञानवैराग्यसंपन्नं भक्तिमार्गप्रवर्तकम् |
पुरन्दरगुरुं वन्दे दासश्रेष्ठं दयानिधिम् ||

Saturday, April 28, 2018

The "Shishta Prayoga" Conundrum

In Sanskrit literature including the vedas, many times usages of words are found that do not comply with the traditional Paniniya grammar. Many times parasmaipadi verbs are found to be in the atmanepadi form (or vice versa). Sometimes upapada vibhaktis may be used in a different way. Sometimes a kridanta pratyaya may found to be used in a manner not according to the traditional rules.

Though there are strong evidences that Sanskrit was once a widely spoken language, at least until Panini wrote his famous Ashtadhyayi, it is not clearly known why it lost that position and the regional languages overpowered it. Could it be the indifference of the people who spoke it? Or was it because the constructs were too open for interpretations? (See Freedom - Beauty or Challenge? and Sanskrit - Is it a language?) Or just as all great things tend to go out of vogue (to preserve their sanctity?) Sanskrit also disappeared?

Whatever the reason, it would be logical to say that the sheen of Sanskrit was in decline when Paniniya method of study was abandoned and alternate methods like Siddhanta Koumudi and Laghu Siddhanta Koumudi (LSK) were written and adopted by the masses. Panini's Ashtadhyayi goes about presenting the rules of grammar (sutras) in a sequence which seems to be natural for the people who were already familiar with and spoke the language. And we hear that people in those times used to memorise the entire Ashtadhyayi. LSK rearranges the same rules in Ashtadhyayi and organizes them in related chapters like sandhis, nouns, verbs etc. This is a major difference indicating the lost grip of Sanskrit as a native language. The study methods followed thereafter and practised even today are LSK-based and seems practical in today's world. Though some schools claim to follow Paniniya method, it is not purely Ashtadhyayi sequence, because it is almost not possible to comprehend the rules if the original sequence is followed.

In the centuries that followed, as the local languages took root, Sanskrit remained as a link-language - a means of communication between people of different regions - somewhat like English today. Even in Valimiki Ramayana there are references to a language (other than Sanskrit or at least a dialect) spoken in Sita's Mithila, and Hanuman pondering whether he should talk to Sita in a style of Sanskrit used by dwijatis (brahmana, kshatriya etc.). Over the years, Sanskrit played a key role in preserving the culture of the Indian subcontinent and binding different factions spread across it. Ashtadhyayi, LSK and other supporting works of various grammarians provided a solid framework which is essential for a link-language. The structure and the constructs of the language, which had already a strong scientific base, were well-defined with logical treatises.

The immense amount of literary works that was created in Sanskrit largely complies with the well-defined grammatical structures. However, in Vedas, Ramayana, Mahabharata and works of many later scholars like Kalidasa, Dandi etc. there are rare cases of word-usages that seem to deviate from the traditional grammar rules. How are these deviations to be justified? In case of Vedas, that would be easy, as one could argue that they are not man-written, but God's message to the sages. Ramayana and Mahabharata were composed by great sages, so those rare deviations found in those works and similar ones are termed as "arsha" (made by or related to sages). Therefore they are acceptable. What about the poets like Kalidasa and Dandi? Deviation such eminent figures is termed "shishta prayoga" (practice by eminent people).

Here comes the the problem. Citing these rare deviations by famous poets and personalities, some later writers might repeat them in their works. Whether such deviated usages were accepted in speech is questionable (as Sanskrit's position at those times itself is obscure). Students and veterans of Sanskrit (especially today) take fancy to such rare usages and justify such usages by themselves. But this practice needs a second thought. "Arsha" was sagely composition. Are we sages of that stature? Many sages have done strange things in their lives albeit rarely. That does not mean the general population is supposed to follow those rare examples. And poets like Kalidasa, Dandi etc. might have resorted to deviations for various reasons - like to fit the words into metres, to bring out the poetic meaning, or just by sheer ignorance. Many scholars criticise a bunch of grammatical errors in Kalidasa's works. Incorrect usages in population can be generally attributed to the so-called "experts" who happily and painstakingly find such non-compliant usages from the ocean of literary works, and then publish them to the masses, giving it a shade of acceptance.

One or two non-compliant usages + publish by "researcher" = mass acceptance

If we keep justifying modern incorrect usages citing such rare occurrences, it is like choosing to imitate one bad deed of a great person who otherwise lived perfect his entire life (Mahatma Gandhi stole and lied, me too!).

Sunday, April 22, 2018

Anusvara Part 2 - व्याकरणविवॆचनम्

My last post ("मधुरं फलम्" - The Anusvara Conundrum) showed the "why" of anusvara and मकार difference. In this post, we will see how this difference is supported in the classical Sanskrit grammar. The following is taken from Samjna Prakarana of Laghu Siddhanta Kaumudi (LSK).

मुखनासिकावचनॊऽनुनासिकः | (पा १.१.८)
मुख-सहित-नासिकयॊः वाच्यमाणः वर्णः अनुनासिकसञ्ज्ञः स्यात् |
The sounds pronounced using nose and mouth are called anunasika.
Amongst the grouped consonants, ङ् ञ् ण् न् म् are known as anunasika - pronounced through nose and mouth.

The next few sentences in LSK explain the positions of various vowels and consonants. Each grouped consonant originates from a position in the mouth. Then comes:

ञमङणनानां नासिका च | 
ङ् ञ् ण् न् म् एतॆषां वर्णानामुच्चारणॆ नासिकायाः च (अपि) उपयॊगः भवति |
In the pronunciation of ङ् ञ् ण् न् म्, nose is also used (with mouth). Because the earlier sutras state that other consonants use only mouth.

Then after another couple sutras in between, place of anusvara is mentioned.
नासिकाऽनुस्वारस्य |
अनुस्वारस्य स्थानं नासिका (कॆवलम्) |
which states that the pronunciation place of anusvara is just nose.

The distinction between anusvara and मकार is very clearly stated. Note that in the varnamala chart, anusvara written as अं is for representation only. It can be written as -ं It should not be pronounced as अम्, but just the humming sound coming through the nose. For मकार, the air passing through the mouth should hit the lips, making the nasal pass as well.

Friday, April 20, 2018

मधुरं फलम् - The Anusvara Conundrum



Which one is correct in the following:
मधुरम् फलम् । Or मधुरं फलम् ?
दॆवम् वन्दॆ । Or दॆवं वन्दॆ ?

As per anusvar sandhi,  मधुरं फलम् and दॆवं वन्दॆ are correct. After म् at the end of a word, if a consonant comes (as the starting of the next word), then म् is changed to anusvar (अं). Almost in all Sanskrit grammar books and resources, this aspect is shown as pertaining to only writing style. If म् is not changed to अं under the above conditions while writing, then it is considered to be incorrect. But what about pronunciation? Mostly nothing is said about the pronunciation or it is heard that there is no difference in their pronunciation.

But is it so? Sanskrit is a phonetic language. Its letters are merely written representation of the sounds produced by various parts of human oral and nasal cavities. If both म् and अं are pronounced same, then there was no need for these two letters to exist separately. And also, a sandhi's fundamental rule is that when two letters (sounds) are close enough to combine, they combine and resulting in "change of sound". And in Sanskrit, since sounds are represented as letters, a different letter is written to indicate the changed sound. Anusvar sandhi is no exception to this. When we say sandhi, the resulting sound must change.

Anusvar (अं) sound, as the name indicates, always follows a svara (vowel). म् is a labial consonant and can follow another consonant. अं is a pure nasal sound - means there is no involvement of oral cavity in its generation, just the nasal passage. While pronouncing अं, the air should pass through only the nasal passage keeping the mouth closed and avoiding the air through the oral cavity. Whereas, while pronouncing म्, the air should pass through both the oral cavity and nasal passage. This makes a subtle difference in the sound, but they are not the same! The pictures presented below depict this difference. Therefore, we should not be under the impression that the anusvar sandhi is only about the writing style.



In Sanskrit:
अधस्तनवाक्यद्वये कतरं शुद्ध्म् ?
मधुरम् फलम् समीचीनम् । उत मधुरं फलम् ?
तथैव अनयोः ? दॆवम् वन्दॆ । उत दॆवं वन्दॆ ?

फलानि सर्वदा मधुराणि रुचिकराणि भवन्ति । देवः सर्वदा वन्द्यः । तर्हि किमर्थमयं प्रश्नः ?

अनुस्वारसन्धिः वदति मधुरं फलम् इति समीचीनम् (न तु मधुरम् फलम्) | दॆवं वन्दॆ इति समीचीनम् (न तु दॆवम् वन्दॆ) | हल्-सन्धिषु अनुस्वारसन्धिः अन्यतमः | तदनुगुणं यदा मकारः पदस्य अन्तॆ भवति तथा तदनन्तरं कश्चित् हल्(व्यञ्जन)वर्णः अस्ति तदा मकारस्य स्थानॆ अनुस्वारः आगच्छति | (अष्टाध्यायी- मॊऽनुस्वारः ८.३.२३)

यदि मकारानन्तरं स्वरः अस्ति चॆत् परिवर्तनं न भवति | यथा -
वृक्षम् अवलॊकय
नीलम् आसनम्

एषः नियमः लॆखनॆ पालनीयम् अन्यथा लॆखनॆ दॊषः इति प्रायः सर्वॆषु व्याकरणपुस्तकॆषु सन्धिपाठॆषु दृश्यतॆ श्रूयतॆ च | अनुस्वार-मकारयॊः मध्यॆ उच्चारणभॆदः न वर्ततॆ इति बहुत्र दर्शितमस्ति अथवा तस्मिन् विषयॆ तूष्णीभावं दृश्यते | परन्तु कॆवलं लॆखनविषयॆ अयं सन्धिः भवति किमिति चिन्तनीयम् |

संस्कृतभाषा भाषाधारिता इत्युक्तॆ शब्दाधारिता | ध्वनिशास्त्रानुगुणं वर्णॊत्पत्तिः वर्णमाला च (आङ्ग्लभाषा तथा नास्ति) | वर्णमालायाः प्रत्यॆकः वर्णः विशिष्टमॆकं ध्वनिं प्रदर्शयति | कदाचित् वर्णद्वयस्य उच्चारणॆ भॆदः नास्ति चॆत् तस्य अस्तित्वमॆव निरर्थकम् | अपि च व्याकरणॆ सन्धिः इत्युक्तॆ द्वयॊः वर्णयॊः मॆलनात् जातः शब्द(ध्वनि)विकारः इति विदितमॆव | सर्वॆषु सन्धिषु ध्वनिविकारः श्रूयतॆ निश्चयॆन | एवं सति कॆवलं अनुस्वारसन्धिः तस्य अपवादः भवितुं न शक्यतॆ | सः कॆवलं लॆखनविषयककथा नार्हति |

अनुस्वार-मकारयॊर्मध्यॆ उच्चारणभॆदस्तु सर्वथा वर्ततॆ एव | अनुस्वारः नामानुगुणं स्वरानन्तरमॆव आगन्तुमर्हति न तु व्यञ्जनान्तरम् | परन्तु मकारस्तु व्यञ्जनान्तरमपि आगन्तुमर्हति | अनुस्वारः प्रायॆण शुद्धनासिकवर्णः (कॆवलं नासिकाया एव उच्चार्यमाणः) | तस्य स्थानं मुखॆ नास्ति | अनुस्वारस्य उच्चारणसमयॆ मुखस्य पिधानं भवॆत् तथा वायुः नासिकया एव निःश्वसितुं प्रयत्नं कुर्यात् | मकारः अनुनासिकव्यञ्जनम् ओष्ठ्यवर्णः | मकारॊच्चारणसमयॆ वायुः नासिकायां प्रविशन् मुखावकाशॆ निरर्गलः सञ्चरेत् | अयं विषयः उपरि चित्रमाध्यमॆन निरूपितः यत्र बाणरॆखाः वायुमार्गं दर्शयन्ति | अतः अनयोः वर्णयोः उच्चारणे भेदः नास्तीति भ्रान्तिर्मास्तु ।



एतद्विषयॆ परिशीलनार्हं लॆखनं लभ्यतॆऽत्र - http://www.sanskritweb.net/sansdocs/anusvara.pdf

Wednesday, April 18, 2018

परशुरामस्तॊत्रम् Parashuram Stotram



परशुरामस्तॊत्रम्

जामदाग्निं रमावन्द्यं भृगूणां कुलदीपकं |
रॆणुकानन्दनं रामं पितुर्वचनपालकम् ॥१॥
क्षात्रॆण तॆजसा युक्तं कृतवीर्यसुतान्तकं |
सपरशुर्धरातलॆ दुष्टराजविनाशकम् ॥२॥
दाशरथिं समागम्य वैष्णवास्त्रप्रदायकम् |
कृष्णयॊरवतारॆ तु खलानां नाशकारणम् ॥३॥
अनादिनिधनं नित्यं परब्रह्मस्वरूपिणं |
सन्तु मॆ निर्मला वाचः वन्दॆ ज्ञानबलप्रदम् ॥४॥

Monday, April 9, 2018

पाहि मां रङ्ग पाहि मां कृष्ण गीतम्


(मूलम् - पुरन्दरदासवरेण्येन रचितं "करुणिसो रङ्ग करुणिसो" कन्नडभाषायां भक्तिगीतम्)

पाहि मां रङ्ग पाहि मां कृष्ण |
सायं प्रातः तव संस्मरणं दत्वा ||

रुक्माङ्गदो नाहं व्रतपालेषु
स्तोतुन्न जाने शुकमुनिसदृशम् |
बकरिपुसदृशो ध्याने नाहं
लालने नाहं देवकीमाता || १ ||

गरुडो नास्मि गमने समर्थः
शब्दो नास्ति इव करिराजः |
वरकपिश्रेष्ठो दास्ये नाहं
रमणे श्रीः नित्या नाहम् || २ ||

नाहं दाने बलिमहाराजः
छलभक्त्योरहं न तु प्रह्लादः |
वरणे नास्मि तव सखार्जुनः
त्राहि देवाधिदेव त्राहि देवाधिदेव
पुरन्दरविट्ठल श्रीपुरन्दरविट्ठल || ३ ||

Saturday, April 7, 2018

Sanskrit is easy - संस्कृतं सरलम्

This is an excerpt from Dr. K.N. Padmakumar's (of Sanskrit Bharati USA) speech at Toronto, Canada on March 30th 2018. English translation effort is also provided after the excerpt in Sanskrit (though the speech recommends to read and understand the original 😃).


संस्कृतं कठिनं नास्ति | संस्कृतं बहु सरलम् अस्ति  संस्कृतभाषा एका नूतनभाषा नास्ति | अस्माकं सर्वमातृभाषासु संस्कृतम् अस्ति | इन्ग्लिश-मध्ये अपि संस्कृतम् अस्ति | पिता तदा एव फ़ादर् इति आगतम् | माता तदा एव मदर् इति आगतम् | भ्राता तदा एव ब्रदर् इति आगतम् | स्वसा तदा एव सिस्टर् इति आगतम् | पश्यतु इन्ग्लिश-भाषायाम् अपि अनेकपदानि संस्कृतपदानि एव | अस्माकं मातृभाषायां हिन्दीभाषा मराठीभाषा गुजरातीभाषा तमिलभाषा तेलुगुभाषा सर्वत्रापि अशीति प्रतिशतं पदानि संस्कृतपदानि | तस्मात् भारतीयानां कृते संस्कृतम् एका नूतनभाषा नास्ति | सर्वे संकृतं जानन्ति | किन्तु mental block इति वदति किल | अस्माकं मस्तके एकः विघातः अस्ति | एकः अवरोधः अस्ति | यदा यदा अहं न जानामि इति चिन्तयति तदा तदा संस्कृतं न आगच्छति | प्रथमं किं चिन्तनीयम्? अहं जानामि | मम अन्तरङ्गे मम हृदये मम रक्ते मम जीवने संस्कृतम् अस्ति |

अस्माकं सर्वेषां जीवने संस्कृतम् अस्ति | किन्तु जनाः पृच्छन्ति | संस्कृतम् उत्तमम् | कारणं किम्? संस्कृते वेदाः सन्ति | चतुर्वेदाः ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः | उपनिषदः कति सन्ति ? अनेक- उपनिषदः सन्ति | किन्तु प्रधानाः उपनिषदः दश उपनिषदः सन्ति | ईश-केन-कठ-प्रश्न-मुण्डक-मान्डूक्य-तैत्तिरीय-बृहदारण्यक-छान्दोग्य-ऐतरेय इति दश उपनिषदः प्रधानाः उपनिषदः| उपनिषदः कया भाषया? संस्कृतेन | इतिहासद्वयम् अस्ति | रामायणं महाभारतम् | कया भाषया ? संस्कृतेन |

वेदाः उपनिषदः इतिहासद्वयं अष्टादश पुराणानि नाटकानि काव्यानि आगमानि शास्त्राणि अनेकग्रन्थाः संस्कृतभाषायां सन्ति | किन्तु मम एकः प्रश्नः अस्ति | सर्वं संस्कृते अस्ति | कः पठति ? सर्वम् अस्ति इति वयं वदामः | पश्यतु लज्जा नास्ति वा अस्माकम्? वयं किमपि न पठामः | सर्वम् अस्ति अस्ति इति वदामः | ग्रन्थाः पुस्तकानि वयं न पठामः चेत् तस्य उपयोगः कः | ग्रन्थान् स्थापयित्वा पुस्तकं स्थापयित्वा पूजां कुर्मः चेत् तस्य किमपि प्रयोजनं नास्ति | पुस्तकं पठित्वा जीवने तस्य अनुसन्धानं करणीयम् | भगवद्गीता अस्ति | भगवद्गीता tape recorder इव वदति चेत् किं प्रयोजनम् ? सम्यक् एव | प्रथमं सोपानम् उत्तमम् | द्वितीयं सोपानं किम् ? स्वाध्यायः करणीयः | अस्माकम् अन्तरङ्गे तस्य चिन्तनम् करणीयम् | जीवने भगवद्गीतायाः एकः श्लोकः अस्माभिः पालनीयः | तदा वयम् अवगन्तुं शक्नुमः हिन्दूधर्मः कः | नोचेत् हिन्दूधर्मस्य विषये वयम् अवगन्तुं न शक्नुमः | एतत् किमर्थम् उक्तवान् ? एतत् सर्वं संस्कृते अस्ति | कथम् अहं पठामि? जनाः भिन्न-भिन्न-उपायान् कुर्वन्ति | इन्ग्लिश-मन्ध्ये translation करोति | अन्यभाषायां translation करोति | किन्तु translation करोति चेत् मूलम् अर्थं न मिलति | पूर्वम् एकः हास्यार्थम् उक्तवान् | Soda उद्घाट्य स्थापयति किञ्चित् समयानन्तरं किं भवति ? सामान्यजलम् | तदेव translation करोति चेत् अपि भवति | किमपि प्रयोजनं नास्ति |

एतत्समये अहम् एकां लघुकथां स्मरामि | पूर्वम् एकः महाराजः इच्छति स्म अहं कुत्र कुत्र गच्छामि सर्वत्र अपि रक्तवर्णस्य carpet आवश्यकम् | तत्र सर्वे मन्त्रिजनाः मिलित्वा चिन्तनम् कृतवन्तः - राजा यत्र गच्छति सर्वत्र carpet स्वीकृत्य नूतन-नूतनं स्थापयतु | तेषां मध्ये एकः बुद्धिमान् आसीत् | सः उक्तवान् | किं मूर्खतां करोति || एकरक्तवर्णस्य carpet उपयुज्य एक-पादरक्षानिर्माणं कृत्वा ददातु | कुत्रापि सः गन्तुं शक्नोति | तदेव कार्यं संस्कृतभारती करोति | वेदानां translation करोतु | पुराणानां translation करोतु | उपनिषदः translation करोतु | न भवान् संस्कृतं पततु | भवान् एकः संस्कृतं पठति चेत् एतत् सर्वं भवतः हस्ते | केवलं सर्वं translation कृत्वा ददाति चेत् किं प्रयोजनम् ? तत् सम्यक् अपि न भवति |

१५० वर्षपूर्वं एकः भारतीयः अत्र अमेरिकां प्रति आगतवान् | स्वामी विवेकानन्दः | सः तस्य वस्त्रस्य परिवर्तनं न कृतवान् | तस्य चिन्तनस्य परिवर्तनं न कृतवान् | समग्र-अमेरिकाराज्ये समग्रयुरोपराज्येषु सः वेदान्गस्य हिन्दूदर्शनस्य डिण्डिमनादं कृत्वा प्रतिगतवान् | एकः भारतीयः | मम जीवनस्य लक्ष्यं किम् ? मम जीवने मया किं साधनीयम् ? केवलं भोजनम् करोमि निद्रां करोमि मरणं प्राप्नोमि वा ? मनुष्यस्य अन्तरङ्गे ईश्वरः अस्ति | तस्य जागरणं करणीयम् | तदर्थं साधना करणीया | तदर्थम् अस्ति संस्कृतभाषा |

जीवने अस्माकं संस्कृतिः भवेत् | जीवने अस्माकं वर्धनं भवेत् | प्रतिदिनम् ईश्वरस्य समीपं समीपं गन्तव्यम् | नारदभक्तिसूत्रे एकं सूत्रम् अस्ति | भगवतः समीपे गन्तुं भवान् एकं पादं अग्रे स्थापयति चेत् भगवान् दश पदानि अग्रे आगच्छति | अर्थम् अवगच्छति ? किन्तु तस्य अन्य meaning अपि अस्ति | भवान् एकपदं न स्थापयति भगवान् किमपि न करोति | भगवान् तत्र एव तिष्ठति |

जीवने किञ्चित् समयः स्वर्थतां विना प्रतिदिनम् मम राष्ट्रस्य कृते मम संस्कृतेः कृते मम समाजस्य कृते मम भाषायाः कृते मम ग्रन्थानां कृते | अस्माकं पूर्व-ऋषयः मुनयः कियत्-कष्टेन ग्रन्थानां लेखनं कृतवन्तः | चिन्तयन्तु भवन्तः | महाभारते एकलक्षं श्लोकाः इति उक्तवन्तः | एकं श्लोकं पूर्णं पठनीयं चेत् एकं जन्म आवश्यकम् | तादृश-एकलक्षं श्लोकान् लिखितवान् एकः |

विवेकानन्दः बहु उत्तमः | शङ्कराचार्यः ततोऽपि उत्तमः | सर्वे जनाः उत्तमाः एव | किन्तु मम पुत्रः विवेकानन्दः न भवतु | मम पुत्र doctor भवतु engineer भवतु अथवा अन्यत् किमपि करोतु | समीपगृहस्थः पुत्रः विवेकानन्दः भवतु | एतादृशचिन्तनेन वयं किमपि साधयितुं न शक्नुमः | वयं बहुकालपर्यन्तं वृथा वदामः चेत् किं प्रयोजनम् ? मुखं उद्घाटयति चेत् महा-महावाक्यानि वदति | किमपि जानाति वा ? दानम् इति कः अर्थः ? धर्मः इत्युक्ते किम् ? अस्माकं जीवने कस्य पालनं करोति ? परिवर्तनम् आवश्यकं चेत् जीवने पालनं करणीयम् | पालनं विना कदापि परिवर्तनं न आगच्छति |

English Translation

Sanskrit is not difficult. Sanskrit is very easy. Sanskrit is not a new language. Sanskrit is in the native languages of all of us. Sanskrit is in English too. Father word is derived from पितृ, माता became mother, भ्राता became brother, स्वसा became sister. As you see, there are many Sanskrit words in English too. In our native languages like Hindi, Marathi, Gujarati, Tamil, Telugu, 80% of the words are from Sanskrit. Therefore, for Indians, Sanskrit is not a new language. All (of you) know Sanskrit. But there is a thing known as mental block. There is an impedance in our brain. If you keep thinking “I do not know”, then it is not possible to understand Sanskrit. First how should we think? I know. Sanskrit is deep in my heart, in my blood.

Sanskrit is in our life. But people ask. Sanskrit is great. Why? Vedas are in Sanskrit - Rigveda, Yajurveda, Samaveda and Atharvaveda. How many Upanishats are there? There are many. But there are 10 main upanishad - Isha, Kena, katha, prashna, mundaka, maandukya, taittiriya, brihadaranyaka, chandogya, aitareya. Upanishats in which language? In Sanskrit. There are two books explaining the history - Ramayana and Mahabharata. In which language? In Sanskrit.

Vedas, upanishats, two history books, 18 puranas, dramas, poems, aagamas, shashtras, and innumerable books are in Sanskrit language. But I have a question. All this is in Sanskrit, who reads it? Don’t we have any shame? We don’t read any. We just say everything is available. What is the use? If we do not read those books what is the use? If we just keep the books and worship them then it is of no use. Books should be read and its essence should be followed.There is bhagavadgita. If we just chant bhagavadgita like a tape recorder, what is the use? It is ok to do so as the first step. What is the second step? Self-study needs to be done. It should be deeply thought upon. In our life we should attempt to live as per (at least) one of bhagavadgita’s shloka. Then we will be able to understand what is Hindu dharma. Otherwise we won’t be able to understand about the Hindu dharma. Why did I say this? Everything is in Sanskrit. How should I read it? People try in different ways. They translate it in English or other languages. But when translated, we don’t get the original intended meaning. Someone said jokingly. If we open soda what happens after sometime? Plain water. Same thing happens with translation. There is no use.

I remember a short story. There was a king who wanted red carpet under his feet wherever he walked. His ministers planned to carry a big bundle of carpet and set it wherever the king went. There was a wise person amongst the ministers. He said enough of this stupidity. Just make a pair of shoes with the red carpet material. Let the king wear it. Then the king can go anywhere. Sanskrit Bharati does the same work. Instead of translation of vedas, puranas, upanishats, you learn Sanskrit. If you learn Sanskrit, everything will be in your hand. If you merely do the translation, what is the use? It won’t be correct also.

One hundred fifty years ago, an Indian came to America. Swami Vivekananda. He did not change his clothes. He did not change is thoughts. He alone, one person, propagated vedanga and hindu dharma in the entire America and the Europe continent before returning to India. What is the objective in my life? What should I achieve? Only eat, sleep and die? There is god in every human being. That needs to be invoked. We need to strive for that. Sanskrit language is for that purpose.

There should be culture in our life. There should be growth in our life. Everyday we should move towards god. There is a quote in Narada Bhakti Sutra. If we move one step towards the god, he moves ten steps towards us. But it has other meaning too. If you do not make any move, then the god also does not do anything. Some effort is needed from our side.

In life, for some time, without being selfish, every day for the sake of my society, for my country, for my culture, for my literary works. Our forefathers, saints painstakingly wrote great books. Think about it. There are one lakh shlokas in mahabharata. To understand one shloka, one whole life is needed. Like that a person wrote one lakh shlokas.

Vivekananda is great. Shankaracharya is even better. All are great. But my son should not become a Vivekananda. My son should become a doctor, an engineer or something else. Neighbor’s son should become a Vivekananda. By thinking like this, we cannot achieve anything. What is the use if we just keep babbling for long? If we open our mouth, big words, sentences come out from vedas. Do we even understand what they mean? What is dharma? What do we follow? If change is expected, then we should practice (the dharma). Without practicing, there will never be any change.

YouTube link to the complete audio is available here.

Friday, March 30, 2018

Bhima meets Hanuman

भीममारुतिसमागमः
पद्यकथा
अक्षक्रीडापराभूतास्सत्यधर्मपरायणाः
न्यवसन् ते वने घोरे सकृष्णाः पाण्डुनन्दनाः || १ ||
एकदा पुष्पगन्धेन द्रौपदी बहुमोहिता |
भीमं हृदयकान्तारं सुमार्थमन्वमोदत || २ ||
प्राणप्रियावचं श्रुत्वा मुख्यप्राणो महाबलः |
पुष्पाहरणव्याजेन प्रतस्थौ गन्धमादनम् || ३ ||
कम्पयन् शैलशिखरं त्रासयन् मृगपक्षिणः |
पातयन् वृक्षमातङ्गान् प्राचलत्स गदाधरः || ४ ||
द्वितीयमद्वितीयं तं स्वात्मानं मानुषाकृतिं |
दिदृक्षन्मारुतिर्तस्य मार्गेऽभूद्हितकाम्यया || ५ ||
सुसुषुप्तजराकायं मार्गमावृत्यसंस्थितं |
कपीन्द्रमाह कौन्तेयः देहोऽयमपसार्यताम् || ६ ||
प्रोवाच वानरश्रेष्ठो वृद्धोऽहं त्वं महाबली |
यथेष्टं गम्यतामग्रे वालधिं मे निवारय || ७ ||
प्रहसन्निव तल्लूमं दर्पितो मध्यमस्तदा |
बाहुभ्यां सर्वशक्त्यापि कर्षितुं न शशाक ह || ८ ||
व्रीडितो नतमस्तिष्को भग्नदर्पो बृहन्नरः |
परिचयं हरिरूपस्य संपप्रच्छ वृकोदरः || ९ ||
हनूमान्नाम मे वत्स रामनाममधुप्रियः |
संभवो मातरिश्वनः भ्राता ते वायुनन्दन || १० ||
रामेण निहतो युद्धे वित्रस्तो रावणो मया |
किंपुरुषोषितस्तेऽहमागतो दर्शानाशया || ११ ||
विस्मितवदनो भीमो बभाषे हरिपुङ्गवं |
प्राप्तो दिष्ट्या मया दृश्यं रूपं ते सागरोत्प्लवम् || १२ ||
कृतत्रेतादिकालेषु यथायोग्यक्रियापरः |
बद्धाचारॊ ह्ययं लोकोऽबुद्धिर्मे रूपदर्शने || १३ ||
प्रार्थं प्रार्थं मरुत्सूनुमनुनिन्येऽर्जुनाग्रजः |
दर्शितं रूपरौद्रमनिलेन खलमर्दनम् || १४ ||

प्रपश्य देहमतिमानुषं तं सगद्गदस्स प्रणिपत्य भीमः |
सहर्षचित्तस्तरसा जगाम संजीववन्द्यो जगदेकवीरः || १५ ||

(श्रीमन्महाभारतकथाधारितमिदं पद्यम्)

Monday, March 26, 2018

Pick Up and Drop Off




For usages such as pick up/drop off, dictionary look ups do not always show the correct words, as they will be literal translations. It is important to understand the action (क्रिया/भाव) and then use a proper word in Sanskrit. For example:

उत्सारयति = pick up - yes, but that is literally picking up something from the floor

If someone is being picked up, use आनयामि etc.

क्षिपति/क्षिप्यति = throw, पातयति = drop - but these are literally throwing or dropping something, like
कन्दुकं क्षिपामि - I throw the ball, पुस्तकं हस्तात् पातयामि - I drop the book from hand etc.

To drop off someone, use प्रापयामि, गमयामि, नयामि, प्रेषयामि etc.

When we want to say "shop is closed" - use आपणः पिहितः अस्ति/आसीत्, not आपणः निबिड (which means dense/closely held).

Similarly: Facebook post - better to use Facebook लेखनाङ्कः - not Facebook ध्वजः/पताका/स्तम्भः

Like us on Facebook - better use Facebook पुटं अनुमोदस्व/अनुमुद्यताम् - not Facebook पुटं इच्छतु - which is literal for desire (to want something).

Call someone (over the phone) = better use (दूर)भाषे संपर्कं करोमि/साधयामि rather than आह्वयामि

Every language has its own way of usage. English has its own structures, like the examples above, and they produce their meaning like that in that language. Sanskrit has its own.


Quote by Kate Grenville:
Each language has its own take on the world. That's why a translation can never be absolutely exact, and therefore, when you enter another language and speak with its speakers, you become a slightly different person; you learn a different sort of world.
(From: https://www.brainyquote.com/quotes/kate_grenville_727076)

Saturday, March 24, 2018

Ramayana - Some Interesting Facts

वाल्मीकिरामायणे आसीतापहरणपट्टाभिषेकपर्यन्तं कथासंग्रहः
(Collection of interesting facts from Seeta's abduction to Rama's coronation in Valmiki Ramayana)
वाल्मीकिरामायणे नैकेषु स्थलेषु श्रीरामस्य विष्णुदैवत्वमतिस्पष्टतया विदितमुक्तं चास्ति | सीतायाः लक्ष्मीत्वमपि | तथापि पितामहब्रह्मणा रावणाय प्रदत्तं देवदानवावध्यत्वमाद्रियमाणः परब्रह्म भगवान् विष्णुः मानुषरूपेण भूलोके अवततार | "परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय संभवामि युगे युगे" इति कृष्णावतारे जोघुष्यमाणः महाविष्णुः रामावतारे तु देवतागणैः स्तूयमानोऽपि "आत्मानं मानुषं मन्ये रामं दशरथात्मजं..." इति कथयन् संपूर्णमानुषत्वं प्रदर्शयति |

निष्पापजनपीडालोलुपः लङ्कापतिरावणः जानकीहरणकन्दरपतितः पापपर्वतोत्तुङ्गमवाप | प्राणप्रणयिनीं मार्गयमाणः सलक्ष्मणः श्रीरामः विभीषणसुग्रीवमरुदादिभिः यातुधाननगरीं प्राप्य निशाचरपमावहार्थं जुहुवे | ततस्सञ्जातं परमभीकरयुद्धं रावणहननं जगज्जनितं वाल्मीकिरामायणे सविस्तरमाख्यातमेव |

रावणवधबीजं स्त्रीमूलं सीताहेतुजातमिति बहवः कथयन्ति | परन्तु शूर्पणखायाः निस्त्रपाटोपभ्रष्टचेष्टाः एव एतन्महायुद्धकारणा इति दरीदृश्यते | विकृताङ्गस्वसुः पापवचनैरुद्दीप्तमनाः रावणः प्रतीकारबुद्धिरभूत् | कम्पननामकात् सेनापतिमुखात् खरदूषणादिहनने रामबलमाकर्ण्य उदासीनोभवत् | ततःपुनः शूर्पणखाप्रलपनात् सः स्वबन्धुं मारीचं प्राप्य साहाय्यं ययाचे | रामबाणपरिणामसुविज्ञातः मारीचः रावणं समुपदिश्य लङ्कां निवर्तयामास | तच्छ्रुत्वा शूर्पणखाक्रन्दनं गुरुतरमसह्यं च जातम् | कुलघ्नप्रायं सीतहरणनिश्चयं कृत्वा पौलस्त्यः पुनः मारीचेन मिलित्वा प्रसभं योजनां रचयामास | स्वर्णमृगो मारीच एवेति लक्ष्मणेनोक्तोऽपि सुवर्णमृगलालसयापहृतचेतया जानक्या प्रचोदितः रामः मायामृगमार्गयमाणोऽन्वधावत् | ततः सीताकठोरवचनाल्लक्ष्मणोऽप्याश्रमान्निर्गतः | तदेवावसरं नीरिक्ष्य रूपान्तरे भैक्ष्यं याचमाने रावणे सीता विमलमना सत्कारपूर्वकं रामवृत्तान्तमशेषेणाकथयत | रावणेनापहृतां मित्रवधूं प्रपश्य खगोत्तमः जटायुर्विव्हलः राक्षसेन युद्धं कृत्वा व्रणितः मरणप्रायो जातः | तस्मिन्नवसरे ततः पलयमानां सीतां भीतां राक्षसेन्द्रः पुनराकृष्याकाशमार्गेण लङ्कामवाप | तत्र तां स्वभवने स्थापयित्वा मृदुवचनैः प्रसादयितुं यतित्वा विफलीभूतः रावणः सीतामशोकवनं निर्यायितवान् |

एतस्मिन्नन्तरे सलक्ष्मणः रामः वैदीहीमन्विष्यन् रक्तसिक्तवदनं धराशायीं जटायुमवलोक्य तत्पक्षिणैव सीता भक्षितेति संदिहन् तं हन्तुमुद्युक्तः | तदा पक्षिणो मुखाद्दशरथमर्मरमाकर्ण्य विस्मितः रामः तं सान्त्वयित्वा सीताहरणविषयेऽपि मनागवागच्छत् | तदनन्तरं पम्पाप्रदेशे हनुमन्मेलनप्रीतः रामः क्षरजपुत्रस्य सुग्रीवाग्रजस्य वालिनः वधाञ्चकार | सुग्रीवाज्ञया चोदिताः हरिगणाः दिक्षु सर्वासु परिभ्रमन्तः दक्षिणसमुद्रतीरे जटाय्वाग्रजेन सम्पातिना सीतादेव्याः स्थानं श्रुत्वा परिहृष्टा बभूवुः |

पवनसुत आञ्जनेयो महाजलधिं लङ्घित्वा सीतदर्शनकृतकृत्योऽभिज्ञानसहितः लङ्कादहनसन्नादः पुनराजगाम ऋष्यमूकं रामसमीपम् | रामलक्ष्मणसुग्रीवाङ्गदनलनीलजाम्बवद्धनूमदूर्मिभिरलंकृता हरिवाहिनी सुग्रीवनगरात् प्रस्थाप्य वरुणालयस्योत्तरतीरमासादयामास | तत्रागतः रावणानुजो विभीषणः रामाश्रयमुपापद्यत | रामक्रोधाद्भीतेन वरुणदेवेनादिष्टः वानरप्रमुखो नलः समुद्रोपरि महासेतुं निर्ममौ | जलं तीर्त्वा दशकोटिसंख्याका वानराः युद्धाय सिद्धा अतिष्ठन् | ततस्सञ्जाते सङ्ग्रामे प्रहस्तादयः राक्षसगणप्रमुखाः मृत्युमुखा अभवन् | तदा मायायुद्धनिपुणः रावणसुतः इन्द्रजित् रणाङ्गणेऽवतीर्य वानरान् बहुधा सम्पीडयन् रामलक्ष्मणावपि युद्धभूमौ पातयित्वा तौ नागपाशेन बबन्ध | सः शक्रारिः विमाने सीतामानय्य तद्दृश्यमदर्शयत | हताशा सीता परिक्रोशन्ती राक्षसीष्वेकया समाश्वासनमलभत | रामलक्ष्मणयोर्बन्धः गरुडदेवेन मोचितः |

अमोघशक्तिसंचयनार्थं इन्द्रजिति निरते सति रावणः स्वयं समराङ्गणमागत्य पराक्रममद्भुतवीर्यं प्रदर्शयन् सर्ववानरवीरान् त्रासयामास | लक्ष्मणः रावणेन घातितो निश्चेष्टितोभवत् | तदा लक्ष्मणं बाहुशक्त्या उत्थाप्य अपहर्तुं प्रयतमानः रावणः विफलो बभूव | मारुतेर्मुष्टिप्रहारात् रुधिरं वमन् रावणः पराङ्मुखोभवत् | तदनन्तरं रावणिः पुनः युद्धभूमिं प्रविश्य बलवद्भिरस्त्रैः संपूर्णकपिसैन्यं क्षोभायमानः रामलक्ष्मणौ संज्ञाविहीनावकुरुत | वानरवैद्यसुषेणेच्छानुसारेण ओषधीरवचेतुं पवनात्मजः हिमालयप्रदेशं प्रति उत्पुप्लुवे | विलम्बमनिच्छन् महामतिस्सः सुमहापर्वतखण्डमेव हस्ते गृहीत्वा प्रत्यागमत् | ओषधिप्रभावेण प्रबोधितौ राघवभ्रातरौ दृष्ट्वा कपिसेना हर्षोल्लासेन ननाद | सीताराममिलनोत्सुकाः वानरवीराः रात्रिसमये लङ्कानगरीं प्रविश्य तस्य बहुभागमग्निसाच्चक्रुः |

क्रोधमूर्छितेन रावणेन शयनादुत्थापितः रणङ्गमो महागात्रः कुम्भकर्णोपि युद्धे रामेण मारितः | ततश्शक्रजिदपि भयङ्करयुद्धे लक्ष्मणेन हतः | तद्वार्तामाकर्ण्यासमाहितावगुणमूर्खा शूर्पणखा रावणमुपगम्य रणे तस्यापयशमुद्दिश्य भर्त्सनवाक्यानश्रावयत् | नष्टबन्धुबान्धवः स्वसृभर्त्सनकर्शितः दशाननस्तदा प्राणपण्यं युद्धं कर्तुं निरचिनुत | ब्रह्ममहेश्वरेन्द्रादिदेववृन्दः महर्षिगणश्च रामरावणयोर्युद्धं दिदृक्षवः अम्बरे समाविष्टाः | रक्षसाधिपः वीरोचितयुद्धं कुर्वाणः मन्त्रास्त्रप्रयोगबलात् शत्रुगणे हाहाकारमवर्धयत | दशाननप्रयुक्तेन विशिष्टबलसमन्वितेन शक्त्यस्त्रेण रामानुजः मूर्छितः | रामे विलपिते सति सुषेणेन पुनरुक्तो हनुमान् सत्वरेण पुनरेकवारं हिमगिरिं प्राप्य गिरिभागमानयत् | तद्वनस्पतिकारणाल्लक्ष्मणो जातस्सलक्षणः |
सर्वलोकाधिरामे विजिगीषमाणः सुराधिपतिरिन्द्रः स्वामिसेवार्थं स्वरथं सारथिमातलियुक्तं प्रेषयामास | श्रीरामः तद्रथोत्तमं प्रणम्य रथोपस्थः अरुणोदितभानुरिव विरराज | इन्द्रध्वजरामस्य मुण्डध्वजरावणस्य संघर्षस्तत्तुमुलोभवत् | निशितैः रामेषुसहस्रैः प्रव्यथितः राक्षसः रथे निपपात | स्वस्वामिनः दुस्थितिमवेक्ष्य रावणसारथिः रथमपानयत रणाङ्गणात् | अचिरेण लब्धसंज्ञः राक्षसपतिः रणोपरमयमानं स्वसारथिं भृशं तर्जयामस | युद्धक्षेत्रं पुनः प्राप्य तपोबलप्राप्तानि नानाविधान्यस्त्राणि प्रकटयितुमारभत | तदा अगस्त्यमुनिः श्रीरामं विजयप्रदायकम् आदित्यहृदयस्तोत्रमुपादिशत् | शत्रुविनाशकं सूर्यदेवताकस्तोत्रमनुसन्दधच्छ्रीरामः तीक्ष्णसायकेनैकेन रावणहृदयभेदनमकरोत् | रावणभयान्मुक्ताः तुतोक्षमाणाः देवर्षिगणाः रामं संस्तुष्टुवुः | रामोऽपि इन्द्रेण सर्वान् मृतवानरान् पुनरुज्जीवयामास |
रामस्तदनन्तरं रावणस्य और्ध्वदैहिकक्रियां कारयित्वा विभीषणाय लङ्काधिपत्यं प्राददात् | रामादेशात् जानकी स्नात्वा शुभवस्त्राद्यलंकृता बाष्पनेत्रगद्गदा राममुपागमत् | पुरुषोत्तमरामेण रावणे निर्जिते यथेष्टं गन्तुमुक्ता सा अनिन्दिता स्वेच्छया अग्निप्रवेशं चकार | प्रकटीभूतेनाग्निदेवेन परमपवित्रेति उद्घोषितया सीतया तथा विभीषणवानरादिभिस्सह श्रीरामः पुष्पकविमानमारुह्य अयोध्यानगरीं प्राप्य पुरजनैः समादृतः सुमुहूर्ते ससीतः पट्टाभिषिक्तोऽभवत् |
रामाय रामभद्राय रामचन्द्राय वेधसे |
नाथाय रघुनाथाय सीतायाः पतये नमः ||

Saturday, March 3, 2018

Learning to Unlearn - for Sanskrit

When learning a new language, after getting familiar with some common words and basic grammar, one starts getting to know about the idiosyncrasies of that language - the phrases, idioms, the style of usage. While the initial learning of words and grammar can be done through resources like books and the internet, the nuances of the language come with practice and are greatly enhanced by living among the natives of that language. Many times, this step involves unlearning some of the ways in which the learner's native tongue is used. This unlearning could be a big challenge and many times a mental block as the learner's mind is conditioned for a long time. Language learning is influenced by the native culture, as languages are deeply interwoven with the cultures of the people who are native to it.

Learning Sanskrit is no exception to this. There are numerous books - ancient, old and new - available on the subject of grammar and meanings of words. Once those basics are learnt, however, a Sanskrit learner faces a big problem - namely, absence of people whose native language is Sanskrit. Though almost all the languages in India have their origin or relation to Sanskrit, each language has its own distinct and definitive culture. Sanskrit language has a big disadvantage here, as it has no "real speaking natives". So a Sanskrit learner, after the basic learning, is left wondering on how to go about the next steps of learning the nuances.

With the given history of Sanskrit's disappearance as a spoken or mass language for quite some time, any efforts to revive the language is bound to be an uphill task, aggravated by the encompassing influence of today's languages and people speaking them. Naturally, change is difficult.

Fortunately, Sanskrit has lots (really lots) of olden (say before 1950) literature still preserved to-date. And that is golden for us. That vast amount of literature gives us the idea of the language usage and its style. The expectation out of the learners and practitioners is to keep an open mind, shed the egos,  respect the language, and stop trying to impose the localized cultures.

All the talk so far would not be complete without some illustrations on how the local cultures are influencing Sanskrit usage in recent times. Here are some examples.
  1. वा: Mostly heard at the end of any question - भवान् गच्छति वा? त्वं पठसि वा? As वा means "or" (alternatively), these sentences mean - (do) you go or? (do) you read or? Instead, it is better to use भवान् गच्छति किम्? त्वं पठसि किम्?
  2. Vibhaktis: The seven types of vibhakti suffixes (declensions) in Sanskrit are used on a noun primarily to indicate the noun's relationship with the action (verb) in a sentence. The style of usage may be different compared to other languages. For example:
    Rama is angry towards Ravana. रामः रावाणाय क्रुध्यति |
    The use of 4th declension on रावण may throw some off.
  3. Showing respect: In most of the Indian cultures, a person is considered to be treated respectfully only if a plural form is used to address the person. If addressed in singular, it is considered disrespectful. But in English language, the singular or plural indicates just the number. It has nothing to do with showing respect. For example: When a president of the nation arrives in the city, it is said "President arrives in the city", not "Presidents arrive in the city". The second sentence clearly means there are more than one presidents. If some respectful attributes need to be added, it could be "Mr. President...", or "His highness..." But the number never changes. Same thing goes with Sanskrit. वचन of a शब्द is just a number indicating the quantity, having no relationship with show of respect. Use of plural word for one person as a mark of respect is not the Sanskrit way. This is a big mental block in the Indian speakers of the recent times. So we hear bizarre usages like: for a teacher comes: अस्माकं गुरवः आगच्छन्ति, for a pontiff speaks: स्वामिनः भाषणं कुर्वन्ति | On the other hand, there is a widespread myth that the word भवान् implies respect and त्वम् does not. On top of that, there are usages heard like: भवन्तः आगच्छन्तु for one person. Double respect! Additionally, there is this Hindi effect too - suffixing a name with जी - मोहनजी, कृष्णाजी, सीताजी, especially while addressing.
  4. स्वागतीकरोमि: Sanskrit has these not very uncommon usages like स्वच्छीकरोमि, भस्मीकृत्य, शुद्धीकुरु, सज्जीभव etc. Such usages are clearly defined in Sanskrit grammar. Let us take an example in a sentence. अहं वाहनं स्वच्छीकरोमि | Meaning: I clean the vehicle. It is implied that the vehicle was not clean, and becomes clean. Note that it is the वाहनं which is turning (into the state of) स्वच्छ. Similarly, त्वं सज्जीभव - you become ready - meaning you (त्वम्) are not ready (सज्ज), but you turn ready. That is how this usage works. However, incorrect usages like एकत्रीकरोमि, स्वागतीकरोमि are in seen and heard. अहं फलानि एकत्रीकरोमि - I turn fruits into (a thing/state called) एकत्र (at one place, not oneness). अहं अतिथिं स्वागतीकरोमि - I turn the guest into welcome. Oops! Not desirable for the guest.
  5. Past tense alternates: Sanskrit is a language where every letter, every sound has its purpose. In this fast-paced world, many students go through fast-paced introductions to Sanskrit, with the usages such as गतवान्, उक्तवती (क्तवतु forms) as the replacements for actual past tense verb forms as अगच्छत्, अवदम्. The challenge here is that most of these learners find it difficult to transition from क्तवतु forms to the verb forms and remain under the impression that those forms totally mean the same thing. What is the problem in using them interchangeably? क्तवतु forms are adjectives to nouns. Let us take an example:
    बालकः शालां गतवान् | In this case, the verb अस्ति is assumed and the complete sentence becomes बालकः शालां गतवान् अस्ति which may be translated as the boy has gone to the school. Where as with the verb form - बालकः शालाम् अगच्छत् may be translated as the boy went to the school. The usage बालकः शालां गतवान् आसीत् is also correct, which would mean the boy had gone to the school or the usage बालकः शालां गतवान् भविष्यति which would mean the boy would be going to the school. These usages are possible because गतवान् is the adjective of बालक and the actual verb could be in any tense - अस्ति, आसीत् or भविष्यति. Compare this with बालकः शालाम् अगच्छत् - which is purely in the past tense. Other example:
    अहं देवालयम् आगतवान् अस्मि - I have come to the temple. अहं देवालयम् अगच्छम् - I went to the temple.
    In most of the works written and published recently, क्तवतु forms are seen to be the only words used to represent the past tense, thankfully sparing आसीत् अभवत्. 
  6. Present tense mess up: If that was about the past tense traps, the botch up with present tense is even bigger. This time with शतृ and शानच् forms. Example: बालकः गच्छन् अस्ति | रामः वदन् आसीत् | पिता वीक्षमाणः अस्ति | - supposed to mean: boy is going, Rama was talking, father is looking. Such incorrect usages stem from the fact that the Indian regional languages have different usage forms for present/past/future continuous tense,  whereas Sanskrit does not. In Sanskrit, there is only one present tense form. So to get that feeling of continuity, such combination of शतृ/शानच् with the verb root अस्  are coined. These usages are so widespread that even some of the grammarians somehow try to find support in grammatical treatises for such usage. But one only has to only look at the literature (contemporary to the age when Sanskrit was in vogue). It also helps to understand how the शतृ and शानच् suffixes are applied. Note that शतृ and शानच् word forms are adjectives. These are to be used as attributes of the doer (कर्ता) in conjunction with another action being performed by the doer. For example:
    रामः गच्छन् वदति = गच्छन् रामः वदति = रामः गच्छति, रामः वदति | Rama, who is going, speaks. Note that the going action happens in the same tense as that of the speaking action.
    पिता वीक्षमाणः अहसत् = वीक्षमाणः पिता अहसत् = Father, who was looking, laughed. Note that the looking action happens in the same tense as that of laughing.
    So, what do the following sentences mean then?
    बालकः गच्छन् अस्ति = बालकः गच्छति, बालकः अस्ति = Boy, who is going, is (just exists).
    रामः वदन् आसीत् = वदन् रामः आसीत् = Rama, who was speaking, was.
    पिता वीक्षमाणः अस्ति = Father, who is looking, is.
    Does not make sense. अस्ति is useless in these sentences and they should just be बालकः गच्छति, रामः अवदत्, पिता वीक्षते.
The present age is fortunate enough to have many great Sanskrit grammarians and literary minds. But they need not be passive onlookers in the pretext that the language is owned and developed by people and correcting the usage is not their purview. But those days of Sanskrit are gone, well in the past. No native speakers now. While the zeal of the Sanskrit enthusiasts is commendable, let our guide be the unadulterated, beautiful Sanskrit literature and its heritage. We can do it, together.
|| ॐ असतो मा सद्गमय ||

Thursday, January 25, 2018

Bhishma Story in Short - संक्षिप्तभीष्मकथा

पत्न्या चोदितः द्युनामकवसुः ब्रह्मर्षिवसिष्ठस्य कामधेनुं चोरयामास | ततः वसिष्ठशापग्रस्तः वसुः स्वर्गच्युतः भूमौ अवततार | देवव्रत इति नामाङ्कितः तस्य जननी महाशिवशिरोभूषिता गङ्गादेवी | कुरुवंशजः हस्तिनापुरस्य राजा शन्तनुः तस्य जनकः | तस्य जननसमये एव गङ्गादेवी कारणान्तरेण शन्तनुं परित्यज्य स्वधामं स्वर्लोकं निर्जगाम | बाल्यकाले देवव्रतः देवगुरुबृहस्पतिप्रभृतिभ्यः वेदादिशास्त्राध्ययनं कृतवान् | भगवतः परशुरामात् सर्वशस्त्रास्त्रपारंगतो बभूव |

विद्याभ्यासानन्तरं देवव्रतः शन्तनुराजेन सह हस्तिनापुरे वसति स्म | एकदा नदीतीरविहाररतः शन्तनुः दाशराजकन्यायां सत्यवत्यां अनुरक्तो बभूव | परन्तु सत्यवतीसंतानमेव हास्तिनपुराधिपः भूयादिति दाशराजवचनात् परित्रस्तः शन्तनुः खिन्नो विवाहविमुखश्च जातः | पितुः मनोदशामवगत्य शान्तनवः दाशराजं प्राप्य सत्यवत्यपत्याय राजपदवीप्रदानं तथा स्वयमाजीवनब्रह्मचर्यव्रतपालनमिति भीषणप्रतिज्ञाद्वयं घोषयाञ्चकार | तद्दिनात् सः भीष्मः इति प्रख्यातोऽभवत् | सत्यवत्या विवाहितश्शन्तनुः पुत्र अतिप्रसन्नः भीष्माय इच्छामरणवरमददात् |

शन्तनौ दिवङ्गते भीष्मः सत्यवतीपुत्रं विचित्रवीर्यं सिंहासने अभिषिच्य तस्य विवाहमपि कारितवान् | विचित्रवीर्येऽपि पञ्चत्वंगते तस्य सुतः पाण्डुः राजा बभूव | पाण्डोः निधनानन्तरं तस्याग्रजो दृष्टिहीनो धृतराष्ट्रः राज्यभारमावहत् | भीष्मः पाण्डुपुत्राणां तथा धृतराष्ट्रपुत्राणां साकल्येन शस्त्रशास्त्रविद्याभ्यासं द्रोणाचार्यमुखतः पर्ययोजयत् |

पाण्डवाः धार्तराष्ट्राश्च प्राप्तयौव्वनाः राज्येप्सवः घोरयुद्धं कृतवन्तः | दारुणे तस्मिन् महाविग्रहे सत्यधर्मपालितॄणां पाण्डवानां विजयमिच्छन्नपि द्विपपुरराजनिष्ठः भीष्मः पापनुगामिनि धार्तराष्ट्रपक्षे स्थितः | भीकरसंख्ये अद्भुतपराक्रमं प्रदर्शयन् भीष्मः पार्थसारथिं भगवन्तं श्रीकृष्णमपि विस्मापयामास | दशमे दिने अप्रतिहतः सः स्वेच्छया पाण्डवमध्यमस्य अर्जुनस्य बाणासारेण विक्षतः | संपूर्णशरीरे इषुभिः व्योषितः भीष्मः वीरक्षत्रियोचिते शरतल्पे शयितवान् | इच्छामरणी स उत्तरायणपुण्यकालं प्रतीक्षमाणः भगवद्ध्यानतत्परोऽभूत् |

सङ्ग्रामे विजयीभूताः पाण्डवाः सायकासनं पितामहभीष्ममुपगम्य तस्मात् आशीर्वचनं ज्ञानभिक्षां च प्रायायाच्यन्त | श्रीकृष्णप्रसादात् भीष्मः रुधिरसिक्तोऽपि भाषणक्षमः राजनीत्यादिकानि शास्त्राणि विस्तरेण उच्चचार | तत्सन्दर्भे तस्य मुखकमलात् त्रिलोकपावनं विष्णुसहस्रनामस्तोत्रं समुद्भूतम् | एवं जगदादर्शजीवः भीष्मः माघमासस्य शुद्धाष्टम्यां तिथौ देहत्यागं चकार |