Wednesday, September 21, 2016

Tenali Ramakrishna Story महापण्डितस्य मातृभाषा

तेनालिरामकृष्णकथा
महापण्डितस्य मातृभाषा

Tenali-Raman-Stories.png

षोडशक्रिस्तशतके दक्षिणभारतदेशे कृष्णदेवराय इति महान् राजा आसीत् | तस्य आस्थाने बहवः कवयः पण्डिताः च आसन् | तेषां रामकृष्णः अति प्रख्यातः | राजा अपि तम् आस्थाने चतुरतमः इति आदरं करोति स्म | रामकृष्णस्य प्रति महाराजस्य गौरवभावं दृष्ट्वा अन्ये पण्डिताः असन्तुष्टाः मत्सरमतयः च आसन् |
एकदा एकः महापण्डितः कृष्णदेवरायस्य आस्थानम् आगतवान् | सः पण्डितः सकलशास्त्रज्ञः बहुभाषाप्रवीणः इति देशविदेशेषु प्रसिद्धः आसीत् | सः महाराजस्य पुरतः आगत्य महादर्पेण अवदत् – हे महाराज, तव राज्ये बहवः पण्डिताः सन्ति इति अहं श्रुतवान् | अनेकासु भाषासु मम प्रावीण्यं अस्ति | यदि तव आस्थाने कोऽपि मया सह भाषणं कृत्वा मम निजमातृभाषाम् उपजानाति तर्हि अहं पराजयं स्वीकरोमि, अन्यथा तव आस्थानकवयः निरर्थकाः इति सिद्धः भवति | महाराजस्य आस्थाने अनेके पण्डितजनाः महापन्डितेन सह भिन्नभिन्नभाषासु संवादम् अकुर्वन् | परन्तु महापण्डितः सर्वासु भाषासु बहु सुललितया तैः जनैः सह संभाषणम् अकरोत् | कोऽपि महापन्डितस्य मातृभाषां ज्ञातुं न शक्तः | सर्वे लज्जया नतमस्तकाः अभवन् | तदा रामकृष्णः तं महापण्डितं अपरस्मिन् दिने पुनः आगन्तुम् उक्तवान् | यदा महापण्डितः रात्रौ भोजनं कृत्वा निद्रावशः अभवत् तदा रामकृष्णः तस्य शय्यागृहे आगत्य पण्डितस्य उदरप्रदेशे लघुसूचिकया पीडनम् अकरोत् | निद्रासमये अन्धकारे सूचिकपीडनेन चकितः पण्डितः झटिति उत्थाय स्वमातृभाषायां शब्दान् उक्त्वा उच्चैः आक्रन्दनम् अकरोत् | अपरेदिने महापण्डितः महाराजस्य आस्थानम् अगच्छत् | तदा चतुरः रामकृष्णः तस्य महापन्डितस्य मातृभाषां सर्वेषां पुरतः उदघोषयत् | तदा महापण्डितः नतमस्तकः पराजयम् अङ्गीकृत्य निर्गतवान् | रामकृष्णस्य चातुर्यं महाराजः तत्रस्थाः अन्ये पण्डिताः अपि बहु श्लाघनम् अकुर्वन् | स एव रामकृष्णः तेनालिरामकृष्णः इति अपि लोकप्रसिद्धः अस्ति |

1 comment:

  1. Nice Article, Thank you for sharing a wonderful blog post, I loved your blog post.

    You can also check - Biography of Tenali Ramakrishna

    ReplyDelete