Saturday, October 6, 2018

शृगालस्य कूटनीतिः Fox's Vile Strategy

(महाभारताधारिता कथा)
एकस्मिन् महारण्ये कश्चिदेकः चतुरः श्रृगालः वसति स्म | व्याघ्रः वृकः नकुलः मूषकश्चेति तस्य चत्वारि मित्राणि आसन् | एकदा आहारेप्सवः ते तृणप्रदेशे चरन्तं बलिनं हरिणमेकं दृष्टवन्तः | वेगशीलः सः मृगः कथं मारणीयः इति मित्रवृन्दः चिन्ताग्रस्तोऽभवत् । कुशाग्रमतिः शृगालः उपायमेकं चिन्तितवान् | तदनुसारं यदा हरिणः शयानः तदा मूषकः तस्य पादेषु दशनं कृतवान् । व्रणपीडितो हरिणः धावने मन्दगतिः अभवत् । तदा व्याघ्रः हरिणं सकृदेव हतवान् । कपटहृदयः शृगालः भक्ष्यविभजनमनिच्छन् कूटनीतिं व्यदधात् । सः अशनातुरान् व्याघ्रनकुलमूषकवृकान् शिष्टधर्मं बोधयन् स्नात्वा आगन्तुं व्यपादिशत् । तथेति स्नानार्थं निर्गताः सर्वे । तेषु व्याघ्रः सर्वप्रथमः शुचीभूय प्रत्यागच्छत् ।

शृगालः ‌‌- हे वीरवर ! मूषकमुखात् श्रुतं मया यत् स एव मृगहन्तकः न तु अमानी व्याघ्रः इति ।
तच्छ्रुत्वा व्याघ्रः अन्यैर्हतं न खादामि इति उक्त्वा ततः निरगच्छत् । तदा आगतः मूषकः ।
शृगालः - हे मूषक ! मृगमांसं विषसमं च मूषकमेव खादामीति नकुलभाषणमासीत् ।
तदाकर्ण्य मूषकः सत्वरेण स्वबिलं प्राविशत् । तदनन्तरमागतः वृकः ।
शृगालः - हे वृकराज ! व्याघ्रोऽसौ क्रुद्धो अद्य । अस्मान् हन्तुकामः सः अचिरेणैव इह आयास्यति ।
तच्छ्रुत्वा वृकः ततः पलायितः । इदानीं नकुलः आगतः ।
शृगालः - हे नकुल ! मया सह युद्धे अन्ये सर्वे पराजिताः । यदि त्वं समर्थोऽसि मां निर्जित्य मृगाहारमिमं भक्षयस्व ।
व्याघ्रवृकौ येन पराजिताः सः मया जेतुं दुःशकः इति भीत्वा नकुलः ततः पलायितः ।

शृगालः निष्कण्टकः सर्वं पिशितं जग्ध्वा संतृप्तोऽभवत् ।

1 comment:

  1. बहुत विद्वत्ता पूर्ण लिखा गया व संग्रह किया गया
    उत्तम , श्रेष्ठ , पठनीय ,

    ReplyDelete