Monday, April 9, 2018

पाहि मां रङ्ग पाहि मां कृष्ण गीतम्


(मूलम् - पुरन्दरदासवरेण्येन रचितं "करुणिसो रङ्ग करुणिसो" कन्नडभाषायां भक्तिगीतम्)

पाहि मां रङ्ग पाहि मां कृष्ण |
सायं प्रातः तव संस्मरणं दत्वा ||

रुक्माङ्गदो नाहं व्रतपालेषु
स्तोतुन्न जाने शुकमुनिसदृशम् |
बकरिपुसदृशो ध्याने नाहं
लालने नाहं देवकीमाता || १ ||

गरुडो नास्मि गमने समर्थः
शब्दो नास्ति इव करिराजः |
वरकपिश्रेष्ठो दास्ये नाहं
रमणे श्रीः नित्या नाहम् || २ ||

नाहं दाने बलिमहाराजः
छलभक्त्योरहं न तु प्रह्लादः |
वरणे नास्मि तव सखार्जुनः
त्राहि देवाधिदेव त्राहि देवाधिदेव
पुरन्दरविट्ठल श्रीपुरन्दरविट्ठल || ३ ||

Saturday, April 7, 2018

Sanskrit is easy - संस्कृतं सरलम्

This is an excerpt from Dr. K.N. Padmakumar's (of Sanskrit Bharati USA) speech at Toronto, Canada on March 30th 2018. English translation effort is also provided after the excerpt in Sanskrit (though the speech recommends to read and understand the original 😃).


संस्कृतं कठिनं नास्ति | संस्कृतं बहु सरलम् अस्ति  संस्कृतभाषा एका नूतनभाषा नास्ति | अस्माकं सर्वमातृभाषासु संस्कृतम् अस्ति | इन्ग्लिश-मध्ये अपि संस्कृतम् अस्ति | पिता तदा एव फ़ादर् इति आगतम् | माता तदा एव मदर् इति आगतम् | भ्राता तदा एव ब्रदर् इति आगतम् | स्वसा तदा एव सिस्टर् इति आगतम् | पश्यतु इन्ग्लिश-भाषायाम् अपि अनेकपदानि संस्कृतपदानि एव | अस्माकं मातृभाषायां हिन्दीभाषा मराठीभाषा गुजरातीभाषा तमिलभाषा तेलुगुभाषा सर्वत्रापि अशीति प्रतिशतं पदानि संस्कृतपदानि | तस्मात् भारतीयानां कृते संस्कृतम् एका नूतनभाषा नास्ति | सर्वे संकृतं जानन्ति | किन्तु mental block इति वदति किल | अस्माकं मस्तके एकः विघातः अस्ति | एकः अवरोधः अस्ति | यदा यदा अहं न जानामि इति चिन्तयति तदा तदा संस्कृतं न आगच्छति | प्रथमं किं चिन्तनीयम्? अहं जानामि | मम अन्तरङ्गे मम हृदये मम रक्ते मम जीवने संस्कृतम् अस्ति |

अस्माकं सर्वेषां जीवने संस्कृतम् अस्ति | किन्तु जनाः पृच्छन्ति | संस्कृतम् उत्तमम् | कारणं किम्? संस्कृते वेदाः सन्ति | चतुर्वेदाः ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः | उपनिषदः कति सन्ति ? अनेक- उपनिषदः सन्ति | किन्तु प्रधानाः उपनिषदः दश उपनिषदः सन्ति | ईश-केन-कठ-प्रश्न-मुण्डक-मान्डूक्य-तैत्तिरीय-बृहदारण्यक-छान्दोग्य-ऐतरेय इति दश उपनिषदः प्रधानाः उपनिषदः| उपनिषदः कया भाषया? संस्कृतेन | इतिहासद्वयम् अस्ति | रामायणं महाभारतम् | कया भाषया ? संस्कृतेन |

वेदाः उपनिषदः इतिहासद्वयं अष्टादश पुराणानि नाटकानि काव्यानि आगमानि शास्त्राणि अनेकग्रन्थाः संस्कृतभाषायां सन्ति | किन्तु मम एकः प्रश्नः अस्ति | सर्वं संस्कृते अस्ति | कः पठति ? सर्वम् अस्ति इति वयं वदामः | पश्यतु लज्जा नास्ति वा अस्माकम्? वयं किमपि न पठामः | सर्वम् अस्ति अस्ति इति वदामः | ग्रन्थाः पुस्तकानि वयं न पठामः चेत् तस्य उपयोगः कः | ग्रन्थान् स्थापयित्वा पुस्तकं स्थापयित्वा पूजां कुर्मः चेत् तस्य किमपि प्रयोजनं नास्ति | पुस्तकं पठित्वा जीवने तस्य अनुसन्धानं करणीयम् | भगवद्गीता अस्ति | भगवद्गीता tape recorder इव वदति चेत् किं प्रयोजनम् ? सम्यक् एव | प्रथमं सोपानम् उत्तमम् | द्वितीयं सोपानं किम् ? स्वाध्यायः करणीयः | अस्माकम् अन्तरङ्गे तस्य चिन्तनम् करणीयम् | जीवने भगवद्गीतायाः एकः श्लोकः अस्माभिः पालनीयः | तदा वयम् अवगन्तुं शक्नुमः हिन्दूधर्मः कः | नोचेत् हिन्दूधर्मस्य विषये वयम् अवगन्तुं न शक्नुमः | एतत् किमर्थम् उक्तवान् ? एतत् सर्वं संस्कृते अस्ति | कथम् अहं पठामि? जनाः भिन्न-भिन्न-उपायान् कुर्वन्ति | इन्ग्लिश-मन्ध्ये translation करोति | अन्यभाषायां translation करोति | किन्तु translation करोति चेत् मूलम् अर्थं न मिलति | पूर्वम् एकः हास्यार्थम् उक्तवान् | Soda उद्घाट्य स्थापयति किञ्चित् समयानन्तरं किं भवति ? सामान्यजलम् | तदेव translation करोति चेत् अपि भवति | किमपि प्रयोजनं नास्ति |

एतत्समये अहम् एकां लघुकथां स्मरामि | पूर्वम् एकः महाराजः इच्छति स्म अहं कुत्र कुत्र गच्छामि सर्वत्र अपि रक्तवर्णस्य carpet आवश्यकम् | तत्र सर्वे मन्त्रिजनाः मिलित्वा चिन्तनम् कृतवन्तः - राजा यत्र गच्छति सर्वत्र carpet स्वीकृत्य नूतन-नूतनं स्थापयतु | तेषां मध्ये एकः बुद्धिमान् आसीत् | सः उक्तवान् | किं मूर्खतां करोति || एकरक्तवर्णस्य carpet उपयुज्य एक-पादरक्षानिर्माणं कृत्वा ददातु | कुत्रापि सः गन्तुं शक्नोति | तदेव कार्यं संस्कृतभारती करोति | वेदानां translation करोतु | पुराणानां translation करोतु | उपनिषदः translation करोतु | न भवान् संस्कृतं पततु | भवान् एकः संस्कृतं पठति चेत् एतत् सर्वं भवतः हस्ते | केवलं सर्वं translation कृत्वा ददाति चेत् किं प्रयोजनम् ? तत् सम्यक् अपि न भवति |

१५० वर्षपूर्वं एकः भारतीयः अत्र अमेरिकां प्रति आगतवान् | स्वामी विवेकानन्दः | सः तस्य वस्त्रस्य परिवर्तनं न कृतवान् | तस्य चिन्तनस्य परिवर्तनं न कृतवान् | समग्र-अमेरिकाराज्ये समग्रयुरोपराज्येषु सः वेदान्गस्य हिन्दूदर्शनस्य डिण्डिमनादं कृत्वा प्रतिगतवान् | एकः भारतीयः | मम जीवनस्य लक्ष्यं किम् ? मम जीवने मया किं साधनीयम् ? केवलं भोजनम् करोमि निद्रां करोमि मरणं प्राप्नोमि वा ? मनुष्यस्य अन्तरङ्गे ईश्वरः अस्ति | तस्य जागरणं करणीयम् | तदर्थं साधना करणीया | तदर्थम् अस्ति संस्कृतभाषा |

जीवने अस्माकं संस्कृतिः भवेत् | जीवने अस्माकं वर्धनं भवेत् | प्रतिदिनम् ईश्वरस्य समीपं समीपं गन्तव्यम् | नारदभक्तिसूत्रे एकं सूत्रम् अस्ति | भगवतः समीपे गन्तुं भवान् एकं पादं अग्रे स्थापयति चेत् भगवान् दश पदानि अग्रे आगच्छति | अर्थम् अवगच्छति ? किन्तु तस्य अन्य meaning अपि अस्ति | भवान् एकपदं न स्थापयति भगवान् किमपि न करोति | भगवान् तत्र एव तिष्ठति |

जीवने किञ्चित् समयः स्वर्थतां विना प्रतिदिनम् मम राष्ट्रस्य कृते मम संस्कृतेः कृते मम समाजस्य कृते मम भाषायाः कृते मम ग्रन्थानां कृते | अस्माकं पूर्व-ऋषयः मुनयः कियत्-कष्टेन ग्रन्थानां लेखनं कृतवन्तः | चिन्तयन्तु भवन्तः | महाभारते एकलक्षं श्लोकाः इति उक्तवन्तः | एकं श्लोकं पूर्णं पठनीयं चेत् एकं जन्म आवश्यकम् | तादृश-एकलक्षं श्लोकान् लिखितवान् एकः |

विवेकानन्दः बहु उत्तमः | शङ्कराचार्यः ततोऽपि उत्तमः | सर्वे जनाः उत्तमाः एव | किन्तु मम पुत्रः विवेकानन्दः न भवतु | मम पुत्र doctor भवतु engineer भवतु अथवा अन्यत् किमपि करोतु | समीपगृहस्थः पुत्रः विवेकानन्दः भवतु | एतादृशचिन्तनेन वयं किमपि साधयितुं न शक्नुमः | वयं बहुकालपर्यन्तं वृथा वदामः चेत् किं प्रयोजनम् ? मुखं उद्घाटयति चेत् महा-महावाक्यानि वदति | किमपि जानाति वा ? दानम् इति कः अर्थः ? धर्मः इत्युक्ते किम् ? अस्माकं जीवने कस्य पालनं करोति ? परिवर्तनम् आवश्यकं चेत् जीवने पालनं करणीयम् | पालनं विना कदापि परिवर्तनं न आगच्छति |

English Translation

Sanskrit is not difficult. Sanskrit is very easy. Sanskrit is not a new language. Sanskrit is in the native languages of all of us. Sanskrit is in English too. Father word is derived from पितृ, माता became mother, भ्राता became brother, स्वसा became sister. As you see, there are many Sanskrit words in English too. In our native languages like Hindi, Marathi, Gujarati, Tamil, Telugu, 80% of the words are from Sanskrit. Therefore, for Indians, Sanskrit is not a new language. All (of you) know Sanskrit. But there is a thing known as mental block. There is an impedance in our brain. If you keep thinking “I do not know”, then it is not possible to understand Sanskrit. First how should we think? I know. Sanskrit is deep in my heart, in my blood.

Sanskrit is in our life. But people ask. Sanskrit is great. Why? Vedas are in Sanskrit - Rigveda, Yajurveda, Samaveda and Atharvaveda. How many Upanishats are there? There are many. But there are 10 main upanishad - Isha, Kena, katha, prashna, mundaka, maandukya, taittiriya, brihadaranyaka, chandogya, aitareya. Upanishats in which language? In Sanskrit. There are two books explaining the history - Ramayana and Mahabharata. In which language? In Sanskrit.

Vedas, upanishats, two history books, 18 puranas, dramas, poems, aagamas, shashtras, and innumerable books are in Sanskrit language. But I have a question. All this is in Sanskrit, who reads it? Don’t we have any shame? We don’t read any. We just say everything is available. What is the use? If we do not read those books what is the use? If we just keep the books and worship them then it is of no use. Books should be read and its essence should be followed.There is bhagavadgita. If we just chant bhagavadgita like a tape recorder, what is the use? It is ok to do so as the first step. What is the second step? Self-study needs to be done. It should be deeply thought upon. In our life we should attempt to live as per (at least) one of bhagavadgita’s shloka. Then we will be able to understand what is Hindu dharma. Otherwise we won’t be able to understand about the Hindu dharma. Why did I say this? Everything is in Sanskrit. How should I read it? People try in different ways. They translate it in English or other languages. But when translated, we don’t get the original intended meaning. Someone said jokingly. If we open soda what happens after sometime? Plain water. Same thing happens with translation. There is no use.

I remember a short story. There was a king who wanted red carpet under his feet wherever he walked. His ministers planned to carry a big bundle of carpet and set it wherever the king went. There was a wise person amongst the ministers. He said enough of this stupidity. Just make a pair of shoes with the red carpet material. Let the king wear it. Then the king can go anywhere. Sanskrit Bharati does the same work. Instead of translation of vedas, puranas, upanishats, you learn Sanskrit. If you learn Sanskrit, everything will be in your hand. If you merely do the translation, what is the use? It won’t be correct also.

One hundred fifty years ago, an Indian came to America. Swami Vivekananda. He did not change his clothes. He did not change is thoughts. He alone, one person, propagated vedanga and hindu dharma in the entire America and the Europe continent before returning to India. What is the objective in my life? What should I achieve? Only eat, sleep and die? There is god in every human being. That needs to be invoked. We need to strive for that. Sanskrit language is for that purpose.

There should be culture in our life. There should be growth in our life. Everyday we should move towards god. There is a quote in Narada Bhakti Sutra. If we move one step towards the god, he moves ten steps towards us. But it has other meaning too. If you do not make any move, then the god also does not do anything. Some effort is needed from our side.

In life, for some time, without being selfish, every day for the sake of my society, for my country, for my culture, for my literary works. Our forefathers, saints painstakingly wrote great books. Think about it. There are one lakh shlokas in mahabharata. To understand one shloka, one whole life is needed. Like that a person wrote one lakh shlokas.

Vivekananda is great. Shankaracharya is even better. All are great. But my son should not become a Vivekananda. My son should become a doctor, an engineer or something else. Neighbor’s son should become a Vivekananda. By thinking like this, we cannot achieve anything. What is the use if we just keep babbling for long? If we open our mouth, big words, sentences come out from vedas. Do we even understand what they mean? What is dharma? What do we follow? If change is expected, then we should practice (the dharma). Without practicing, there will never be any change.

YouTube link to the complete audio is available here.

Friday, March 30, 2018

Bhima meets Hanuman

भीममारुतिसमागमः
पद्यकथा
अक्षक्रीडापराभूतास्सत्यधर्मपरायणाः
न्यवसन् ते वने घोरे सकृष्णाः पाण्डुनन्दनाः || १ ||
एकदा पुष्पगन्धेन द्रौपदी बहुमोहिता |
भीमं हृदयकान्तारं सुमार्थमन्वमोदत || २ ||
प्राणप्रियावचं श्रुत्वा मुख्यप्राणो महाबलः |
पुष्पाहरणव्याजेन प्रतस्थौ गन्धमादनम् || ३ ||
कम्पयन् शैलशिखरं त्रासयन् मृगपक्षिणः |
पातयन् वृक्षमातङ्गान् प्राचलत्स गदाधरः || ४ ||
द्वितीयमद्वितीयं तं स्वात्मानं मानुषाकृतिं |
दिदृक्षन्मारुतिर्तस्य मार्गेऽभूद्हितकाम्यया || ५ ||
सुसुषुप्तजराकायं मार्गमावृत्यसंस्थितं |
कपीन्द्रमाह कौन्तेयः देहोऽयमपसार्यताम् || ६ ||
प्रोवाच वानरश्रेष्ठो वृद्धोऽहं त्वं महाबली |
यथेष्टं गम्यतामग्रे वालधिं मे निवारय || ७ ||
प्रहसन्निव तल्लूमं दर्पितो मध्यमस्तदा |
बाहुभ्यां सर्वशक्त्यापि कर्षितुं न शशाक ह || ८ ||
व्रीडितो नतमस्तिष्को भग्नदर्पो बृहन्नरः |
परिचयं हरिरूपस्य संपप्रच्छ वृकोदरः || ९ ||
हनूमान्नाम मे वत्स रामनाममधुप्रियः |
संभवो मातरिश्वनः भ्राता ते वायुनन्दन || १० ||
रामेण निहतो युद्धे वित्रस्तो रावणो मया |
किंपुरुषोषितस्तेऽहमागतो दर्शानाशया || ११ ||
विस्मितवदनो भीमो बभाषे हरिपुङ्गवं |
प्राप्तो दिष्ट्या मया दृश्यं रूपं ते सागरोत्प्लवम् || १२ ||
कृतत्रेतादिकालेषु यथायोग्यक्रियापरः |
बद्धाचारॊ ह्ययं लोकोऽबुद्धिर्मे रूपदर्शने || १३ ||
प्रार्थं प्रार्थं मरुत्सूनुमनुनिन्येऽर्जुनाग्रजः |
दर्शितं रूपरौद्रमनिलेन खलमर्दनम् || १४ ||

प्रपश्य देहमतिमानुषं तं सगद्गदस्स प्रणिपत्य भीमः |
सहर्षचित्तस्तरसा जगाम संजीववन्द्यो जगदेकवीरः || १५ ||

(श्रीमन्महाभारतकथाधारितमिदं पद्यम्)

Monday, March 26, 2018

Pick Up and Drop Off




For usages such as pick up/drop off, dictionary look ups do not always show the correct words, as they will be literal translations. It is important to understand the action (क्रिया/भाव) and then use a proper word in Sanskrit. For example:

उत्सारयति = pick up - yes, but that is literally picking up something from the floor

If someone is being picked up, use आनयामि etc.

क्षिपति/क्षिप्यति = throw, पातयति = drop - but these are literally throwing or dropping something, like
कन्दुकं क्षिपामि - I throw the ball, पुस्तकं हस्तात् पातयामि - I drop the book from hand etc.

To drop off someone, use प्रापयामि, गमयामि, नयामि, प्रेषयामि etc.

When we want to say "shop is closed" - use आपणः पिहितः अस्ति/आसीत्, not आपणः निबिड (which means dense/closely held).

Similarly: Facebook post - better to use Facebook लेखनाङ्कः - not Facebook ध्वजः/पताका/स्तम्भः

Like us on Facebook - better use Facebook पुटं अनुमोदस्व/अनुमुद्यताम् - not Facebook पुटं इच्छतु - which is literal for desire (to want something).

Call someone (over the phone) = better use (दूर)भाषे संपर्कं करोमि/साधयामि rather than आह्वयामि

Every language has its own way of usage. English has its own structures, like the examples above, and they produce their meaning like that in that language. Sanskrit has its own.


Quote by Kate Grenville:
Each language has its own take on the world. That's why a translation can never be absolutely exact, and therefore, when you enter another language and speak with its speakers, you become a slightly different person; you learn a different sort of world.
(From: https://www.brainyquote.com/quotes/kate_grenville_727076)

Saturday, March 24, 2018

Ramayana - Some Interesting Facts

वाल्मीकिरामायणे आसीतापहरणपट्टाभिषेकपर्यन्तं कथासंग्रहः
(Collection of interesting facts from Seeta's abduction to Rama's coronation in Valmiki Ramayana)
वाल्मीकिरामायणे नैकेषु स्थलेषु श्रीरामस्य विष्णुदैवत्वमतिस्पष्टतया विदितमुक्तं चास्ति | सीतायाः लक्ष्मीत्वमपि | तथापि पितामहब्रह्मणा रावणाय प्रदत्तं देवदानवावध्यत्वमाद्रियमाणः परब्रह्म भगवान् विष्णुः मानुषरूपेण भूलोके अवततार | "परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय संभवामि युगे युगे" इति कृष्णावतारे जोघुष्यमाणः महाविष्णुः रामावतारे तु देवतागणैः स्तूयमानोऽपि "आत्मानं मानुषं मन्ये रामं दशरथात्मजं..." इति कथयन् संपूर्णमानुषत्वं प्रदर्शयति |

निष्पापजनपीडालोलुपः लङ्कापतिरावणः जानकीहरणकन्दरपतितः पापपर्वतोत्तुङ्गमवाप | प्राणप्रणयिनीं मार्गयमाणः सलक्ष्मणः श्रीरामः विभीषणसुग्रीवमरुदादिभिः यातुधाननगरीं प्राप्य निशाचरपमावहार्थं जुहुवे | ततस्सञ्जातं परमभीकरयुद्धं रावणहननं जगज्जनितं वाल्मीकिरामायणे सविस्तरमाख्यातमेव |

रावणवधबीजं स्त्रीमूलं सीताहेतुजातमिति बहवः कथयन्ति | परन्तु शूर्पणखायाः निस्त्रपाटोपभ्रष्टचेष्टाः एव एतन्महायुद्धकारणा इति दरीदृश्यते | विकृताङ्गस्वसुः पापवचनैरुद्दीप्तमनाः रावणः प्रतीकारबुद्धिरभूत् | कम्पननामकात् सेनापतिमुखात् खरदूषणादिहनने रामबलमाकर्ण्य उदासीनोभवत् | ततःपुनः शूर्पणखाप्रलपनात् सः स्वबन्धुं मारीचं प्राप्य साहाय्यं ययाचे | रामबाणपरिणामसुविज्ञातः मारीचः रावणं समुपदिश्य लङ्कां निवर्तयामास | तच्छ्रुत्वा शूर्पणखाक्रन्दनं गुरुतरमसह्यं च जातम् | कुलघ्नप्रायं सीतहरणनिश्चयं कृत्वा पौलस्त्यः पुनः मारीचेन मिलित्वा प्रसभं योजनां रचयामास | स्वर्णमृगो मारीच एवेति लक्ष्मणेनोक्तोऽपि सुवर्णमृगलालसयापहृतचेतया जानक्या प्रचोदितः रामः मायामृगमार्गयमाणोऽन्वधावत् | ततः सीताकठोरवचनाल्लक्ष्मणोऽप्याश्रमान्निर्गतः | तदेवावसरं नीरिक्ष्य रूपान्तरे भैक्ष्यं याचमाने रावणे सीता विमलमना सत्कारपूर्वकं रामवृत्तान्तमशेषेणाकथयत | रावणेनापहृतां मित्रवधूं प्रपश्य खगोत्तमः जटायुर्विव्हलः राक्षसेन युद्धं कृत्वा व्रणितः मरणप्रायो जातः | तस्मिन्नवसरे ततः पलयमानां सीतां भीतां राक्षसेन्द्रः पुनराकृष्याकाशमार्गेण लङ्कामवाप | तत्र तां स्वभवने स्थापयित्वा मृदुवचनैः प्रसादयितुं यतित्वा विफलीभूतः रावणः सीतामशोकवनं निर्यायितवान् |

एतस्मिन्नन्तरे सलक्ष्मणः रामः वैदीहीमन्विष्यन् रक्तसिक्तवदनं धराशायीं जटायुमवलोक्य तत्पक्षिणैव सीता भक्षितेति संदिहन् तं हन्तुमुद्युक्तः | तदा पक्षिणो मुखाद्दशरथमर्मरमाकर्ण्य विस्मितः रामः तं सान्त्वयित्वा सीताहरणविषयेऽपि मनागवागच्छत् | तदनन्तरं पम्पाप्रदेशे हनुमन्मेलनप्रीतः रामः क्षरजपुत्रस्य सुग्रीवाग्रजस्य वालिनः वधाञ्चकार | सुग्रीवाज्ञया चोदिताः हरिगणाः दिक्षु सर्वासु परिभ्रमन्तः दक्षिणसमुद्रतीरे जटाय्वाग्रजेन सम्पातिना सीतादेव्याः स्थानं श्रुत्वा परिहृष्टा बभूवुः |

पवनसुत आञ्जनेयो महाजलधिं लङ्घित्वा सीतदर्शनकृतकृत्योऽभिज्ञानसहितः लङ्कादहनसन्नादः पुनराजगाम ऋष्यमूकं रामसमीपम् | रामलक्ष्मणसुग्रीवाङ्गदनलनीलजाम्बवद्धनूमदूर्मिभिरलंकृता हरिवाहिनी सुग्रीवनगरात् प्रस्थाप्य वरुणालयस्योत्तरतीरमासादयामास | तत्रागतः रावणानुजो विभीषणः रामाश्रयमुपापद्यत | रामक्रोधाद्भीतेन वरुणदेवेनादिष्टः वानरप्रमुखो नलः समुद्रोपरि महासेतुं निर्ममौ | जलं तीर्त्वा दशकोटिसंख्याका वानराः युद्धाय सिद्धा अतिष्ठन् | ततस्सञ्जाते सङ्ग्रामे प्रहस्तादयः राक्षसगणप्रमुखाः मृत्युमुखा अभवन् | तदा मायायुद्धनिपुणः रावणसुतः इन्द्रजित् रणाङ्गणेऽवतीर्य वानरान् बहुधा सम्पीडयन् रामलक्ष्मणावपि युद्धभूमौ पातयित्वा तौ नागपाशेन बबन्ध | सः शक्रारिः विमाने सीतामानय्य तद्दृश्यमदर्शयत | हताशा सीता परिक्रोशन्ती राक्षसीष्वेकया समाश्वासनमलभत | रामलक्ष्मणयोर्बन्धः गरुडदेवेन मोचितः |

अमोघशक्तिसंचयनार्थं इन्द्रजिति निरते सति रावणः स्वयं समराङ्गणमागत्य पराक्रममद्भुतवीर्यं प्रदर्शयन् सर्ववानरवीरान् त्रासयामास | लक्ष्मणः रावणेन घातितो निश्चेष्टितोभवत् | तदा लक्ष्मणं बाहुशक्त्या उत्थाप्य अपहर्तुं प्रयतमानः रावणः विफलो बभूव | मारुतेर्मुष्टिप्रहारात् रुधिरं वमन् रावणः पराङ्मुखोभवत् | तदनन्तरं रावणिः पुनः युद्धभूमिं प्रविश्य बलवद्भिरस्त्रैः संपूर्णकपिसैन्यं क्षोभायमानः रामलक्ष्मणौ संज्ञाविहीनावकुरुत | वानरवैद्यसुषेणेच्छानुसारेण ओषधीरवचेतुं पवनात्मजः हिमालयप्रदेशं प्रति उत्पुप्लुवे | विलम्बमनिच्छन् महामतिस्सः सुमहापर्वतखण्डमेव हस्ते गृहीत्वा प्रत्यागमत् | ओषधिप्रभावेण प्रबोधितौ राघवभ्रातरौ दृष्ट्वा कपिसेना हर्षोल्लासेन ननाद | सीताराममिलनोत्सुकाः वानरवीराः रात्रिसमये लङ्कानगरीं प्रविश्य तस्य बहुभागमग्निसाच्चक्रुः |

क्रोधमूर्छितेन रावणेन शयनादुत्थापितः रणङ्गमो महागात्रः कुम्भकर्णोपि युद्धे रामेण मारितः | ततश्शक्रजिदपि भयङ्करयुद्धे लक्ष्मणेन हतः | तद्वार्तामाकर्ण्यासमाहितावगुणमूर्खा शूर्पणखा रावणमुपगम्य रणे तस्यापयशमुद्दिश्य भर्त्सनवाक्यानश्रावयत् | नष्टबन्धुबान्धवः स्वसृभर्त्सनकर्शितः दशाननस्तदा प्राणपण्यं युद्धं कर्तुं निरचिनुत | ब्रह्ममहेश्वरेन्द्रादिदेववृन्दः महर्षिगणश्च रामरावणयोर्युद्धं दिदृक्षवः अम्बरे समाविष्टाः | रक्षसाधिपः वीरोचितयुद्धं कुर्वाणः मन्त्रास्त्रप्रयोगबलात् शत्रुगणे हाहाकारमवर्धयत | दशाननप्रयुक्तेन विशिष्टबलसमन्वितेन शक्त्यस्त्रेण रामानुजः मूर्छितः | रामे विलपिते सति सुषेणेन पुनरुक्तो हनुमान् सत्वरेण पुनरेकवारं हिमगिरिं प्राप्य गिरिभागमानयत् | तद्वनस्पतिकारणाल्लक्ष्मणो जातस्सलक्षणः |
सर्वलोकाधिरामे विजिगीषमाणः सुराधिपतिरिन्द्रः स्वामिसेवार्थं स्वरथं सारथिमातलियुक्तं प्रेषयामास | श्रीरामः तद्रथोत्तमं प्रणम्य रथोपस्थः अरुणोदितभानुरिव विरराज | इन्द्रध्वजरामस्य मुण्डध्वजरावणस्य संघर्षस्तत्तुमुलोभवत् | निशितैः रामेषुसहस्रैः प्रव्यथितः राक्षसः रथे निपपात | स्वस्वामिनः दुस्थितिमवेक्ष्य रावणसारथिः रथमपानयत रणाङ्गणात् | अचिरेण लब्धसंज्ञः राक्षसपतिः रणोपरमयमानं स्वसारथिं भृशं तर्जयामस | युद्धक्षेत्रं पुनः प्राप्य तपोबलप्राप्तानि नानाविधान्यस्त्राणि प्रकटयितुमारभत | तदा अगस्त्यमुनिः श्रीरामं विजयप्रदायकम् आदित्यहृदयस्तोत्रमुपादिशत् | शत्रुविनाशकं सूर्यदेवताकस्तोत्रमनुसन्दधच्छ्रीरामः तीक्ष्णसायकेनैकेन रावणहृदयभेदनमकरोत् | रावणभयान्मुक्ताः तुतोक्षमाणाः देवर्षिगणाः रामं संस्तुष्टुवुः | रामोऽपि इन्द्रेण सर्वान् मृतवानरान् पुनरुज्जीवयामास |
रामस्तदनन्तरं रावणस्य और्ध्वदैहिकक्रियां कारयित्वा विभीषणाय लङ्काधिपत्यं प्राददात् | रामादेशात् जानकी स्नात्वा शुभवस्त्राद्यलंकृता बाष्पनेत्रगद्गदा राममुपागमत् | पुरुषोत्तमरामेण रावणे निर्जिते यथेष्टं गन्तुमुक्ता सा अनिन्दिता स्वेच्छया अग्निप्रवेशं चकार | प्रकटीभूतेनाग्निदेवेन परमपवित्रेति उद्घोषितया सीतया तथा विभीषणवानरादिभिस्सह श्रीरामः पुष्पकविमानमारुह्य अयोध्यानगरीं प्राप्य पुरजनैः समादृतः सुमुहूर्ते ससीतः पट्टाभिषिक्तोऽभवत् |
रामाय रामभद्राय रामचन्द्राय वेधसे |
नाथाय रघुनाथाय सीतायाः पतये नमः ||

Saturday, March 3, 2018

Learning to Unlearn - for Sanskrit

When learning a new language, after getting familiar with some common words and basic grammar, one starts getting to know about the idiosyncrasies of that language - the phrases, idioms, the style of usage. While the initial learning of words and grammar can be done through resources like books and the internet, the nuances of the language come with practice and are greatly enhanced by living among the natives of that language. Many times, this step involves unlearning some of the ways in which the learner's native tongue is used. This unlearning could be a big challenge and many times a mental block as the learner's mind is conditioned for a long time. Language learning is influenced by the native culture, as languages are deeply interwoven with the cultures of the people who are native to it.

Learning Sanskrit is no exception to this. There are numerous books - ancient, old and new - available on the subject of grammar and meanings of words. Once those basics are learnt, however, a Sanskrit learner faces a big problem - namely, absence of people whose native language is Sanskrit. Though almost all the languages in India have their origin or relation to Sanskrit, each language has its own distinct and definitive culture. Sanskrit language has a big disadvantage here, as it has no "real speaking natives". So a Sanskrit learner, after the basic learning, is left wondering on how to go about the next steps of learning the nuances.

With the given history of Sanskrit's disappearance as a spoken or mass language for quite some time, any efforts to revive the language is bound to be an uphill task, aggravated by the encompassing influence of today's languages and people speaking them. Naturally, change is difficult.

Fortunately, Sanskrit has lots (really lots) of olden (say before 1950) literature still preserved to-date. And that is golden for us. That vast amount of literature gives us the idea of the language usage and its style. The expectation out of the learners and practitioners is to keep an open mind, shed the egos,  respect the language, and stop trying to impose the localized cultures.

All the talk so far would not be complete without some illustrations on how the local cultures are influencing Sanskrit usage in recent times. Here are some examples.
  1. वा: Mostly heard at the end of any question - भवान् गच्छति वा? त्वं पठसि वा? As वा means "or" (alternatively), these sentences mean - (do) you go or? (do) you read or? Instead, it is better to use भवान् गच्छति किम्? त्वं पठसि किम्?
  2. Vibhaktis: The seven types of vibhakti suffixes (declensions) in Sanskrit are used on a noun primarily to indicate the noun's relationship with the action (verb) in a sentence. The style of usage may be different compared to other languages. For example:
    Rama is angry towards Ravana. रामः रावाणाय क्रुध्यति |
    The use of 4th declension on रावण may throw some off.
  3. Showing respect: In most of the Indian cultures, a person is considered to be treated respectfully only if a plural form is used to address the person. If addressed in singular, it is considered disrespectful. But in English language, the singular or plural indicates just the number. It has nothing to do with showing respect. For example: When a president of the nation arrives in the city, it is said "President arrives in the city", not "Presidents arrive in the city". The second sentence clearly means there are more than one presidents. If some respectful attributes need to be added, it could be "Mr. President...", or "His highness..." But the number never changes. Same thing goes with Sanskrit. वचन of a शब्द is just a number indicating the quantity, having no relationship with show of respect. Use of plural word for one person as a mark of respect is not the Sanskrit way. This is a big mental block in the Indian speakers of the recent times. So we hear bizarre usages like: for a teacher comes: अस्माकं गुरवः आगच्छन्ति, for a pontiff speaks: स्वामिनः भाषणं कुर्वन्ति | On the other hand, there is a widespread myth that the word भवान् implies respect and त्वम् does not. On top of that, there are usages heard like: भवन्तः आगच्छन्तु for one person. Double respect! Additionally, there is this Hindi effect too - suffixing a name with जी - मोहनजी, कृष्णाजी, सीताजी, especially while addressing.
  4. स्वागतीकरोमि: Sanskrit has these not very uncommon usages like स्वच्छीकरोमि, भस्मीकृत्य, शुद्धीकुरु, सज्जीभव etc. Such usages are clearly defined in Sanskrit grammar. Let us take an example in a sentence. अहं वाहनं स्वच्छीकरोमि | Meaning: I clean the vehicle. It is implied that the vehicle was not clean, and becomes clean. Note that it is the वाहनं which is turning (into the state of) स्वच्छ. Similarly, त्वं सज्जीभव - you become ready - meaning you (त्वम्) are not ready (सज्ज), but you turn ready. That is how this usage works. However, incorrect usages like एकत्रीकरोमि, स्वागतीकरोमि are in seen and heard. अहं फलानि एकत्रीकरोमि - I turn fruits into (a thing/state called) एकत्र (at one place, not oneness). अहं अतिथिं स्वागतीकरोमि - I turn the guest into welcome. Oops! Not desirable for the guest.
  5. Past tense alternates: Sanskrit is a language where every letter, every sound has its purpose. In this fast-paced world, many students go through fast-paced introductions to Sanskrit, with the usages such as गतवान्, उक्तवती (क्तवतु forms) as the replacements for actual past tense verb forms as अगच्छत्, अवदम्. The challenge here is that most of these learners find it difficult to transition from क्तवतु forms to the verb forms and remain under the impression that those forms totally mean the same thing. What is the problem in using them interchangeably? क्तवतु forms are adjectives to nouns. Let us take an example:
    बालकः शालां गतवान् | In this case, the verb अस्ति is assumed and the complete sentence becomes बालकः शालां गतवान् अस्ति which may be translated as the boy has gone to the school. Where as with the verb form - बालकः शालाम् अगच्छत् may be translated as the boy went to the school. The usage बालकः शालां गतवान् आसीत् is also correct, which would mean the boy had gone to the school or the usage बालकः शालां गतवान् भविष्यति which would mean the boy would be going to the school. These usages are possible because गतवान् is the adjective of बालक and the actual verb could be in any tense - अस्ति, आसीत् or भविष्यति. Compare this with बालकः शालाम् अगच्छत् - which is purely in the past tense. Other example:
    अहं देवालयम् आगतवान् अस्मि - I have come to the temple. अहं देवालयम् अगच्छम् - I went to the temple.
    In most of the works written and published recently, क्तवतु forms are seen to be the only words used to represent the past tense, thankfully sparing आसीत् अभवत्. 
  6. Present tense mess up: If that was about the past tense traps, the botch up with present tense is even bigger. This time with शतृ and शानच् forms. Example: बालकः गच्छन् अस्ति | रामः वदन् आसीत् | पिता वीक्षमाणः अस्ति | - supposed to mean: boy is going, Rama was talking, father is looking. Such incorrect usages stem from the fact that the Indian regional languages have different usage forms for present/past/future continuous tense,  whereas Sanskrit does not. In Sanskrit, there is only one present tense form. So to get that feeling of continuity, such combination of शतृ/शानच् with the verb root अस्  are coined. These usages are so widespread that even some of the grammarians somehow try to find support in grammatical treatises for such usage. But one only has to only look at the literature (contemporary to the age when Sanskrit was in vogue). It also helps to understand how the शतृ and शानच् suffixes are applied. Note that शतृ and शानच् word forms are adjectives. These are to be used as attributes of the doer (कर्ता) in conjunction with another action being performed by the doer. For example:
    रामः गच्छन् वदति = गच्छन् रामः वदति = रामः गच्छति, रामः वदति | Rama, who is going, speaks. Note that the going action happens in the same tense as that of the speaking action.
    पिता वीक्षमाणः अहसत् = वीक्षमाणः पिता अहसत् = Father, who was looking, laughed. Note that the looking action happens in the same tense as that of laughing.
    So, what do the following sentences mean then?
    बालकः गच्छन् अस्ति = बालकः गच्छति, बालकः अस्ति = Boy, who is going, is (just exists).
    रामः वदन् आसीत् = वदन् रामः आसीत् = Rama, who was speaking, was.
    पिता वीक्षमाणः अस्ति = Father, who is looking, is.
    Does not make sense. अस्ति is useless in these sentences and they should just be बालकः गच्छति, रामः अवदत्, पिता वीक्षते.
The present age is fortunate enough to have many great Sanskrit grammarians and literary minds. But they need not be passive onlookers in the pretext that the language is owned and developed by people and correcting the usage is not their purview. But those days of Sanskrit are gone, well in the past. No native speakers now. While the zeal of the Sanskrit enthusiasts is commendable, let our guide be the unadulterated, beautiful Sanskrit literature and its heritage. We can do it, together.
|| ॐ असतो मा सद्गमय ||

Thursday, January 25, 2018

Bhishma Story in Short - संक्षिप्तभीष्मकथा

पत्न्या चोदितः द्युनामकवसुः ब्रह्मर्षिवसिष्ठस्य कामधेनुं चोरयामास | ततः वसिष्ठशापग्रस्तः वसुः स्वर्गच्युतः भूमौ अवततार | देवव्रत इति नामाङ्कितः तस्य जननी महाशिवशिरोभूषिता गङ्गादेवी | कुरुवंशजः हस्तिनापुरस्य राजा शन्तनुः तस्य जनकः | तस्य जननसमये एव गङ्गादेवी कारणान्तरेण शन्तनुं परित्यज्य स्वधामं स्वर्लोकं निर्जगाम | बाल्यकाले देवव्रतः देवगुरुबृहस्पतिप्रभृतिभ्यः वेदादिशास्त्राध्ययनं कृतवान् | भगवतः परशुरामात् सर्वशस्त्रास्त्रपारंगतो बभूव |

विद्याभ्यासानन्तरं देवव्रतः शन्तनुराजेन सह हस्तिनापुरे वसति स्म | एकदा नदीतीरविहाररतः शन्तनुः दाशराजकन्यायां सत्यवत्यां अनुरक्तो बभूव | परन्तु सत्यवतीसंतानमेव हास्तिनपुराधिपः भूयादिति दाशराजवचनात् परित्रस्तः शन्तनुः खिन्नो विवाहविमुखश्च जातः | पितुः मनोदशामवगत्य शान्तनवः दाशराजं प्राप्य सत्यवत्यपत्याय राजपदवीप्रदानं तथा स्वयमाजीवनब्रह्मचर्यव्रतपालनमिति भीषणप्रतिज्ञाद्वयं घोषयाञ्चकार | तद्दिनात् सः भीष्मः इति प्रख्यातोऽभवत् | सत्यवत्या विवाहितश्शन्तनुः पुत्र अतिप्रसन्नः भीष्माय इच्छामरणवरमददात् |

शन्तनौ दिवङ्गते भीष्मः सत्यवतीपुत्रं विचित्रवीर्यं सिंहासने अभिषिच्य तस्य विवाहमपि कारितवान् | विचित्रवीर्येऽपि पञ्चत्वंगते तस्य सुतः पाण्डुः राजा बभूव | पाण्डोः निधनानन्तरं तस्याग्रजो दृष्टिहीनो धृतराष्ट्रः राज्यभारमावहत् | भीष्मः पाण्डुपुत्राणां तथा धृतराष्ट्रपुत्राणां साकल्येन शस्त्रशास्त्रविद्याभ्यासं द्रोणाचार्यमुखतः पर्ययोजयत् |

पाण्डवाः धार्तराष्ट्राश्च प्राप्तयौव्वनाः राज्येप्सवः घोरयुद्धं कृतवन्तः | दारुणे तस्मिन् महाविग्रहे सत्यधर्मपालितॄणां पाण्डवानां विजयमिच्छन्नपि द्विपपुरराजनिष्ठः भीष्मः पापनुगामिनि धार्तराष्ट्रपक्षे स्थितः | भीकरसंख्ये अद्भुतपराक्रमं प्रदर्शयन् भीष्मः पार्थसारथिं भगवन्तं श्रीकृष्णमपि विस्मापयामास | दशमे दिने अप्रतिहतः सः स्वेच्छया पाण्डवमध्यमस्य अर्जुनस्य बाणासारेण विक्षतः | संपूर्णशरीरे इषुभिः व्योषितः भीष्मः वीरक्षत्रियोचिते शरतल्पे शयितवान् | इच्छामरणी स उत्तरायणपुण्यकालं प्रतीक्षमाणः भगवद्ध्यानतत्परोऽभूत् |

सङ्ग्रामे विजयीभूताः पाण्डवाः सायकासनं पितामहभीष्ममुपगम्य तस्मात् आशीर्वचनं ज्ञानभिक्षां च प्रायायाच्यन्त | श्रीकृष्णप्रसादात् भीष्मः रुधिरसिक्तोऽपि भाषणक्षमः राजनीत्यादिकानि शास्त्राणि विस्तरेण उच्चचार | तत्सन्दर्भे तस्य मुखकमलात् त्रिलोकपावनं विष्णुसहस्रनामस्तोत्रं समुद्भूतम् | एवं जगदादर्शजीवः भीष्मः माघमासस्य शुद्धाष्टम्यां तिथौ देहत्यागं चकार |