Which one is correct in the following:
मधुरम् फलम् । Or मधुरं फलम् ?
दॆवम् वन्दॆ । Or दॆवं वन्दॆ ?
As per anusvar sandhi, मधुरं फलम् and दॆवं वन्दॆ are correct. After म् at the end of a word, if a consonant comes (as the starting of the next word), then म् is changed to anusvar (अं). Almost in all Sanskrit grammar books and resources, this aspect is shown as pertaining to only writing style. If म् is not changed to अं under the above conditions while writing, then it is considered to be incorrect. But what about pronunciation? Mostly nothing is said about the pronunciation or it is heard that there is no difference in their pronunciation.
But is it so? Sanskrit is a phonetic language. Its letters are merely written representation of the sounds produced by various parts of human oral and nasal cavities. If both म् and अं are pronounced same, then there was no need for these two letters to exist separately. And also, a sandhi's fundamental rule is that when two letters (sounds) are close enough to combine, they combine and resulting in "change of sound". And in Sanskrit, since sounds are represented as letters, a different letter is written to indicate the changed sound. Anusvar sandhi is no exception to this. When we say sandhi, the resulting sound must change.
Anusvar (अं) sound, as the name indicates, always follows a svara (vowel). म् is a labial consonant and can follow another consonant. अं is a pure nasal sound - means there is no involvement of oral cavity in its generation, just the nasal passage. While pronouncing अं, the air should pass through only the nasal passage keeping the mouth closed and avoiding the air through the oral cavity. Whereas, while pronouncing म्, the air should pass through both the oral cavity and nasal passage. This makes a subtle difference in the sound, but they are not the same! The pictures presented below depict this difference. Therefore, we should not be under the impression that the anusvar sandhi is only about the writing style.
In Sanskrit:
अधस्तनवाक्यद्वये कतरं शुद्ध्म् ?
मधुरम् फलम् समीचीनम् । उत मधुरं फलम् ?
तथैव अनयोः ? दॆवम् वन्दॆ । उत दॆवं वन्दॆ ?
फलानि सर्वदा मधुराणि रुचिकराणि भवन्ति । देवः सर्वदा वन्द्यः । तर्हि किमर्थमयं प्रश्नः ?
अनुस्वारसन्धिः वदति मधुरं फलम् इति समीचीनम् (न तु मधुरम् फलम्) | दॆवं वन्दॆ इति समीचीनम् (न तु दॆवम् वन्दॆ) | हल्-सन्धिषु अनुस्वारसन्धिः अन्यतमः | तदनुगुणं यदा मकारः पदस्य अन्तॆ भवति तथा तदनन्तरं कश्चित् हल्(व्यञ्जन)वर्णः अस्ति तदा मकारस्य स्थानॆ अनुस्वारः आगच्छति | (अष्टाध्यायी- मॊऽनुस्वारः ८.३.२३)
यदि मकारानन्तरं स्वरः अस्ति चॆत् परिवर्तनं न भवति | यथा -
वृक्षम् अवलॊकय
नीलम् आसनम्
एषः नियमः लॆखनॆ पालनीयम् अन्यथा लॆखनॆ दॊषः इति प्रायः सर्वॆषु व्याकरणपुस्तकॆषु सन्धिपाठॆषु दृश्यतॆ श्रूयतॆ च | अनुस्वार-मकारयॊः मध्यॆ उच्चारणभॆदः न वर्ततॆ इति बहुत्र दर्शितमस्ति अथवा तस्मिन् विषयॆ तूष्णीभावं दृश्यते | परन्तु कॆवलं लॆखनविषयॆ अयं सन्धिः भवति किमिति चिन्तनीयम् |
संस्कृतभाषा भाषाधारिता इत्युक्तॆ शब्दाधारिता | ध्वनिशास्त्रानुगुणं वर्णॊत्पत्तिः वर्णमाला च (आङ्ग्लभाषा तथा नास्ति) | वर्णमालायाः प्रत्यॆकः वर्णः विशिष्टमॆकं ध्वनिं प्रदर्शयति | कदाचित् वर्णद्वयस्य उच्चारणॆ भॆदः नास्ति चॆत् तस्य अस्तित्वमॆव निरर्थकम् | अपि च व्याकरणॆ सन्धिः इत्युक्तॆ द्वयॊः वर्णयॊः मॆलनात् जातः शब्द(ध्वनि)विकारः इति विदितमॆव | सर्वॆषु सन्धिषु ध्वनिविकारः श्रूयतॆ निश्चयॆन | एवं सति कॆवलं अनुस्वारसन्धिः तस्य अपवादः भवितुं न शक्यतॆ | सः कॆवलं लॆखनविषयककथा नार्हति |
अनुस्वार-मकारयॊर्मध्यॆ उच्चारणभॆदस्तु सर्वथा वर्ततॆ एव | अनुस्वारः नामानुगुणं स्वरानन्तरमॆव आगन्तुमर्हति न तु व्यञ्जनान्तरम् | परन्तु मकारस्तु व्यञ्जनान्तरमपि आगन्तुमर्हति | अनुस्वारः प्रायॆण शुद्धनासिकवर्णः (कॆवलं नासिकाया एव उच्चार्यमाणः) | तस्य स्थानं मुखॆ नास्ति | अनुस्वारस्य उच्चारणसमयॆ मुखस्य पिधानं भवॆत् तथा वायुः नासिकया एव निःश्वसितुं प्रयत्नं कुर्यात् | मकारः अनुनासिकव्यञ्जनम् ओष्ठ्यवर्णः | मकारॊच्चारणसमयॆ वायुः नासिकायां प्रविशन् मुखावकाशॆ निरर्गलः सञ्चरेत् | अयं विषयः उपरि चित्रमाध्यमॆन निरूपितः यत्र बाणरॆखाः वायुमार्गं दर्शयन्ति | अतः अनयोः वर्णयोः उच्चारणे भेदः नास्तीति भ्रान्तिर्मास्तु ।
No comments:
Post a Comment