Friday, September 27, 2019

समीचीनसंवादः - A Good Discussion


गुरुशिष्यौ वेदमन्त्रं पठतः |

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥

शिष्यः - गुरुवर्य, अस्मिन् मन्त्रे प्रायः सर्वाणि पदानि सुलभावगम्यानि | परन्तु “उदच्यते” इति पदं तावन्न प्रसिद्धम् | अस्य अर्थः कः ?
गुरुः - हे शिष्य, “उदच्यते” इति क्रियापदम् | उद्गच्छति, बहिः गच्छति इति तस्य अर्थः |
शिष्यः - को धातुः तत्र ? रूपं किम्?
गुरुः - उत्+अच्यते इति भागद्वयं तस्य | अञ्चुँ इति भ्वादिगणीयधातुः गतिपूजनयोः अर्थे प्रयुज्यते | अच्यते इति तस्य लटि प्रथमपुरुषैकवचनस्य कर्मणिरूपम् |
शिष्यः - धातुः अञ्चुँ तर्हि अञ्च्यते भवेत् ननु | कथं अच्यते इति रूपम् ?
गुरुः - अस्य धातोः वैशिष्ट्यं यत् गत्यर्थे नकारलोपः भवति | पूजार्थे नकारलोपो न भवति | तदा गत्यर्थे अच्यते इति रूपम् | पूजार्थे अञ्च्यते इति रूपम् |
शिष्यः - बहु सम्यगुक्तं त्वया गुरुदेव |
गुरुः - अहो शिष्य | “सम्यक्” इति पदमपि तद्धातुतः एव निष्पन्नम् |
शिष्यः - कथमिति? तस्य निर्वचनं निरूप्यतां कृपया |
गुरुः - तस्य व्याकरणप्रक्रिया एवमस्ति -
सम्+अञ्च् (उपदेशेजनुनासिक इत् १.३.२)
सम्+अच् + क्विन् (ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्च्यां च ३.२.५९)
सम्+अक् (क्विन् प्रत्ययस्य कुः ८.२.६२)
समि+अक् (समः समि ६.३.९३)
सम्यक् (इको यणचि ६.१.७७)
शिष्यः - भोः अति समीचीनम् |
गुरुः - अहह! “समीचीनं” पदमपि अञ्चुधातोरेव विकारः |
शिष्यः - कथमीदृशम्? उच्यतां देव |
गुरुः - शृणु प्रक्रियामत्र |
सम्+अञ्च् (उपदेशेजनुनासिक इत् १.३.२)
सम्+अञ्च्+ क्विन् (ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्च्यां च ३.२.५९)
समि+अच् (समः समि ६.३.९३)
समि+अच्+ख (विभाषा अञ्चेरदिक्स्त्रियाम् ५.४.८)
समि+अच्+ईन (आयनेयीनीयियः फढखच्छाघां प्रत्ययादीनाम् ७.१.२)
समि+च्+ईन (अचः ६.४.१३८)
समी+च्+ईन (चौ ६.३.१३८)
समीचीन
शिष्यः - रोमाञ्चो जातः भगवन् |
गुरुः - शिष्य, “रोमाञ्चः” अपि रोम्णाम् अञ्चः इति अञ्चुधातरेव कृदन्तरूपम् |
शिष्यः - प्रदीर्घोयं विषयः | अन्यः को विशेषोस्य धातोः ब्रह्मन्?
गुरुः - ब्रवीमि | देहि कर्णमत्र | प्राचीन-अर्वाचीन-प्रतीचीन-उदीचीन-पदानि समीचीनपदवत् निर्मितानि | इदानीं प्राङ् पदस्य प्रक्रियां निरूपयामि |
प्र + अञ्च् + क्विन् (ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्च्यां च ३.२.५९)
प्र + च् (अचः ६.४.१३८)
प्रा + च् (चौ ६.३.१३८)
प्राच् + सुँ (प्रथमैकवचनस्य सुप्प्रत्ययः)
प्रा + न् + च् + स् (उगिदचां सर्वनामस्थानेऽधातोः ७.१.७०)
प्रान् (संयोगान्तस्य लोपः ८.२.२३)
प्राङ् (क्विन्प्रत्ययस्य कुः ८.२.६२)

इति प्राच् पदस्य पुंलिङ्गप्रथमैकवचनरूपम् | एवेमेव उदङ् तिर्यङ् रूपे प्रथमैकवचने सिध्यतः |
शिष्यः - अवगतं गुरुवर | अस्य मननं चेक्रीय्ये | प्रणामाः |

Thursday, September 26, 2019

कैलासप्राप्तिः - Getting to Kailasa

आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.द.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा 


महाशिवरात्रिदिनम् । काशीनगरे महान् जनसम्मर्दः । लक्षाधिकजनाः तत्र आगताः । भक्तानाम् एकः विश्वासः अस्ति - महाशिवरात्रिदिने गङ्गास्नानं कृत्वा गङ्गाजलेन काशीविश्वनाथस्य अभिषेकं करोमि चेत् जीवनात् परं कैलासप्राप्तिः भवति इति । पार्वती कैलासे वसति । सा काशीं दृष्टवती । बहु जनसम्मर्दः । सर्वत्र जनाः सन्ति । गङ्गास्नानं कुर्वन्ति । मन्दिरं गच्छन्ति । अभिषेकं कुर्वन्ति । सा परमेश्वरं पृष्टवती “ते सर्वे जनाः जीवनात् परं कैलासम् आगमिष्यन्ति वा?” इति । तस्याः मनसि भीतिः । सर्वे जनाः कैलासम् आगच्छन्ति चेत् तत्र स्थानं पर्याप्तं न भवति । शिवस्य वाहनम् अपि वृषभवाहनम् । तत् भीत्या इतस्ततः गच्छति । शिवः हसितवान् । सः “अस्तु पश्यामः इति आगच्छतु, आवाम् इदानीं काशीं गच्छावः” इति उक्तवान् ।

पार्वत्या सह शिवः काशीम् आगतवान् । परन्तु स्वस्य रूपं धृत्वा न आगतवान् । शिवः एकः वृद्धस्य रूपं स्वीकृतवान् । पार्वती अपि वृद्धनारीरूपं स्वीकृतवती । काशीविश्वनाथमन्दिरस्य गोपुरद्वारसमीपे वृद्धा उपविशति । वृद्धः मूर्छितः इव नटति । वृद्धः वृद्धायाः वक्षस्थले मुखं निधाय उपविशति । तदा पार्वती प्रार्थनां करोति “हे भक्तजनाः, मम पतिः इदानीं मूर्छितः अस्ति । आवां विश्वनाथदर्शनार्थम् आगतवन्तौ । इदानीं एषः बहु वृद्धः मूर्छितः । तस्य दाहः अस्ति । किञ्चित् जलं ददातु” इति । भक्ताः आगच्छन्ति । तेषां हस्ते अभिषेकार्थं जलम् अस्ति । एकः वदति “धिक् दरिद्रा, गच्छतु । जलम् अभिषेकार्थम् आनीतवान् । ददामि चेत् अपवित्रं भवति” इति । सः अग्रे गच्छति । पुनः एकः अन्यः पुरुषः आगच्छति । माता प्रार्थितवती “किञ्चित् जलं ददातु । मम पतिः मूर्छितः । तस्य जीवनस्य रक्षणम् आवश्यकम् । किञ्चित् जलं ददातु” इति रोदनं कृतवाती । सः पुरुषः वदति “महाशिवरात्रिदिने दरिद्रायाः दर्शनं वा? गच्छतु गच्छतु” इति । जलं न ददाति ।

यदा जनसम्मर्दः भवति तदा चोरः निश्चयेन आगच्छति आभरणमालादिचोरणार्थम् । चोरः वृद्धायाः रोदनं श्रुतवान् । किमिति शृणोमि इति सः समीपम् आगतवान् । वृद्धा पुनः वदति “वृद्धः मूर्छितः । जलं ददातु” इति । चोरः उक्तवान् “अहं जलम् आनयामि” इति । सः गङ्गानदीं प्रति झटिति धावितवान् । घटे जलम् आनीतवान् । वृद्धायाः हस्ते घटं दत्तवान् । “पत्युः मुखे जलं स्थापयतु । तस्य रक्षणं करोतु” इति सः उक्तवान् । सा उक्तवती “एतत् जलम् एव मम पत्युः अन्तिमजलं भवितुम् अर्हति । अतः भवता कृतं पुण्यकार्यम् एकम् उक्त्वा ददातु । अहं स्वीकरोमि” इति । तदा चोरः उक्तवान् “हे मातः, अहं चोरः । मया पुण्यकार्यं एकम् अपि जीवने न कृतम् । एतद् एव मम प्रथमपुण्यकार्यम् । कृपया जलं स्वीकरोतु । वृद्धस्य पत्युः रक्षणं करोतु । मा अस्तु इति न वदतु” इति । तत्क्षणे एव शिवः स्वस्य रूपं धृतवान् । पार्वती अपि स्वस्य रूपं धृतवती । शिवः पार्वतीम् उक्तवान् “एषः एव जीवानात् परं कैलासं आगमिष्यति” इति । तौ अदृश्यौ जातौ ।

कथायाः संदेशः - संप्रदायरीत्या यत् यत् कुर्मः तस्य फलम् अस्ति । परन्तु तेन मोक्षप्राप्तिः कैलासप्राप्तिः वैकुन्ठप्राप्तिः वा न भवति । स्वार्थं त्यक्त्वा परोपकारार्थं जीवनं यदा संभवति तदा एव मुक्तिः भवति । अन्येषां पुनरपि मरणं पुनरपि जननम् एव भवति ।

Sunday, September 22, 2019

शुनकायनम् - Tale of a Lost Dog

एका सत्यघटना (लेखनेस्मिन् जननगरादिकाः नामन्तरैः निर्दिष्टाः)
English Translation at the bottom
अमेरिकादेशे मिशिगन्-राज्ये नेपरपल्लिः इति एकं नगरम् । नगरे एकः कुटुम्बः । कुटुम्बे माता निर्मला तस्याः दशवर्षीयः पुत्रः विजयः अष्टवयस्का पुत्री अनिता च सुखेन वसन्ति स्म । एकदा सायङ्काले ते गन्त्र्या (by car) महामार्गे प्रयाणं कुर्वन्ति स्म । मार्गपार्श्वे शनैः वण्ठमानम् एकं शुनकम् अपश्यत् बाला अनिता | लघुगात्रं सुन्दरतनुं पिङ्गलवर्णकं शुनकं वीक्ष्य अनिता मातुः पुरतः तस्य गृहनिनीषां प्राकटयत । स्वामिरहितं तं शुनकं सानुकम्पं गृहीत्वा ते गृहं प्रत्यागच्छन् । शुनकः स्नेहपूर्णम् आश्रयं लब्ध्वा परं मुमोद । कुटुम्बोऽपि शुनकेन सह क्रीडादिभिः आनन्दितः । पशुवैद्येन शुनकस्य आरोग्यपरिक्षा अपि कारिता । एवं मासद्वयम् अतीतम् ।

ग्रीष्मर्तुः आरब्धः । निदाघकाले प्रकृतिसौन्दर्यम् अनुभवितुम् उत्तरसीमाम् आसादयन्ति अनेके मिशिगन्-वासिनः । निर्मला अपि पुत्रीपुत्रशुनकैः सहिता षड्घण्टादूरस्थं सुपीरियर्-महासरोवरतटं प्राप्ता । सरोवरतीरे शिबिरप्रदेशे अयं कुटुम्बोऽपि पटकुटीं (tent) स्थापयित्वा विश्रान्तः । शुनकः क्रीडन् कूर्दमानः शिबिरवासिनां जनानां मनोरञ्जकः अभवत् । समीपस्थः एकः पुरुषः निर्मलाम् अकथयत् "अहमपि नेपरपल्लिनगरे वसामि । तत्र चापेल्-मार्गस्थे आपणे लुम्बितशुनकस्य पुनरीप्सया स्थापितं भावचित्रमेकं दृष्टवान् । अयं शुनकः समानरूपः दृश्यते" इति । तन्निशम्य शुनके स्नेष्णिह्यमानौ अनिताविजयौ तस्य विरहभयावृतौ जातौ ।

सरोवरविहारात् प्रत्यागत्य निर्मला तं पुरुषोक्तम् आपणम् अगच्छत् । तत्र चित्रे दत्तं शुनकेष्विणः सम्पर्कं दूरवाण्या कृतवती । सः एकदा मार्गक्रमणसमये स्वशुनकः वाहनाद् उत्क्षिप्य अदृश्योऽभवद् इति पालितपशुहानिप्रसङ्गं श्रावितवान् । निर्मला तं स्वगृहम् शुनकस्य परामर्शनार्थम् आह्वयत् । मासद्वयकालं शुनकमैत्रिभावरता अनिता शुनकेन पूर्वस्वामिसम्बन्धः विस्मृतः स्याद् इति अभ्यलषत् । अपरस्मिन् दिने शुनकदिदृक्षुः निर्मलायाः गृहं प्राप्तः स्वपुत्रेण साकम् । वाहनद्वारमुद्घाट्य आगच्छन्तं पूर्वस्वामिपुत्रं जातहर्षः शुनकः विलोडितपुच्छः अभ्यद्रुवत् । सः स्वामिदारकोऽपि चिरवियोगसङ्गतमुदया शुनकमालिङ्ग्य तं पर्यष्वजत् । शुनकप्राप्तिसन्तुष्टः सः पुरुषः निर्मलायै किञ्चित् पारितोषिकधनं प्रदातुम् ऐष्यत् । परन्तु निर्मला पारितोषिकधनं निराकुर्वती यदीच्छसि तर्हि शतडालरमितं पशुवैद्याय दत्तं शुल्कं देहि इत्यवदत् । सः पुरुषः इदानीं तावत् धनं समीपे नास्तीत्युक्त्वा शुनकमादाय ततः निर्गतः ।

शुनकवञ्चिता खिन्नहृदया अनिता अन्यमेकं शुनकम् आपणात् क्रेतुं मातरं बहुवारं प्रार्थयत । तथापि निर्मला शुनकपालनं कष्टकरम् इति दुहितुरनुरोधनं न्यवारयत् । सप्ताहद्वयानन्तरं शुनकस्वामिप्रेषितं पत्रमेकं निर्मलायाः गृहम् आगतम् । किमिदमिति निर्मला तत् पत्रम् उद्घाट्य पश्यति चेत् तस्मिन् पञ्चशतडालरधनम् आसीत् । दृष्ट्वा मूकविस्मिताः कुटुम्बिनः सर्वे । अनिता अवदत् "धनमिदानीं पर्याप्तम् । अस्माभिः नूतनशुनकः सर्वथा क्रेतव्यः एव" इति । निर्मला उपायान्तरम् अपश्यन्ती पशुविक्रीणनस्थानात् नूतनं बालशुनकमेकं गृहम् आनयत् । अनिताविजयौ नूतनमित्रं सम्पाद्य संतुष्टौ अभवताम् ।

English Translation:
This is not word-to-word translation, but translation at the sentence level, keeping the English language structure in mind.

Neparapalli is a town in the Michigan state of USA. A family libed in that town. The family had mother Nirmala, her 10-year old son Vijay and 8-year old Anita living happily. Once in the evening, they were traveling by car on a highway. Anita saw a dog which was walking slowly alone on the road-side. Seeing the dog which was small, beautiful and brown-colored, the girl Anita showed her desire in front of her mother to take the dog home. With compassion, they took home the ownerless dog. The dog also was happy by obtaining the friendly shelter. Thee family also enjoyed playing with the dog. The dog's health check up was done by a veterinarian. Like this, two months passed.

The summer started. In the summer time, to experience the beauty of the nature, many Michigan state residents visit the north boundary (of the state). Nirmala also with her daughter, son and the dog got to the Superior Lake that was six-hour-drive away. The family set up a tent in the camp area on the banks of the lake and rested. The dog with its playing and jumping was entertaining for the people at the camp. The man who was nearby said to Nirmala “I also live in the town of Neparapalli”. There in the shop on Chapel Road, I saw a picture of a lost dog which was wanted back. This dogs looks similar.” Hearing that, Anita and Viaya who loved the dog, got fearful of losing it.

After returning from the visit to the lake, Nirmala went to the shop told by that man. Over the phone, she contacted the person indicated in the picture. That person narrated the incident how he lost his pet like during a road travel, his dog jumped out of the vehicle and disappeared. Nirmala invited him to her house to check the dog. Being acquainted with the dog for a period two months, Anita wished that the dog had forgotten its previous owner.  Next day, the person willing to take a look at the dog got to Nirmala’s house with his son. The dog wagging his tail ran towards the son of the previous owner, who was coming in after opening the vehicle’s door. The owner’s son also embraced and petted the dog, with the joy of meeting it after a long separation. Being happy of getting the dog back, the person wanted to give Nirmala some gift amount. But Nirmala, declining the gift amount, said “if you want, then pay me the veterenarian’s fee of one hundred dollars”. Saying that that much money was not with him at present, the person took the dog and left from there.

Having lost the dog and sad, Anita many times prayed her mother to buy a different dog from shop. Even then, Nirmala declined her daughter’s requests saying that keeping a dog was difficult. After two weeks, a letter sent by the owner of the dog came to Nirmala’s house. Nirmala wondering about it, when opened the letter and saw, there were five hundred dollars in it. By seeing it, all the family members were surpirsed. Anita said “this money is enough. A new dog must be certainly bought by us.” Nirmala not finding a way out, brought a new dog from pet’s market. Obtaining the new friend, Anita and Vijay became happy.

Thursday, September 19, 2019

देवप्रयत्नः God's Effort

आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.द.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा 
English Translation at the bottom

ग्रामे एकः पुरुषः आसीत् | तस्य नाम गोपालः | सः परमनारायणभक्तः | एकदा सः देवदर्शनम् इच्छति | तस्मिन् काले लोकयानं किमपि न आसीत् | शकटयानेन मन्दिरं गच्छति | मार्गः मृण्मयः आसीत् | मध्ये बहु वृष्टिः भवति | तदा मार्गे पङ्कः भवति | पङ्के शकटयानस्य चक्रम् अधः गच्छति | शकटयानं स्थगितं भवति | यदि गोपालः शकटं किञ्चित् नुदति चेत् चक्रं बहिः आगच्छति | परन्तु सः अधः न आगच्छति | शकटे एव उपविशति | देवं प्रार्थयति “हे नारायण, मम साहाय्यं करोतु” इति | वृष्टिः पतति एव | तदा एकः कृषिकः आगच्छति | सः समीपं आगत्य गोपालं वदति “भवतः शकटयानं स्थगितम् अस्ति | अहं साहाय्यं करोमि वा शकटं नुदामि वा?” इति | तदा गोपालः वदति “भवान् किं मम साहाय्यं करोति | भगवान् नारायणः मम साहाय्यं करोति | भवान् गच्छतु” इति | सः कृषिकः गच्छति |

अधिकवृष्टिः पतति | जलम् उपरि आगच्छति | शकटस्य उपरि छदिः अस्ति | तस्य उपरि गोपालः उपविशति | पुनः सः देवं प्रार्थयति “हे नारायण, मम रक्षणं करोतु” इति | एका नौका आगच्छति | नौकायाम् एकः आरक्षकः अस्ति | सः समीपम् आगत्य वदति “इदानीं बहु वृष्टिः भवति | जलप्रवाहः भवति | भवान् मम नौकायां आगच्छ | भवतः रक्षणं भवति” इति | तदा गोपालः वदति “भवान् किं साहाय्यं करोति | नारायणः मम रक्षणं करोति | भवान् गच्छतु” इति | सः आरक्षकः गच्छति |

पुनः अधिकवृष्टिः भवति | अधिकजलम् उपरि आगच्छति | समीपे एकः वृक्षः भवति | वृक्षस्य शाखायां गोपालः उपविशति | सर्वत्र जलप्रवाहः भवति | सः प्रार्थयति “हे नारायण, आगच्छतु | मम साहाय्यं करोतु” इति | किञ्चित् समये एकं लघु विमानम् उपरि आगच्छति | विमानचालकः वदति “सर्वत्र जलप्रवाहः अस्ति | अहं भवतः साहाय्यं करोमि | एकां रज्जुम् अधः स्थापयामि | भवान् रज्जुं गृह्णातु | अहम् उपरि विकर्षणं करोमि | भवान् उपरि विमाने आगच्छतु” इति | तदा गोपालः वदति “मम साहाय्यं भगवान् नारायणः करोति | भवान् गच्छतु” इति | विमानचालकः अपि गच्छति |

अधिकप्रवाहः भवति | वृक्षः जले पतति | गोपालः जले मग्नः भवति | सः मरणं प्राप्नोति | नारायणभक्तः सः वैकुण्ठं गच्छति | तत्र गोपालः नारायणं नमस्करोति | सः नारायणं पृच्छति “अहं पुनः पुनः भवन्तम् आहूतवान् | परन्तु भवान् मम साहाय्यं कर्तुं न आगतवान् | किमर्थं मम रक्षणं न कृतवान्” इति | तदा भगवान् नारायणः वदति “अहम् एकवारं न - त्रिवारम् आगतवान् भवतः रक्षणार्थम्” इति | गोपालः आश्चर्येण उक्तवान् “कथम्? कदा आगतवान्? अहं न दृष्टवान्” इति | तदा नारायणः उक्तवान् “यदा आरम्भे पङ्के शकटं स्थगितं तदा भवान् किमपि प्रयत्नं न कृतवान् | अहं कृषिकरूपेण आगतवान् | अनन्तरम् अहम् आरक्षकरूपेण आगतवान् | तदा अपि भवान् साहाय्यं निराकृतवान् | अनतरं विमानचालकरूपेण अहम् आगतवान् | तदा अपि भवान् साहाय्यं निराकृतवान् | अहं भवतः साहाय्यं कर्तुं बहुप्रयत्नं कृतवान् | परन्तु भवान् किमपि प्रयत्नं न कृतवान् | मम साहाय्यम् अपि निराकृतवान्” इति | नारायणस्य वचनं श्रुत्वा गोपालः लज्जितः |

English Translation:
This is not word-to-word translation, but translation at the sentence level, keeping the English language structure in mind.

There was a person in a village. His name was Gopal. He was an ardent devotee of Narayana. Once he wishes to see God (idol). In those times, there was not any kind of public transport. He goes to the temple by cart. The road was muddy. In the meantime, it rains a lot. Then the road becomes slushy with dirt. The wheel of the cart goes down in the dirt. The cart stops. If Gopal pushes the cart a little bit then then the wheel would come out. But he does not get down. He sits in the cart only. He prays god - “Hey Narayana, help me”. The rain continues to fall. Then a farmer comes by. He comes close and says to Gopal - “Your cart is stuck. May I help you, or may I push your cart?” Then Gopal says - “What help can you give me? God Narayana will help me. You may go”. The farmer goes away.

More rain falls. The water rises. There is a cover over the cart. Gopal sits on that cover. He prays to God again “Hey Narayana, protect me”. A boat comes. In the boat, there is a policeman, He comes close and says “There is lot raining now. There is flood. You come into my boat I will rescue you”. Then Gopal says “What help will you do to me? Narayana will rescue me. You may go”. The policeman goes away.

Again it rains more. More water rises. There is a tree nearby. Gopal sits on a branch of the tree. There is flood everywhere. He prays “Hey Narayana, come, help me”. After sometime, a small airplane comes over. The pilot says “There is flood everywhere. I will help you. I will put a rope down. You catch the rope. I will pull you up. You come up into the plane”. Then Gopal says “God Narayana will help me. You may go”. The pilot also goes away.

Flood increases. The tree falls into the water. Gopal drowns in the water. He dies. (Being a) Devotee of the god, he goes to Vaikuntha. There he bows to Narayana. He asks Narayana “I called you again and again. But you did not come to help me. Why did not you rescue me?” The God Narayana says “Not once, but I came thrice to rescue you”. Gopal surprised said “How? When did you come? I did not see you”. Then Narayana said “In the beginning when the cart was stuck in the dirt, then you did not do any effort. I came in the form of a farmer. Then I came in the form of a policeman. Then also you refused the help. Afterwards, I came in the form of a pilot. Then also you refused the help. I tried a lot to help you. But you did not do any effort. You also refused my help”. Hearing Narayana’s words, Gopal was ashamed.

Thursday, September 12, 2019

भिक्षुकवृत्तिः Beggar's Fate

आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.द.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा 
विषयः - सप्तमी विभक्तिः
एकः भिक्षुकः नगरे अटनं करोति | सः एकं गृहं गच्छति | तत्र वदति "भवति भिक्षां देहि" इति | महिला बहिः आगच्छति | अन्नं ददाति | भिक्षुकः अन्नं स्थालिकायां स्थापयति | सः अन्यगृहं गच्छति | तत्र वदति "भवति भिक्षां देहि" इति | एका महिला बहिः आगच्छति | वस्त्रं ददाति | भिक्षुकः वस्त्रं स्यूते स्थापयति | सः अन्यगृहं गच्छति | तत्र वदति "भवति भिक्षां देहि" इति | तत्र महिला बहु धनं ददाति | भिक्षुकस्य समीपे पात्रम् अस्ति | सः धनं पात्रे स्थापयति | इदानीं पात्रे पूर्णं धनम् अस्ति |

भिक्षुकः काशीनगरं गच्छति | काशीनगरे गङ्गानदी अस्ति | भिक्षुकः स्नानार्थं नदीं गच्छति | सः नदीतटे धनपात्रं स्थापयति | जले स्नानार्थं गच्छति | नदीतटे धनपात्रं सुरक्षितं नास्ति इति चिन्तयति | पुनः नदीतटं आगच्छति | सः तटे भूमिं खनति | गर्ते धनपात्रं स्थापयति | उपरि मृत्तिकां स्थापयति | कुत्र पात्रं स्थापितम् इति ज्ञातुं सः तस्य उपरि शिवलिङ्गस्य निर्माणं करोति | स्नानं कर्तुं नदीं गच्छति |

अन्यः पुरुषः स्नानार्थं तत्र आगच्छति | सः नदीतटे शिवलिङ्गं पश्यति | प्रायः एषः काशीनगरस्य संप्रदायः अस्ति इति सः चिन्तयति | सः अपि तटे अन्यशिवलिङ्गस्य निर्माणं करोति | अनन्तरं स्नानं कर्तुं नदीं गच्छति | तदनन्तरं एकं लोकयानं तत्र आगच्छति | बहवः जनाः स्नानार्थम् आगच्छन्ति | सर्वे तटे शिवलिङ्गानि पश्यन्ति | ते अपि सर्वे भक्त्या शिवलिङ्गनिर्माणं कुर्वन्ति | इदानीं बहूनि शिवलिङ्गानि भवन्ति |

भिक्षुकः स्नानं कृत्वा तटम् आगच्छति | तत्र बहूनि शिवलिङ्गानि पश्यन्ति | धनपात्रं कुत्र इति न जानाति | निराशः सः स्वनगरं गच्छति |

Monday, September 9, 2019

चोरव्यापारः Trade-In of a Thief

(आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.डी.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा)

एकः चोरः आसीत् । चोरस्य कार्यं रात्रिसमये भवति । सः दिवा समये चौर्यं न करोति । एकदा सायङ्कालः । चोरस्य किमपि कार्यं नास्ति । अतः सः अटनं करोति । समीपे एकं मन्दिरम् अस्ति । मन्दिरे प्रवचनं चलति । रात्रिपर्यन्तं किमपि करणीयम् इति चिन्तयित्वा सः मन्दिरं गच्छति । तत्र उपन्यासे गुरुः कृष्णस्य कथां कथयति । चोरः तत्र उपविशति । गुरुः कृष्णस्य विवरणं करोति । कृष्णः नीलवर्णः । तस्य स्वर्णमुरळी । किरीटं वज्रखचितम् । कण्ठे स्वर्णमाला । कर्णे स्वर्णकुण्डलानि । हस्ते कङ्कणानि । चोरः एतत् सर्वं विवरणं शृणोति । प्रवचनस्य समापनं भवति । अनन्तरं चोरः गुरोः समीपं गच्छति । सर्वे जनाः गुरुं नमनं कृत्वा गच्छन्ति । चोरः नमस्कारं कृत्वा तत्र एव तिष्ठति । सः गुरुं पृच्छति "कृष्णस्य सङ्केतं ददातु" इति । गुरुः बहु सन्तुष्टः । मम उपन्यासं श्रुत्वा एषः प्रभावितः । गुरुः वदति "एतावत्पर्यन्तं कोऽपि मम समीपे आगत्य कृष्णस्य विषये न पृष्टवान् । त्वं मम शिष्यः । अस्तु । श्वः प्रातःकाले मम गृहम् आगच्छतु । अहं कृष्णस्य विषये सम्पूर्णविवरणं ददामि । कृष्णस्य सङ्केतम् अपि ददामि" इति । चोरः आनन्देन गच्छति ।

अग्रिमदिने प्रातःकाले चोरः गुरोः गृहं गच्छति । चोरं दृष्ट्वा गुरुः वदति “त्वं स्नानं न कृतवान् । दन्तधावनम् अपि न कृतवान् । उत्तमं वस्त्रम् अपि न धृतवान् । अशुद्धः । कृष्णस्य विषये किमपि न वदामि” इति । तत् श्रुत्वा चोरः क्रुद्धः । छुरिकां दर्शयित्वा वदति “ह्यः भवान् सङ्केतं ददामि इति उक्तवान् । इदानीं न वदति चेत् भवतः मरणं भवति” इति । छुरिकां दृष्ट्वा भीतः गुरुः “भवान् कः?” इति पृच्छति । सः वदति “अहं तु चोरः । कृष्णस्य शरीरे आभरणानि सन्ति इति भवान् एव उक्तवान् । अतः तस्य चौर्यं कर्तुम् आगतवान् । कृष्णस्य सङ्केतं ददातु” इति । गुरुः प्राणरक्षणार्थं वदति “कृष्णः तु अत्र नगरे न वसति । वने एकः वटवृक्षः अस्ति । तत्र कृष्णः वसति” इति । चोरः रज्जुं करदीपं स्यूतं च गृहीत्वा वनं गच्छति । वने अन्वेषणं करोति । कुत्रापि वटवृक्षं न पश्यति । बहुत्र अटति । तस्य बहु कष्टं भवति । अनन्तरम् एकं वटवृक्षं पश्यति । संतुष्टः भवति । “हे कृष्ण, हे कृष्ण आगच्छतु” इति उच्चैः सः बहु वारं वदति । कृष्णं कुत्रापि न पश्यति । श्रान्तः सः चोरः तत्र एव निद्रां करोति । यदा सः उत्तिष्ठति तदा बालकृष्णः तत्र आगच्छति । यथा गुरुः उक्तवान् तथा कृष्णः सर्वाभरणानि धृत्वा शोभमानः तत्र आगच्छति । गुरुः सत्यम् उक्तवान् इति चिन्तयति चोरः । सः कृष्णं प्रति वदति “सर्वं निष्कासयतु । आभरणानि ददातु” इति । तदा बालकृष्णः सर्वाणि आभरणानि निष्कास्य चोरस्य हस्ते ददाति । चोरः आभरणानि स्यूते स्थापयित्वा नगरं प्रति गच्छति । सः गुरोः गृहं गच्छति । गुरुः वातायनतः चोरं दृष्ट्वा भीतः । सः चिन्तयति “मम प्राणरक्षणार्थम् अहं वनं वटवृक्षः इति किमपि चोरं उक्तवान् । तत् किमपि चोरः न दृष्टवान् वने । इदानीं मम अन्तिमकालः आगतः । अद्य मम यमदर्शनं भवति । ईश्वरं प्रार्थयामि” इति । चोरः गुरोः समीपं गच्छति । स्यूततः सर्वाणि आभरणानि निष्कास्य गुरोः पादे अर्पयति । “सर्वाणि आभरणानि भवतः एव” इति चोरः वदति । चोरः नमस्कारं कृत्वा ततः गच्छति ।

अत्र चौर्यव्यापारः जातः । चोरः कृष्णस्य आभरणानि चोरितवान् । कृष्णः अपि एकः चोरः । कृष्णः चोरस्य मनः अपहृतवान् । चोरः कृष्णस्य कथां श्रुतवान् इति कारणात् सज्जनः जातः । उत्तमजनसम्पर्कं भवति चेत् अस्माकं जीवनम् अपि उत्कृष्टं भवति । अपि च श्रीकृष्णस्य दर्शनं गुरुः न कृतवान् परन्तु चोरः कृतवान् । चोरस्य मनसि कृष्णविषये विश्वासः आसीत् इति कारणात् दर्शनं साध्यम् अभवत् । कार्यसाधनार्थं दृढविश्वासः आवश्यकः ।

चतुरः काकः The Smart Crow

(आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.डी.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा)


एकः काकः आसीत् । तस्य बहु दाहः भवति । काकः अत्र पश्यति । काकः तत्र पश्यति । परन्तु जलं नास्ति । सः काकः अन्यत्र गच्छति । तत्र एकः घटः अस्ति । घटे किञ्चित् जलम् अस्ति । काकः जलं पातुं न शक्नोति । सः चिन्तयति । समीपे शिलाखण्डाः सन्ति । काकः शिलाखण्डान् घटे स्थापयति । जलम् उपरि उपरि आगच्छति । काकः सन्तोषेण जलं पिबति । एषः पुरातनः सामान्यः काकः ।

अन्यः नूतनकाकः । तस्य अपि दाहः भवति । सः घटस्य समीपं गच्छति । घटे किञ्चित् जलम् अस्ति । काकः आपणं गच्छति । ततः एकां पाननलिकाम् (straw) आनयति । नलिकां घटे स्थापयति । विना कष्टेन जलं पिबति । एषः चतुरः काकः |

Sunday, September 8, 2019

नवनीतचोरः कृष्णः Krishna Stealing Butter

आधारः - संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.द.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा 
This story with caption and English meaning is available on YouTube.

श्रीकृष्णः बालकः। तस्य नवनीतं बहु प्रियम् । गोपस्त्री घटे नवनीतं स्थापितवती । अनन्तरं सा बहिः गतवती । कृष्णः बलरामः अन्ये बालकाः च तत्र गत्वा नवनीतं खादितवन्तः । गोपस्त्री आगत्य पश्यति । घटे नवनीतं न आसीत् । अग्रिमदिने सा नवनीतं घटे स्थापितवती । घटं रज्जुना उपरि लम्बितवती । अनन्तरं सा बहिः गतवती । सर्वे बालकाः तत्र गत्वा पश्यन्ति । घटः उपरि आसीत् । कृष्णः एकम् उपायं चिन्तितवान् । तदा बलरामः अधः स्थितवान् । बलरामस्य उपरि श्रीकृष्णः स्थितवान् । एवं कृष्णः घटं प्राप्य नवनीतं बलरामाय दत्तवान् । बलरामः नवनीतं मित्राय दत्तवान् । एवं सर्वे नवनीतं खादितवन्तः । गोपस्त्री आगत्य पश्यति । घटे पुनः नवनीतं न आसीत् । अग्रिमदिने सा नवनीतं घटे पुनः स्थापितवती । घटं रज्जुना उपरि पुनः लम्बितवती । तत्र रज्जुमूले एकां घण्टां स्थापितवती । अनन्तरं सा बहिः गतवती । बालकाः च तत्र गत्वा पश्यन्ति । घटः उपरि आसीत् । तत्र घण्टा अपि आसीत् । कृष्णः घण्टाम् उक्तवान् "हे घण्टे शब्दं मा करोतु" इति । ईश्वरस्य आज्ञा इति घण्टा किञ्चित् अपि शब्दं न कृतवती । पुनः बलरामः अधः स्थितवान् । बलरामस्य उपरि श्रीकृष्णः । कृष्णः घटं प्राप्य नवनीतं बलरामाय दत्तवान् । बलरामः नवनीतं मित्राय दत्तवान् । सर्वे नवनीतं खादितवन्तः । अन्ते कृष्णः नवनीतं खादितवान् । तदा घण्टा उच्चैः शब्दं कृतवती । तत् श्रुत्वा कृष्णः क्रुद्धः घण्टां पृष्टवान् "हे घण्टे, किमर्थं मम खादनसमये शब्दं कृतवती?" इति । तदा घण्टा उक्तवती "हे कृष्ण, एषः मम कुलधर्मः । यदा ईश्वरस्य नैवेद्यं भवति तदा घण्टाशब्दः भवति । भवान् तु जगदीश्वरः । अतः भवतः खादनसमये अहं शब्दं कृतवती" इति ।

English Translation
by Smt. Suryakumari Guthikonda

Sreekrishna is a boy. His most favorite thing is butter. Cowherdess (Gopika) kept butter in a pot. Then she went out. Krishna, Balarama and other boys went there and ate butter. She returns and looks. There was no butter in the pot. Next day she put the butter in the pot. She tied the pot with a rope and hung it high up. After that she went out. All the boys went there and looked. Pot was at high level. Krishna thought of an idea. Then Balarama stood on the floor. On top of Balarama Sreekrishna stood. Thus Krishna reached the pot and gave the butter to Balarama. Balarama gave the butter to a friend. Like this, everybody ate the butter. Cowherdess comes back and looks. There was no butter in the pot again.

Next day, she kept butter in the pot again. She tied the pot with a rope and hung up at a high level again. At the base of the rope, she put one bell. After that she went out. Boys went there and looked. Pot was at a high level.There was a bell also. Krishna said to the bell "Hey bell, do not make sound". "This is God's order" so, the bell did not make any sound. Again Balarama stood at the bottom. On top of Balarama stood Sreekrishna. Krishna reached the pot and gave the butter to Balarama. Balarama gave the butter to a friend. All of them ate the butter. At the end, Krishna ate the butter. Then the bell made a loud sound. Hearing that, angry Krishna asked the bell "Hey bell, why did you make the sound during my eating time?". Then the bell said "Hey Krishna, this is the nature of my family. Whenever an offering is made to God, then the bell rings. You are the God of the universe. So, during your eating time, I made the sound".