Saturday, December 18, 2021
ब्रह्मदीपिका - Light on Brahma (Pronunciation)
Saturday, November 20, 2021
हुत्तरिमहोत्सवः Huttari Festival
समारम्भे अस्मिन् जनाः नूतनवस्त्राणि परिधरन्ति | गृहाणि अलङ्कुर्वन्ति | जलपूरितकुम्भान् गृहेषु स्थापयन्ति | सुगन्धद्रव्यमिश्रितजलेन स्नान्ति | स्थानीयवेषैः सुभूषिताः जनाः कुटुम्बैः सह प्रातः इग्गुतप्पा इति ख्याते देवस्य आलये अर्चनादिकं समर्पयन्ति | तदनन्तरं खनित्रादीनि साधनानि संपूज्य क्षेत्रेषु धान्यकर्तनं प्रारभन्ते | नूतनकर्तितधान्यं पक्त्वा मिष्टान्नभोजनं कुर्वन्ति |
सायंकाले विशेषनृत्यकार्यक्रमः भवति | अग्निं प्रज्वाल्य तं परितः जनाः नृत्यन्ति | कोडगूनां खड्गादीनि आयुधविशेषाणि नृत्येषु प्रदर्श्यन्ते | एवं मोदकरोयं विशिष्टः हुत्तरिमहोत्सवः |
English summary:
The Kodagu district is a beautiful natural adornment of the southern part of India, located in the southwestern direction of the state of Karnataka. The famous river Kaveri originates from this region. The inhabitants of this place are called Kodavas, who are renowned warriors. The festival of Huttari is celebrated in the month of Kartik to rejoice and encourage the people of Kodagu.
During the festival, people wear new clothes, decorate their homes, fill water pots and take a bath with fragrant water mixed with aromatic substances. Locals, dressed in traditional attire, along with their families, offer prayers and perform rituals at the temple of their deity, known as Igutappa. Afterward, they worship agricultural equipment and start sowing the newly harvested crops.
In the evening, a special dance program is organized, where people gather around a fire and dance. The Kodava community members showcase their unique style of dance, wielding weapons such as swords and perform various acrobatic feats. The Huttari festival is incomplete without relishing the special sweet dish called Modak.
Wednesday, November 3, 2021
लक्ष्मीस्तवनम् - In Praise of the Goddess Laksmi
रमा माधवस्य प्रिया माधवी सा
क्षमा लोकमाता विरिञ्च्यादिवन्द्या ।
सदावीतरागस्य नित्यानुसङ्गा
पुराणाप्रमेयस्य नैकट्यधामा ॥
(भुजङ्गप्रयातवृत्तम्)
Saturday, October 30, 2021
सौरमण्डलम् - लघुपरिचयः Solar System - Short Introduction
सौरमण्डलम् इत्युक्ते सूर्यस्य मण्डलम् । सूर्यस्य कुटुम्बः ।
सौरमण्डले अस्माकं वासस्थानं भूग्रहः अथवा भूमिः । भूग्रहस्य विषये केचन अंशाः -
भूग्रहस्य वयः प्रायेण पञ्चचत्वारिंशत् कोटिः संवत्सराः । इत्युक्ते भूग्रहस्य जन्म पञ्चचत्वारिंशत् कोटिसंवत्सरपूर्वम् अभवत् । अस्य ग्रहः वायुमण्डलेन आवृतः । अस्माकं वायुमण्डले पञ्चांशभागः आम्लजनक इति अनिलः विद्यते । अतः एव बहुशः प्राणिनां जीवधारणं साध्यम् ।
भूग्रहस्य पादोनपृष्ठभागः समुद्रनदीसरोवरादिजलेन आवृतः । जलगर्भेऽपि बहवः जीवजन्तवः वसन्ति । कन्दुकसदृशः गोलाकारः अयं भूग्रहः सूर्यं परितः परिभ्रमति । सूर्यं परितः भूमेः एकः परिभ्रमणकालः एकः संवत्सरः इत्युच्यते । कन्दुकसदृशः गोलाकारः अयं भूग्रहः स्वस्य अक्षं परितः अपि परिक्राम्यति । अस्य अक्षपरिक्रमणावधिः एकं दिनम् इति उच्यते । अस्माकं प्रियग्रहस्य अस्य एकः उपग्रहः विद्यते । स एव सुन्दरः चन्द्रः ।
सूर्यः एकः स्वयं प्रकाशितः आकाशकायः । नक्षत्रविशेषः । तस्य कुटुम्बे नव ग्रहाः सन्ति । अस्माकं सौरमण्डले नवग्रहाः एताः -बुधः शुक्रः भूमिः मङ्गलः गुरुः शनिः युरेनस् नेप्च्यून् प्लुटो चेति । सौरमण्डले न केवलं ग्रहाः परन्तु अन्येऽपि आकाशकायाः वर्तन्ते । यथा कुब्जग्रहाः उल्काः धूमकेतवः इत्यादयः । सौरमण्डले सूर्यः केन्द्रस्थाने भवति । सौरमण्डलवर्तिनः सर्वे आकाशकायाः सूर्यं केन्द्रीकृत्य आकाशे प्लवन्ते । एते ग्रहाः सूर्यं परितः पृथक् पृथक् दूरेषु प्रायेण वृत्ताकारे परिभ्रमन्ति ।
विशालप्रायं सौरमण्डलम् इदं नक्षत्रपुञ्जस्य एकस्य एकः अल्पभागः । नक्षत्रपुञ्जस्य अस्य नाम क्षीरगङ्गा इति । अस्माकं सौरमण्डलम् क्षीरगङ्गायाः केन्द्रस्थानं परितः भ्रमति । अस्मिन् नक्षत्रपुञ्जे चत्वारः खर्वाः (400 billion)नक्षत्राणि अनेके ग्रहाः उपग्रहाः आकाशकायाः वर्तन्ते ।
विशालप्रायः क्षीरगङ्गानक्षत्रपुञ्जः अपि विश्वस्य कणमात्रभागः । विश्वे प्रायः शतद्वयं शतकोटिः नक्षत्रपुञ्जाः वर्तन्ते इति विज्ञानिनां ऊहनम् । केचन विज्ञानिनः न केवलम् एकं विश्वं परन्तु अनेकानि विश्वानि विद्यन्ते इत्यपि वदन्ति ।
अहो । ऊहातीतोयं ब्रह्माण्डस्य परिमाणः । अद्भुतः तस्य व्यापरः । सर्वस्यास्य को हेतुः किमर्थं परिभ्रमन्ति आकाशे । सृष्टिस्थितिलयं किमर्थं गच्छति । को वा पृथिव्यां जीवजन्तूनाम् जीवनलक्ष्यम् । अस्य अनन्तरूपस्य विश्वस्य विश्वनियामकस्य संकीर्तनाय कुतो वयं समर्थाः । अत एव उच्यते -
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥
(ईशोपनिषत्)
Saturday, September 4, 2021
गणेशस्तुतिद्वितयम् - Ganesha Stuti Couplet
उरगाङ्किततुन्दिलमाखुरथं धृतपाशवराङ्कुशशंभुसुतम् ।
उरुकुक्षिसमाहितविष्णुपदं दशनैकसुशोभितमोदकरम् ॥
हिमपर्वतजामुखपद्मसुखं सुजनार्तिहरं करिराजमुखम् ।
प्रथमार्चितसिद्धिददेववरं प्रणमामि गणाधिपतिं वरदम् ॥
पदच्छेदनम् तथा अर्थः -
उरगाङ्किततुन्दिलः = यस्य तुन्दिलः नाभिप्रदेशः पीनः । स च प्रदेशः उरगेण सर्पेण अङ्कितः मण्डितः वर्तते ।
His navel region is protruding (because of huge belly). That region is adorned by a serpent.
आखुरथः = यस्य रथः वाहनम् आखुः मूषकः । His vehicle is a mouse.
धृतपाशवराङ्कुशः = सः पाशं वराङ्कुशं हस्तयोः धृतवान् अस्ति ।
He is holding a rope and a hook (as a weapon).
शंभुसुतः = सः शंभोः शङ्करस्य सुतः । He is the son of Lord Shambhu.
उरुकुक्षिसमाहितविष्णुपदः = तस्य उरुकुक्षौ महति उदरे विष्णुपदम् आकाशः समाहितो वर्तते । गणेशः आकाशाभिमानी देवः इति ।
In his big belly contains sky/space. (Ganesha is known as the lord of space).
दशनैकसुशोभितमोदकरम् = सः दशनैकेन एकेन दन्तेन सुशोभितः।
He is adorned with (only) one tooth.
मोदकरम् = मोदम् आनन्दम् यच्छति भक्तेभ्यः । करे स्वहस्ते मोदरूपम् आनन्दरूपम् मोदकभक्ष्यं धृतवान् वा ।
He provides happiness. Or he is holding modaka in his hand.
हिमपर्वतजामुखपद्मसुखः = सः हिमपर्वतजायाः पार्वत्याः मुखपद्मं मुखकमलं सुखयति । मात्रे आनन्दम् ददाति ।
He gives joy to goddess Parvati (his mother).
सुजनार्तिहरः = सुजनानाम् सज्जनानाम् आर्तिम् दुःखम् हरति ।
He takes away the sorrows of virtuous people.
करिराजमुखः = गजमुखः । He has an elephant-head.
प्रथमार्चितसिद्धिददेववरः = सः प्रथमार्चितः सर्वादौ वन्द्यः । सिद्धिदः देववरः सिद्धिप्रदेषु देवेषु उत्तमः ।
He is worshipped first. He is the best amongst the gods who give fulfilment (success).
गणाधिपतिः = गणानाम् अधिपतिः नियामकः । He is the leader/controller of ganas (his groups).
वरदः = वरप्रदः । He is the giver of boons.
प्रणमामि = तादृशम् (देवम्) नमामि । I bow to that god - Ganesha.
Saturday, August 21, 2021
श्रीगुरुराघवेन्द्रस्तवनम् Guru Raghavendra Stavanam
(श्रीहरिगुर्वनुग्रहेण रचितं श्लोकत्रयम्)
अर्थः
प्रथमश्लोकः श्रीः इति मङ्गलाचरणम् । पूर्णबोधः आनन्दतीर्थः । तस्य मतं तत्त्ववादः । तत्तु श्रीदेव्यनुमतम् । तदेव दुग्दाब्धिः क्षीरसमुद्रः । तस्मिन् चन्द्र इव (प्रकाशते अयं राघवेन्द्रः) । चन्द्र इव आह्लादकरः अपि दुर्वादीनां दुष्टमतसमर्थकानां जालं जालरूपं मायावादं दाहयति । तस्य अवतारविषये - लक्ष्मीः ईशः रुद्रः शक्रः इन्द्रः सुरादयः । तेषां सन्दोहः समूहः । तेन वन्द्यः नारायणः । तस्य नारायणस्य पादः एव अब्जम् पद्मम् । हरिपादकमले भक्तिं बोधयन्ति अस्य यतेः वचनानि । पूर्वं प्रह्लादराजरूपेण अस्य यतेः जन्म आसीत् । तदनन्तरं परजन्मनि यतिराजेन्द्रः व्यासयतिः इति ख्यातः । स एव राघवेन्द्रयतिरूपेण जातः । तस्य जन्मविषये - पद्मावती वेङ्कटेशावतारकाले लक्ष्मीरूपख्याता । तस्याः प्रणयः प्रीतिरूपः गोपालः हरिः । तस्य हरेः पत् पादः । हरिपादस्य मधुपः भ्रमरः । हरिपादे आसक्तः । सः यतिः गोपीसुतः । यतेः माता गोपाम्बिका इति । सः यतिः भुवनजः । सः भुवनगिरिप्रदेशे जातः । द्वितीयश्लोकः अग्निसूक्तपठनविषयः - भूसुरभोजनसन्दर्भे अस्य विधिबद्धवेदोक्ताग्निसूक्तपठनात् भूसुराः सर्वे त्वग्दाहात् पीडिताः । भूसुरैः प्रार्थितः एषः वरुणसूक्तं पठित्वा तद्दाहम् अचिरात् तूर्णं न्यवारयत् । संन्यासस्वीकारः - सच्छास्त्रेषु कोविदः पारङ्गतः सुधीन्द्रमुनिः । तेन तुरीयाश्रमो दत्तः अस्मै । संन्यासिचिह्नं दण्डः । संन्यासग्रहणात्परम् एषः तत्त्ववादस्य प्रचाराय कृतसंकल्पः । वाक्यार्थे चतुरः सः सज्जनानां वृन्दस्य समूहस्य नन्दनकरः आनन्ददायकः अभवत् । लीलाविषये - कस्यचित् श्रेष्ठिनः गृहे उत्सवसन्दर्भे मृतं श्रेष्ठिपुत्रं पुनर्जीवितमकरोदिति लीलाप्रसङ्गः । म्लेच्छभूपेन अस्य प्रभावपरीक्षाहेतुना अर्पितं क्रव्योदनं मांसभक्ष्यम् अस्य जलप्रोक्षणात् मधुरफलेषु परिवर्तितोभवत् । तृतीयश्लोकः ग्रन्थरचनाविषये - सुखकरं भाट्टसंग्रहं नैके खण्डार्थग्रन्थान् परिमळादिग्रन्थान् विरचितवान् । वृन्दावनम् - सः वरदः तुङ्गभद्रानदीतीरस्थे मन्त्रालयनामकपुरे वृन्दावनप्रवेशम् अकुरुत । कोदण्डपाणिः श्रीरामः । रामस्य पादपरः भक्तः । वेणुप्रियः श्रीकृष्णः । कृष्णस्य अङ्घ्रिपरः भक्तः । अयं यतिः वीणावादने प्रवीणः । अमलः शुद्धः । सः भक्तजनानां तापहरणः भयहरणः च । सः सुष्ठु मतिं ददाति । सन्मार्गे प्रेरयति । तादृशं राघवेन्द्रगुरुश्रेष्ठं भजे ।
गानम्
अर्थविवरणम्
Saturday, August 14, 2021
पर्सीड् उल्कावृष्टिः Perseid Meteor Shower
अनन्ते अमुष्मिन् आकाशे अनन्ता आकाशकायाः निरन्तरं चलनाशीलाः दरीदृश्यन्ते । आकाशकायाः विविधप्रकारकाः सन्ति । ग्रहाः उपग्रहाः नक्षत्राणि महानक्षत्राणि कृष्णबिलानि इत्यादीनि । तेषु धूमकेतवः इत्यपि प्रकारान्तरः । अस्माकं सौरमण्डले केन्द्रभूतः सूर्यः । बुधादिग्रहाः परिभ्रमन्ति तत् केन्द्रस्थानम् । न केवलं ग्रहाः परन्तु नैके अन्ये आकाशकायाः अपि परिभ्रमणं कुर्वन्ति सूर्यं परितः । तेषु बहवः धूमकेतवोपि सन्ति । धूमकेतुः (comet) नाम विशिष्टः आकाशकायः । धूमकेतोः प्रधानभागे घनीभूतः अनिलः तथा सान्द्रः रजोराशिः वर्तते । यदा कश्चित् धूमकेतुः सूर्यस्य निकटे आगच्छति तदा सूर्यातपात् घनरूपी अनिलः प्रद्रावितः धूमरूपेण निष्कासितो भवति । एष एव धूमः जाज्वल्यमानः धूमकेतोः दीर्घः पुच्छः इव प्रतिभाति । अस्यां स्थितौ केचन धूमकेतवः स्वशरीरेभ्यः पाषाणखण्डान् उद्वमन्ति । भूग्रहः अपि तस्मिन् समये धूमकेतोः निकटे वर्तते चेत् अमी पाषाणखण्डाः भूग्रहस्य वायुमण्डलं प्रविशन्ति । भूतलोन्मुखाः पाषाणखण्डाः पतन्तः मार्गे एव प्रज्वल्य भस्मीभवन्ति । धूमकेतोः प्रोज्झिताः ईदृशः पाषाणखण्डाः उल्काः (meteors) इत्युच्यन्ते ।
सौरमण्डले विद्यमानेषु धूमकेतुषु अन्यतमः स्विफ्ट-टटल् (Swift-Tuttle) इति नाम्ना ख्यातः । सूर्यं परितः तस्य परिभ्रमणस्य कालावधिः १३३ वर्षाः । क्रिस्तशकस्य २०२१तमाब्दौ अयं धूमकेतुः सूर्यस्य समीपम् आगतः वर्तते । अस्मात् धूमकेतोः उल्कापातः पर्सीड्-उल्कापातः (perseid meteor shower) इति नामङ्कितः । संप्रति अष्टममासे अस्य उल्कापातस्य मेरुकालः । रात्रिकाले एष उल्कापातः द्रष्टुं शक्यः । नगरविदूरप्रदेशे यत्र अन्धकारः आधिक्येन भवति यत्र तारकाः सुस्पष्टं दृग्गोचराः भवन्ति तत्र उल्कापातवीक्षणं सुलभम् । वीक्षणार्थं विशेषयन्त्रं किमपि न अवश्यकम् । कदाचित् एकस्मिन् मुहूर्तकाले पञ्चाशत्मिता उल्काः अपि दृष्टिगोचराः भवेयुः । प्रत्येकं उल्कायाः ज्वलनकालः इत्युक्ते गोचरकालः अत्यल्पः ऊनक्षणः भवति । उल्कावृष्टिरेषा अत्यद्भुता मनोमोदकरिणी दर्शनोत्सुकानां कृते ।
अल्पायवः उद्दीप्ताः उल्काः अस्माकं जीवनस्य क्षणभङ्गुरतां स्मारयन्त्यः परहितं कालस्य सदुपयोगं च बोधयन्ति ।
English Translation:
शिवस्तुतिः Shiva Stuti
रुद्राकारं भुजगवलयं भूतनाथं महेशं गङ्गाधारं वृषभगमनं पार्वतीप्राणनाथम् ।
चर्माश्लिष्टं तुहिननिलयं चन्द्रचूडं त्रिनेत्रं वन्दे शंभुं भवभयहरं सर्वलोकाशुतोषम् ॥
अर्थः -
देवस्यास्य आकारो रुद्रः । दुष्टान् रोदयतीति रुद्रः । संहारकाले अखिलजीवगणं रोदयतीति वा । भुजगाः सर्पाः अस्य वलयाः । सर्पाः वलयरूपीणि आभरणानि । अयं भूतगणस्य अधिपतिः । महेश इति ख्यातः महैश्वर्यवान् । गङ्गादेव्याः आधारभूतः शिरसि । वृषभः अस्य वाहनम् । पार्वतीदेव्याः पतिः ।
चर्माम्बरधारी । तुहिनदेशे हिमपर्वते अस्य वासः । चन्द्रः अस्य चूडारूपः । त्रीणि यस्य नेत्राणि । सः शंभुः सुखकरः । भवभयं संसारतापं हरतीति । सर्वलोकस्य आशुतोषः । शीघ्रं प्रसन्नः भवतीति । एतादृशं महादेवं वन्दे ।
Tuesday, May 4, 2021
संस्कृत-वर्णमाला (स्वराः) Sanskrit Alphabets-Vowels
Tuesday, April 27, 2021
विभक्तिदर्शकश्लोकाः ९ - Verses with Declension 9 हनुमत्
हनुमन्तमुपागम्य प्रणताः शैशवे सुराः ||
हनुमता सहायेन हरीन्द्रो हरिणा सजुः |
हनुमते ददौ रामः सीतार्थमङ्गुलीयकम् |
हनुमतः पराजिता दैत्यास्तीर्त्वा सरित्पतिम् ||
हनुमतः मतं गत्वा महीं प्राप विभीषणः |
हनुमति हरिः प्रीतो लक्ष्मीः प्रीता निरन्तरम् |
हनुमन् त्वत्समो नास्ति ज्ञानमुक्तिप्रदायक ||
पदच्छेदः (Word Separation): words with vibhaktis highlighted
हनुमान् जगतः प्राणः जज्ञे रामपरायणः |
हनुमन्तम् उपागम्य प्रणताः शैशवे सुराः ||
हनुमता सहायेन हरीन्द्रः हरिणा सजुः |
हनुमते ददौ रामः सीतार्थम् अङ्गुलीयकम् |
हनुमतः पराजिताः दैत्याः तीर्त्वा सरित्पतिम् ||
हनुमतः मतम् गत्वा महीम् प्राप विभीषणः |
हनुमति हरिः प्रीतः लक्ष्मीः प्रीता निरन्तरम् |
हनुमन् त्वत्समः नास्ति ज्ञानमुक्तिप्रदायक ||
सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
हनुमान् जगतः प्राणः hanumAn is world's vital strength. रामपरायणः जज्ञे He was born to serve rAma.
शैशवे हनुमन्तम् उपागम्य सुराः प्रणताः In (his) babyhood, the gods went near hanumAn and bowed to him.
हनुमता सहायेन हरीन्द्रः हरिणा सजुः With the help of hanumAn, the king of monkeys (sugrIva) became friend with hari (rAma).
रामः सीतार्थम् अङ्गुलीयकम् हनुमते ददौ rAma, for sItA, gave the ring to hanumAn.
हनुमतः पराजिताः दैत्याः तीर्त्वा सरित्पतिम् Because of hanumAn, the demons were defeated, as he crossed the king of water bodies (ocean).
हनुमतः मतम् गत्वा विभीषणः महीम् प्राप By having the same opinion as hanumAn, vibhIShaNa obtained the land (kingdom).
हनुमति हरिः प्रीतः लक्ष्मीः प्रीता निरन्तरम् hari is always pleased with hanumAn, (and so) lakShmIH is pleased (with hanumAn)
हनुमन् ज्ञानमुक्तिप्रदायक त्वत्समः नास्ति (O) hanumAn, (O) the giver of knowledge and salvation, there is no one like you.
(मूलम् - स्वरचितम् Source - Self)
This is also available on this page.
Tuesday, April 6, 2021
गजेन्द्रमोक्षः - भागवतकथा Liberation of Elephant
एकस्मिन् सुन्दरवने एकः गजः कुटुम्बेन सह निवसति स्म । सः गजः एकदा सरोवरम् आगतवान्। गजः जले आनन्देन क्रीडितवान् ।
तत्र एकः मकरः आगच्छत् । मकरः गजस्य पादं गृहीतवान् । गजः बलवान् अपि मकरं निवारयितुं समर्थः न अभवत् । बहुकालं तयोः युद्धम् अभवत् । अन्ते गजः रक्षणार्थं भगवतः विष्णोः स्तोत्रम् अकरोत् ।
तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।
अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥
नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश्चेतसामपि ॥
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥
यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति ।
किं त्वाशिषो रात्यपि देहमव्ययं करोतु मेदभ्रदयो विमोक्षणम् ॥
एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।
अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ॥
तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् ।
अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे ॥
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।
विश्वात्मानमजं ब्रह्म प्रणतोस्मि परं पदम् ॥
योगरन्धितकर्माणो हृदि योगविभाविते ।
योगिनो यं प्रपश्यन्ति योगेशं तं नतोस्म्यहम् ॥
नायं वेद स्वमात्मानं यच्छक्त्याहं धिया हतम् ।
तं दुरत्ययमाहात्म्यं भगवन्तं नतोस्म्यहम् ॥
इति गजेन्द्रमोक्षकथा ।
Sunday, April 4, 2021
कालियमर्दनकथा Kaliya-mardana Story
श्रीकृष्णः गोकुले निवसति । समीपे यमुनानदी प्रवहति । कालियनामकः नागः नदीम् अधिवसति । नागस्य विषप्रभावात् नदीजलं दूषितं सम्भवति । तेन खगाः मृगाः च मरणं प्राप्नुवन्ति । तत् श्रुत्वा कृष्णः मित्रैः सह नदीतीरम् आगच्छति । तत्र सः एकं वृक्षम् आरोहति । वृक्षात् सः नदीजले निपतति । कृष्णः जले निमज्जति । तत् दृष्ट्वा तस्य मित्राणि विलपन्ति । तदा तत्र नन्दः यशोदा च समागच्छतः । अन्ये गोपालकाः अपि तौ अनुसरन्ति । दुःखिताः गोपालकाः नदीजलम् अभिगच्छन्ति । तदा कृष्णस्य अग्रजः बलरामः तान् सर्वान् प्रतिषेधति ।
कृष्णः नदीजले कालियनागम् उपसरति । कृष्णस्य प्रहरणात् कालियः परिक्लाम्यति । कृष्णः कालियस्य शक्तिम् अपहरति । कृष्णः देवदेवः इति कालियः अवगच्छति । सः जलात् बहिः आगच्छति । कृष्णः कालियस्य शिरसि प्रनृत्यति । कालियः मुखात् विषम् उद्वमति । कृष्णः दूरदेशं गन्तुं कालियम् आदिशति । कालियः तां नदीं परित्यजति । सः कुटुम्बेन सह दूरदेशं निर्गच्छति ।
गोपालकाः श्रीकृष्णम् अभिनन्दन्ति ।
(आधारः - श्रीमद्भागवतमहापुराणम्)
English translation:
Shri Krishna lives in Gokul. The river Yamuna flows nearby. A cobra named Kaliya dwells in the river. The river water becomes contaminated because of the cobra’s venom. Because of that, birds and animals die. Hearing that, Krishna, along with friends comes to the river bank. There he climbs up a tree. He jumps into the river water from the tree. Krishna sinks into the water. Seeing that, his friends lament. Then Nanda and Yashoda arrive there. Other cowherds also follow both of them. The sad cowherds go towards the river water. Then, Krishna’s elder brother Balarama restrains all of them.
Krishna approaches the cobra Kaliya in the river water. Because of Krishna’s attack, Kaliya is exhausted. Krishna takes away Kaliya's strength. Kaliya understands that Krishna is the supreme god. He comes out of the water. Krishna begins to dance on top of Kaliya’s head. Kaliya spits out venom from the mouth. Krishna orders Kaliya to go away to a distant place. Kaliya gives up that river. He goes away to a distant place along with his family.
The cowherds praise Shri Krishna.
Saturday, March 27, 2021
होलिकाचरणम् - Holi Celebration
(परस्मैपदिधातूनां सरलप्रयोगः-वर्तमानकालः)
विशोकः पृच्छति - हे अशोक, होलिकापर्वणः आचरणम् कथम् भवति?
अशोकः वदति - मित्र, एतत् होलिकापर्व वसन्तऋतोः स्वागतसमारम्भः | रात्रौ अग्निः ज्वलति | अग्निम् परितः जनाः नृत्यन्ति | ते वाद्यानि वादयन्ति |
विशोकः पृच्छति - ततः किम् भवति?
अशोकः वदति - परेद्युः (next day) जनाः वर्णैः क्रीडन्ति | आवाम् मुकुन्दस्य गृहम् गच्छावः | त्वम् मुकुन्देन सह उद्यानम् गच्छसि | अहम् वर्णम् गृहीत्वा अनन्तरम् उद्याने मिलामि | तत्र अलोकः, गिरीशः, राजीवः अपि सन्ति | सर्वे मिलित्वा खेलामः | गीतानि गायामः |
एवम् सर्वाणि मित्राणि उद्याने मिलन्ति | तत्र क्रीडित्वा अशोकस्य गृहम् गच्छन्ति | अशोकस्य गृहे अलोकः मुकुन्दः च मधुरखाद्यम् खादतः |
Wednesday, March 17, 2021
शशकः कूर्मः च - Hare and Tortoise Story
वने एकः सरोवरः आसीत् । सरोवरे एकः कूर्मः वसति स्म । यदा सूर्योदयः अभवत् तदा एकः शशकः तत्र आगतवान् । यावत् शशकः सरोवरस्य तीरम् आगतवान् तावत् कूर्मः अपि जलात् बहिः आगतवान् । कूर्मः मन्दम् चलति स्म । कूर्मं दृष्ट्वा शशकः हसितवान् ।
शशकः कूर्मम् उक्तवान् –
हे कूर्म, यथा अहं शीघ्रम् धावामि तथा भवान् न धावति ।
कूर्मः उक्तवान् –
भोः शशक, एवं किमर्थं वदति । सरोवरतः पर्वतपर्यन्तम् धावनस्पर्धा भवतु । यः पर्वतं पूर्वं प्राप्नोति सः विजयं प्राप्नोति । यद्यपि अहं मन्दम् चलामि तथापि अहम् एव तत्र पूर्वं प्राप्नोमि।
शशकः उक्तवान् –
यथा भवान् वदति तथा एव भवतु ।
शशकः धावितुम् आरब्धवान् । कूर्मः अपि चलितुम् आरब्धवान् । यदा शशकः अर्धमार्गम् आगतवान् तदा सः कूर्मं न दृष्टवान् । शशकः तत्र एव निद्रां गतवान् ।
परन्तु कूर्मः विश्रान्तिं विना चलित्वा पर्वतं प्राप्तवान् ।
शशकः पृष्टवान् -
यद्यपि मम वेगः भवतः अपेक्षया अधिकः तथापि भवान् तत्र कथं पूर्वं प्राप्तवान्?
कूर्मः उक्तवान् –
वेगः अधिकः भवतु वा अल्पः । यः सततं कार्यं करोति सः एव निश्चयेन जयति किल ।
नीतिः – सततं कार्यम् फलदायकं भवति ।
Wednesday, February 24, 2021
Vadiraja - वादिराजयतिः
सरसा भारती यस्य रुग्मिणीशोऽधिदैवतम् ||
Thursday, February 11, 2021
अमूल्यम् उपायनम्
स्वभर्तरि अशोके अलकायाः परमा प्रीतिः । अशोकस्य अल्पवेतनेन जीवननिर्वहणं सुदुष्करम् आसीत् । अलकायाः अश्रुधारापातः शुष्कीभूतः । सा मुखं परिमार्ज्य उपवातायनम् अवस्थिता । उत्सवोऽयं प्रीत्यनुरागदर्शनकालः । यथायोग्यं उपायनं पत्यै अर्पयितुकामा अलका चिन्ताकुला बभूव । पार्श्ववर्तिनि आदर्शे स्ववदनम् अवालोकत सा । तस्याः सुनीळकुन्तळकेशाः जानुचुम्बितप्रायाः मनसि हर्षलहरीं उदपादयन् । परन्तु मुखारविन्दं विवर्णं जातम् ।
पतिपत्न्योः वस्तुद्वयं महार्घ्यम् आसीत् । प्रथमः अशोकस्य स्वर्णघटी । घटी सा वंशपरम्परागता परमस्नेहित इव सर्वदा अशोकस्य निकटे वर्तते स्म । प्राचीनत्त्वात् घट्याः तस्याः बन्धनसूत्रमपि नासीत् । युतकस्य कोशे विद्यमानं घटीमुखं मुहुर्मुहुः बहिः निष्कास्य समयं पश्यति स्म अशोकः । अन्यत् महार्घ्यं वस्तु अलकायाः दीर्घकेशाः ।
सुन्दरकेशान् दर्पणे पश्यन्त्याः अलकायाः नेत्रकमले बाष्पसिक्तेऽभवताम् । केशान् धम्मिल्लीकृत्य पुरातनं शिरस्त्रं च परिधृत्य सा नगरमध्यस्थं विपणिमार्गं गता । तत्र आसीत् एकः आपणः “केशपाशपरिकरवस्तूनि" इति फलकसहितः । अलका सोत्साहं प्राविशत् तदापणम् । आपणिकां पप्रच्छ सा - “मम केशान् क्रीणासि किम्?” । आपणिका उदतरत् - “केशान् क्रीणामि । तव शिरस्त्रम् अवतारय । तव केशान् तावत् परीक्षेऽहम्” । अलका शिरस्त्रम् अपासारयत् । धम्मिल्लमुक्तः केशराशिः आजानु प्राशोभत । तं दृष्ट्वा हृष्टमना आपणिका अवोचत् - “पञ्चशतं रूप्यकाणि" । अलका अवदत् - “देहि तत् शीघ्रमेव” ।
केशान् विक्रीय धनं गृहीत्वा अलका चकार अटनम् आपणात् आपणम् । अशोकार्थम् उपायनस्य अन्वेषणे केचन मुहूर्ताः अतीताः । अन्ते यथेप्सितं योग्यतममेकम् उपायनं प्राप्तम् । तदासीत् अनुपमं स्वर्णमयं घटीबन्धनसूत्रम् । पञ्चशतं पञ्चाशच्च रूप्यकाणि मूल्यम् आसीत् तस्य । स्वर्णसूत्रं तथा अवशिष्टानि पञ्चाशत् रूप्यकाणि गृहीत्वा अलका सत्वरं स्वगृहं प्रापत् ।
गृहं प्राप्य अलकायाः क्षुब्धमनः किञ्चित् शान्तिम् उपागच्छत् । दर्पणाभिमुखी स्थित्वा चारुमुखी सा बहुकालं कर्तितकेशभूषितं शिरः अवैक्षत । अल्पमूर्धजा सा माणवक इव दृश्यते स्म । तादृशीं नूतनकेशशैलीम् अवलोक्य किं चिन्तयेत प्रियपतिः इति अलकायाः मनः कातरम् आसीत् । सायं सप्तवादने पाककार्यं समाप्तं तया । अशोकः कदापि विलम्बेन गृहं न आगतवान् । द्वारान्तिके आसीना अलका प्रियस्य आगमनं प्रत्यैक्षत । किञ्चित् कालानन्तरम् अशोकः प्राविशत् द्वारदेशम् । अलका मनसि देवं प्रार्थयत - “मा खिद्येत मे पतिहृदयम् अनया अपगतकेशभूषया” ।
अशोकः अलकायाः समीपम् उपसृत्य ताम् अपश्यत् । स्तम्भीभूतः सः तूष्णीम् अतिष्ठत् क्षणद्वयम् । तस्य मौनेन व्याकुला अलका अशोकस्य अन्तिके दुद्राव । पत्युः बाहौ शिरः निधाय सा उच्चैः व्यलपत् । अभणच्च - “प्रिय, मास्तु तव दृष्टिः एवं मयि । केशाः विक्रीताः मया । तद्विषये मास्तु चिन्ता । केशास्तु पुनः वर्धन्ते मम । उत्सवकालोऽयम् । त्वदर्थे किञ्चित् उपायनमिति मम मनोभिलाषा आसीत् बहुभ्यः दिनेभ्यः । अत्युचितं वस्तु एकं क्रीतं यत्ते बहु रोचते” ।
विस्मितः अशोकः अवोचत् - “हन्त! केशाः त्वया कर्तिताः?” अलका प्रत्यवदत् - “आम् । कर्तिताः विक्रीताश्च । तद्विषये पुनः न चिन्तयावः । उत्सवमिमं मोदेन आचरावः । अहम् अद्यापि तव प्रियसती अलका एव । मयि तव अनुरागः खण्डितो मा भूत्” ।
अशोकः स्वजानिं अवलोकमानः मौनम् अतिष्ठत् मुहूर्तकालम् । ततः सः स्वकञ्चुककोशात् वस्त्रसञ्चिकामेकां निष्कास्य पीठिकायां न्यदधात् । अवदच्च - “प्रिये, तव केशभूषया अबाधितं मे प्रेम । सर्वदा अनुरज्ये त्वामहम् । इयं सञ्चिका उद्घाट्य दृश्यताम् । मम विस्मयस्य कारणं स्फुटीभवति" ।
अलका सञ्चिकाम् उदघाटयत् । तत्स्थितं वस्तु दृष्ट्वा हर्षोद्रेकभावं जगाम अलका । ततः पुनः सा अश्रूणि उदसृजत् परं हर्षेण । तद्वस्तु आसीत् कङ्कतम् । सुन्दरं मणिखचितं केशप्रसाधनं कङ्कतम् । महार्घ्यं कङ्कतं तत् अनेकवारं दृष्टम् अलकया आपणे । बहुमूल्यात् तस्य कङ्कणस्य क्रीणने निवर्तितमना आसीत् सा । इदानीं मनोवाञ्छितं हस्ते गृहीत्वा अलका अवदत् - “प्रिय, प्रमुदितास्मि एतत् कङ्कतोत्तमं प्राप्य । केशाः मे वर्धन्ते अचिरादेव” ।
तदा अलका ससंभ्रमं अशोकस्य पुरतः हस्तं प्रसार्य स्वर्णमयं घटीसूत्रं अदर्शयत । अवदच्च - “प्रिय, पश्य मया किम् आनीतम् । स्वर्णसूत्रमिदं समुचितं तव घटीबन्धनाय । अनेन तव समयदर्शनं सुलभं भवति । कुत्रास्ति तव घटी । सूत्रसहितं कथं दृश्यते इति पश्यावः” ।
अशोकः निःश्वस्य आसने उपाविशत् । स्मयमानः अवदच्च - “प्रिये, उपायनद्वयम् एतत् किञ्चित् कालं मञ्जूषायां स्थापयावः । तयोः उभयोः अपि प्रयोजनं सद्यः नास्ति । मया घटी विक्रीय तद्धनेन कङ्कतं क्रीतम् । अस्तु, अधुना भोजनं खादावः" ।
Friday, January 22, 2021
The Godly Language
Finding the Roots of Sanskrit-Part 4/4
The hypothesis point #8: Panini has accepted many words without derivation.
- Panini’s Ashtadhyayi, has many sutras just to derive a single special word. Panini could have easily written a few more sutras for those accepted without derivation. We need to keep in mind that by the time of Panini, many of the verb roots and etymologies were already lost.
The hypothesis point #9: The old-generation grammarians were more accommodative about changes to the Sanskrit language. This is evident by the works of Katyayana. And even Patanjali was open to this idea of revision of the grammar. The grammarians of the later era like Bhartrihari elevated Panini, Katyayana and Patanjali to the status of maharshis, thereby stopping the ability to question their work.
- Actually, we should be grateful to the trio - Panini, Katyayana and Patanjali who established a solid framework that survived through all the tumultuous times of history. And we should be grateful to those grammarians who kept this framework alive by rigorously following it. If not for such measures, the language would have lost its very nature with the foriegn invasions. Even if there could be traces of some external influence on this language, it was very limited. And that too happened within a homogenous family of languages which had a similar culture. Just like there are no Vedic seers in these times, there are no shishtas (authoritative people) for this language now. Those interested to pursue the language, should take a serious look at what we got from our great ancestors and appreciate its very existence in that form. It is prudent to make a sincere attempt to preserve and adopt to it, rather than destroying it in the name of modernization and evolution.
The hypothesis point #10: In the works of the likes of Bhavabhuti etc., many words that are not in conformity with the grammar of Panini. Who are we to question such word forms? We should be ok to use such distorted word forms in our usage also.
- Now-a-days, it is a fashion to talk about “evolving” the Sanskrit language. Sadly, Sanskrit being nobody’s native language is the harsh target of such attempts. In this age of fast forward and instant-gratification, such people might be finding it hard either hard for themselves or thinking it is hard for others to learn the language and use it. It is like - the Vedas are hard to remember and recite, so let us just change their style of composition so it would be easy for everyone. For that very reason, the many great works and songs were written in other languages to bring out the message of the Vedas. The insistence of wanting to use or speak in Sanskrit by distorting is uncalled for.
If anyone and everyone starts imitating or doing what great or well-known people do, then there will be chaos. First, everyone is not at that level of likes of Bhavabhuti. Secondly, the well-known literary works have their own reasons to deviate - sometimes it could be to fit the verses to a desired metre, sometimes out of rebellion, sometimes mere negligence, or it could be the error of the scribes. Such non-confirming usages are very rare like 1%. Ignoring the 99% of the conforming usage, why should anyone itch to use the 1% portion?
The hypothesis point #11: Then there is a quote from Mahabhashyam of Patanjali that - Sanskrit was not spoken in the households for regular conversation, but only used for special purposes like in yajna etc. This raises the question: was Sanskrit ever a real spoken language amongst the commoners and for daily use?
- Consider the theory that the Prakrit dialects existed for ever, either predating Sanskrit or in parallel with it. The term “Prakrit” itself is a Sanskrit word meaning “natural” or “original”. That hints at the “Sanskrit” language being a made up or refined language - probably adopted for some special purpose. Otherwise, what was the need for such refinement? And what could be that special purpose of this adoption? Though it can be used as an everyday spoken language, could it be that its main purpose was for use with quest for higher achievements of mankind? As a disciplined linguistic construct in pursuit of intellectual and spiritual goals? Literally, गीर्वाणभारती a godly language?
Tuesday, January 19, 2021
Head In The Sand
Finding the Roots of Sanskrit-Part 3/4
The hypothesis #4: An example quoted of word creep from Prakrit: The word पुरुष is broken down in Sanskrit as पुरि शेते. In that case, it should have become पुरिश or पुरिष, rather than पुरुष. In Prakrit, there is a word पुरुस. So, पुरुष of Sanskrit must have come from पुरुस of Prakrit.
- This argument considers only one etymology of the given word. There are multiple etymologies for पुरुष in Sanskrit. One of them is पुरु स meaning पुरु (ब्रह्म) सरति (गच्छति) that is ब्रह्मज्ञानं प्राप्नोति. Nothing wrong if it comes from Prakrit. Many verb roots and etymologies are lost or have become less known over time. Those should also be researched and considered when doing such studies.
The hypothesis #5: It seems that the women and men used variation of the words to refer to the same object. For example: In Kalidasa’s Shakuntala play, the lead actress Shakuntala uses the word वृक्षक to refer to trees, whereas her father Kashyapa uses the word वृक्ष.
- In the Sanskrit grammar, it is well documented that the “क” pratyaya (suffix) is used to refer to the smaller form of any object. वृक्षक here refers to a small tree – a plant. In the play, it is depicted that Shakuntala and her friends are watering the plants. They wouldn’t be watering a big tree. On the other hand, Kashyapa is saying – let us get to the shade of a tree. Obviously, a small plant won’t have a shade. He would be using वृक्ष, not वृक्षक. There are many words like this: बालः/बालकः, बाला/बालिका etc. Not sure, why this is being portrayed as a men-women thing.
- But the Ramayanam was composed long before Panini. So, how could the lakaras definitions of Panini get mixed up in Ramayanam? Such mixed usage of lakaras is found through out the Sanskrit literature. Panini is only enumerating them and clarifying their original purpose. It is somewhat similar to English where “I go to a shop” sometimes intends the future tense, though grammatically the verb is in present tense.
The hypothesis #7: Then there is a story quoted that a girl not using the word for eye (अक्षि) and foot (पाद) in dual number, but using them in plural form. There is no dual number in the Prakrit language; so it is ok to for the woman to not to use the dual number in Sanskrit also. The grammarians despise this kind of usage. There is also a reference about the current “hybrid” nature of many Indian languages. Many Indian language speakers now-a-days rampantly use English words mixed with native languages. Similar "broad-minded" approach should be taken with Sanskrit too.
- With this kind of approach, why even bother learning a language properly? It is like using the Sanskrit words in one’s own language. Like the dual number, many other constructs of the Sanskrit language are also apparently superfluous. Get rid of all those 10 verb forms, 10 verb classes, three genders randomly assigned to different nouns etc. Perhaps create a new language with simple structure borrowing the Sanskrit words. The English creep in the native languages is the result of generations of British education in the Indian subcontinent and the continued mental slavery even after the independence. Instead of cleaning up the mess, if this kind of corrupt usage is construed as an acceptable form of a language, then such a language is doomed.
Saturday, January 16, 2021
The Primitive Vedic Period
Finding the Roots of Sanskrit-Part 2/4
The hypothesis point# 1: The Vedas have the language that predates the later version of the Sanskrit language. And it was probably influenced by regions that are north-west of India or some other lands. Some of these theories take the Aryan migration theory as their basis, and some do not. The similarity of many words in some European, Central Asian with the words in the Sanskrit languages has given rise to the manufacturing of the proto-Indo European (PIE) language being the mother of all these languages. The words similar to पर्दते exist in the European languages as “fart”. But this word is not seen in Sanskrit usage.
- But this theory works on the assumption of taking the fake PIE language as the base and mapping the other languages against it. In such an assumption, Sanskrit language can also be taken as the base to map the other languages. Also, the composition Vedas dates back at least 40,000 years. And we all know what was the state of human living in other parts of the world in those times. This does not conform with the PIE hypothesis. As for the existence of the words in usage, each and every word from Sanskrit koshas and dhatupathas (noun and verb collections) may not be found in the works that are available today.
The hypothesis point# 2: In addition, the Sanskrit language was influenced by other languages like the old Persian language. The example quoted is: कृ changing to कृणोति - retained in the Persian, and supposed to be the “original” or the Vedic Sanskrit. And its variation करोति - is an adoption based on the Prakrit dialects.
- There are two different verb roots of कृ listed in the धातुपाठः - collection of verb roots by Panini. The currently available (धातुपाठः) from Panini lists just under 2000 roots. However, it is well known that many of the verb roots were lost by the time Panini documented them. By the way, Persia or Iran was also part of the ancient Bharata Varsha.
The hypothesis point# 3: In the Vedas, it is said that there are four types of languages - men speak only the fourth type. That indicates there were many layers of the Sanskrit language.
- This part of the Vedas could have a different meaning, and may be referring to four stages of the speech generation in a human being.
In summary: The Vedas are our highest spiritual texts that are revealed only to the capable sages when they are in a deep meditative state. In that transcendental state, the speech follows a different pattern and defies the regular linguistic framework. Trying to put them in a humanly perceivable context and trying to disprove a theory like that of Sheldon Pollock is going to get into a trap because such theories operate on a very different plain.
Wednesday, January 6, 2021
Finding the Roots of Sanskrit-Part 1/4
The linguistic research community tries to fit the Sanskrit language in the same measuring scale as the other languages and attempts to connect the dots. That abundantly relies upon many assumptions. One assumption is: just like the other parts of the world where the history shows the humans and the communities evolved from hunters to farmers, similar thing happened in the Indian subcontinent. Recently, I came across a talk by Prof. Madhav Deshpande based on such hypothesis and analysis. The salient points in that talk are:
The primitive nature of the Vedic people
The etymological and regional connections
Vedas v/s the poetry
Evolution of the Sanskrit language
Openness of the earlier Sanskrit grammarians and the “highbrow” attitude of the later grammarians
In this 4-part series, I share my thoughts on these points.