Monday, October 12, 2020

तपोमूल्यम् Value of Penance


पावनावनेः भारतखण्डस्य वङ्गभूमौ नैके महापुरुषाः प्राप्तजन्मानः | परमहंसः रामकृष्णः तेषु अन्यतमः | एकोनविंशे क्रैस्तशताब्दे जीवितः सः महाकालीभक्तः | ध्यानैकतत्परस्य तस्य अणिमादिसिद्धयः हस्तगता इति प्रतीतिरासीत् | तथापि सः कदापि स्वतपोबलं न प्रदर्शयति स्म |

एकदा प्रयाणप्रसङ्गे नदीं तितीर्षुः रामकृष्णः नदीतीरं प्राप्नोत् | तदानीमेव महायोगी एकः तत्र आगमत् | रामकृष्णः नाविकाय आतररूपं रूप्यकमेकं दत्त्वा नौकया कूलान्तरं प्राप्नोत् | परन्तु सः योगी तु स्वयोगबलात् जलोपरि चलित्वा अन्यत् तीरं प्राप्तः | योगिनः तद् अद्भुतकार्यं दृष्ट्वा जना मूकविस्मिता जाताः | गर्वितमनाः सः योगी रामकृष्णं प्रति विकत्थमानः उवाच - "दृष्टं भोः मम जलोपरि गमनम्? त्रिंशद्वर्षैः उग्रतपोभिः साधितमेतत् सामर्थ्यं मया | तव योगसाधनेन किं प्रयोजनम्?"

तच्छ्रुत्त्वा स्मयमानो रामकृष्ण उवाच - "हे योगिमहाशय, यद्भवता महता कष्टेन साधितं जलतरणं तस्य मूल्यं केवलं रूप्यकमेकम् | जीवनस्य बहुमूल्यसमयं व्यतीत्य त्वं निष्प्रयोजकविद्यां प्राप्तवान् | तदेव समयः भगवच्चिन्तने संगच्छते चेत् जन्म एव सार्थकं भवति" |

व्रीडितो योगिवर्यः ततः नतमस्तकः निर्जगाम |

English translation:
In the Bengal area of the holy Indian continent, many great people were born. Paramahamsa Ramakrishna was one of them. He lived in the 19th CE and was a devotee of Goddess Mahakali. He was always focused in meditation and it was known that he had many mystical powers. Even then, he never used to show his special powers.

Once, during a journey, desiring to cross a river, Ramakrishna reached the river bank. At the same time, a great yogi came there. Ramakrishna gave one rupee as a fee, and reached the other side of the river by a boat. But that yogi with his yogic power, walked on the water and reached the other shore. Seeing the astonishing act of the yogi, the people were awestruck. Full of pride, the yogi boastingly said to Ramakrishna - "Did you see me walking on the water? This ability was attained by me after thirty years of heard penance. What is the use of your yogic meditation?"

Hearing that, Ramakrishna said smilingly - "Hey great yogi, the walking-on-water that you achieved by great difficulty is worth only one rupee. After spending  great valuable time of life, you obtained a worthless knowledge. If you spend the same amount of time in the spiritual thoughts, your life itself would be meaningful".

Ashamed, the yogi went away from there with his head hanging down.

Thursday, October 1, 2020

लालबहादुरशास्त्री Lal Bahadaur Shashtri

 


राष्ट्रप्रधानी द्वितीयोसावद्वितीयो राजशासने |

लालोयं भरतखण्डस्य यवदुग्धप्रवृद्धिकरः ||

जयतु योधः कृषीवलो रणघोषेणारिमर्दनः |

वामनमूर्तिर्महाकीर्तिर्निस्स्वार्थी च भारतरत्नः ||


पदच्छेदः

राष्ट्रप्रधानी द्वितीयः असौ अद्वितीयः राजशासने |

लालः अयम् भरतखण्डस्य यवदुग्धप्रवृद्धिकरः ||

जयतु योधः कृषीवलः रणघोषेण अरिमर्दनः |

वामनमूर्तिः महाकीर्तिः निस्स्वार्थी च भारतरत्नः ||

सरलार्थः

He was nation's (India's) second prime minister, but was second to none in governance. This Lal was improver of grains and milk (sectors in India).
With the war cry of "hail to the soldier, hail to the farmer", he defeated the enemy (in the war of 1965). His physical stature was small, but fame was big. He was not selfish. He was a diamond of India (was awarded Bharata Ratna - the highest civilian award of India).

Sunday, September 27, 2020

महाभारतसंग्रहः-भागः २ Mahabharata Summary-Part 2

पाण्डवाः द्रौपद्या सह पाञ्चालदेशतः हास्तिनपुरं प्राप्तवन्तः | राजा धृतराष्ट्रः तेभ्यः खाण्डवप्रस्थप्रदेशं दत्तवान् | यद्यपि तत्र वनम् आसीत् तथापि पाण्डवाः तत्र इन्द्रप्रस्थनगरस्य निर्माणं कृतवन्तः | नूतननगरे पाण्डवाः राजसूययागं कृतवन्तः | भीमः जरासंधं मारितवान् | पाण्डवाः संपूर्णभारते विजयं प्राप्तवन्तः | यदा यागसमये ते श्रीकृष्णं पूजितवन्तः तदा शिशुपालः पाण्डवान् श्रीकृष्णं च निन्दितवान् | तदा श्रीकृष्णः चक्रेण शिशुपालं मारितवान् |

कौरवाणाम् अपेक्षया पाण्डवानाम् ऐश्वर्यम् अधिकम् आसीत् | अतः दुर्योधनः पाण्डवान् द्यूतक्रीडार्थम् आहूतवान् | पाण्डवाः पराजिताः यतः दुर्योधनस्य मातुलः शकुनिः कपटः आसीत् | यदा कौरवसभायां द्रौपदीदेवी अपमानिता तदा श्रीकृष्णः तां रक्षितवान् | आगामियुद्धे सर्वान् कौरवान् मारयामि इति भीमः प्रतिज्ञां कृतवान् | यथा द्रौपदी प्रार्थितवती तथा धृतराष्ट्रः पाण्डवेभ्यः राज्यं पुनः दत्तवान् | परन्तु दुर्योधनः पाण्डवान् द्यूतार्थं पुनः आहूय तान् जितवान् | यथा क्रीडानियमः आसीत् तथा पाण्डवाः द्वादशवर्षकालं वनवासं कृतवन्तः | वनवासकाले अर्जुनः शङ्करेण पाशुपतास्त्रं प्राप्तवान् | सः इन्द्रलोकं गत्वा नृत्यविद्याभ्यासं कृतवान् | भीमः मारुतिना सह मिलितवान् | सः अनेकान् राक्षसान् मारितवान् |

त्रयोदशे वर्षे पाण्डवाः विराटनगरे गुप्तरूपेण उषितवन्तः | अज्ञातवासकाले यदि पाण्डवानां परिचयः भवति तर्हि पुनः वनवासः भवति इति नियमः आसीत् | विराटनगरे यः कीचकं मारितवान् सः भीमः एव इति कौरवाः चिन्तितवन्तः | पाण्डवान् द्रष्टुं ते विराटनगरं प्राप्तवन्तः | परन्तु यदा कौरवाः विराटनगरं प्राप्तवन्तः तदा पाण्डवानाम् अज्ञातवासः समाप्तः अभवत् |

पाण्डवानां राज्यं दातुं दुर्योधनः निराकृतवान् | कौरवपाण्डवयोः मध्ये अष्टादशदिनकालं युद्धम् अभवत् | युद्धस्य आरम्भकाले यदा अर्जुनः मम विजयः वा पराजयः वा भवतु, परन्तु युद्धं न करोमि इति उक्तवान् तदा श्रीकृष्णः भगवद्गीताम् उपदिष्टवान् | युद्धे भीष्मः पतितवान् | यावत् उत्तरायणकालः न आगच्छति तावत् शरशय्यायां तिष्ठामि इति भीष्मः उक्तवान् | यथा भीमः उक्तवान् आसीत् तथा सः सर्वान् कौरवसहोदरान् युद्धे मारितवान् | श्रीकृष्णस्य साहाय्येन पाण्डवाः विजयं प्राप्तवन्तः | युद्धानन्तरं पाण्डवाः श्रीकृष्णः च यत्र भीष्मः आसीत् तत्र गतवन्तः | भीष्मः विष्णुसहस्रनामस्तोत्रेण श्रीकृष्णं पूजितवान् | पाण्डवाः षट्त्रिंशतिवर्षकालं धर्मेण राज्यं पालितवन्तः | यदा श्रीकृष्णस्य अवतारकार्यं समाप्तं तदा पाण्डवाः अपि स्वर्गारोहणं कृतवन्तः |

यदा यदा हि धर्मस्य ग्लानिः भवति भारत |
अभ्युत्थानम् अधर्मस्य तदा आत्मानं सृजामि अहम् || (भगवद्गीता ४.७)

यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः |
तत्र श्रीविजयः भूतिः ध्रुवा नीतिः मतिः मम || (भगवद्गीता १८.७८)


Thursday, September 17, 2020

महाभारतसंग्रहः-भागः १ Mahabharata Summary-Part 1


हास्तिनपुरस्य महाराजः पाण्डुः आसीत् | यदा पाण्डुः ऋषिशापात् वनं गतवान् तदा तस्य भ्राता धृतराष्ट्रः राजा अभवत् | पाण्डोः भार्याद्वयम् - कुन्ती माद्री इति | वने एव कुन्त्याः त्रयः पुत्राः जाताः | माद्र्याः द्वौ पुत्रौ जातौ | ते पञ्चपाण्डवाः इति प्रसिद्धाः | धृतराष्ट्रस्य अपि शतं पुत्राः जाताः | ते कौरवाः इति ख्याताः | वने यदा पाण्डुः माद्री च मरणं प्राप्तवन्तौ तदा कुन्ती पुत्रैः सह हास्तिनपुरम् आगतवती | तत्र पाण्डवानां कौरवाणां च शस्त्राभ्यासः अभवत् | कौरवाणाम् अपेक्षया पाण्डवानां बलम् अधिकम् आसीत् | कौरवज्येष्ठः दुर्योधनः लाक्षागृहे पाण्डवान् मारयितुं प्रयत्नं कृतवान् | कुन्त्या सह पाण्डवाः गृहात् बहिः आगत्य वनं प्रविष्टवन्तः | वने पाण्डवश्रेष्ठः भीमः हिडिम्बासुरस्य वधं कृतवान् | ततः पाण्डवाः एकचक्रनगरं प्राप्तवन्तः |


यदा पाण्डवाः एकचक्रनगरे वसन्ति स्म तदा कुन्ती ब्राह्मणकुटुम्बस्य रोदनं श्रुतवती | यदा सा ब्राह्मणं कारणं पृष्टवती तदा सः ब्राह्मणः उक्तवान् - “बकासुरस्य भोजनाय मम कुटुम्बे कः गच्छति इति चिन्ता भवति” | कुन्ती उक्तवती - “चिन्ता मास्तु | अहं मम पुत्रं भीमं प्रेषयामि यतः सः बलवान् अस्ति | सः गच्छति चेत् बकासुरस्य मरणं निश्चयेन भविष्यति” | यथा कुन्ती उक्तवती तथा भीमः शकटे अन्नं स्थापितवान् | यत्र बकासुरस्य गुहा आसीत् तत्र सः गतवान् | यावत् बकासुरः गुहायाः बहिः न आगतवान् तावत् भीमः अन्नं खादितवान् | बकासुरः बहिः आगत्य भीमम् उक्तवान् - “यदि भवान् मह्यम् अन्नं न ददाति तर्हि अहं भवन्तं खादामि |” भीमः सर्वम् अन्नं खादितवान् | भीमः बकासुरं मारितवान् |


यः मत्स्ययन्त्रस्य भेदनं करोति सः द्रौपद्या सह विवाहं करोति इति पाण्डवाः श्रुतवन्तः | ते यत्र द्रौपदीदेव्याः स्वयंवरः आसीत् तत्र गतवन्तः | कौरवाः अपि तत्र आगतवन्तः | यदा कर्णः आगतवान् तदा द्रौपदी उक्तवती - “कर्णेन सह विवाहं न करोमि यतः सः सूतपुत्रः अस्ति” | पाण्डवमध्यमः अर्जुनः मत्स्ययन्त्रस्य भेदनं कृतवान् | यथा कुन्ती उक्तवती तथा द्रौपद्याः विवाहः पञ्चपाण्डवैः सह अभवत् |


Monday, September 14, 2020

M.Vishveshvarayya तन्त्रज्ञशिरोमणिः विश्वेश्वरय्यः

 मोक्षगुण्डं विश्वेश्वरय्य इति विश्वविख्याततन्त्रज्ञः १८६०तमे क्रैस्ताब्दे सप्टेंबरमासस्य पञ्चदशदिनाङ्के अजायत | सः आङ्ग्लभारते महिषूरुराज्यस्य (State of Mysore) प्रधानसचिवपदवीं समलङ्कृतवान् | आङ्ग्लसर्वकारेण "सर्" उपाधिना गौरवान्वितः  | स्वातन्त्र्योत्तरभारते शतायुषी सः भारतरत्नभूषितः | श्रमजीविनः तस्य शतशः तान्त्रिककार्याणि देशविदेशेषु प्रसिद्धानि अद्यत्वेपि जनोपयोगीनि वर्तन्ते | तस्य जन्मदिनं तन्त्रज्ञदिवसः इति आचर्यते |

विश्वेश्वरय्यः कर्णाटजातो महिषूरुमन्त्री तन्त्रप्रवीणः |
स्थापत्यशास्त्रे लोकाग्र्यगण्यः स्ववृत्तिधर्मे ह्यादर्शप्रायः ||

अब्बन्धनानां निर्माणकर्ता यन्त्रोद्यमानां भूयो विधाता |
देशान्तरेषु बहुकार्यकारी भारतरत्नो बिरुदाङ्कधारी ||

Thursday, August 20, 2020

युद्धकाण्डसंग्रहः - Summary of Yuddhakandam

 

मारुतिः लङ्कानगरात् प्रत्यागतवान् | रामः सीतायाः वृत्तान्तं शृत्वा दुःखितः अभवत् | रामः वानरसैन्येन सह समुद्रतीरं प्राप्तवान् | तत्र लङ्कानगरे रावणस्य अनुजः विभीषणः आसीत् | सः रावणम् उदितवान् - “रामस्य बाणः राक्षसकुलस्य नाशं करिष्यति | भवान् रामं शरणं गच्छतु” इति | परन्तु रावणः तस्य वचनं न श्रुतवान् | विभीषणः रामस्य समीपं गतवान् | वानरसेना समुद्रस्य उपरि सेतुबन्धनं कृतवती | रामः सैन्येन सह लङ्काद्वीपं प्रविष्टवान् | वानरराक्षससैन्ययोः मध्ये युद्धम् आरब्धम् अभवत् | अनेके वानराः राक्षसाः च वीरगतिं प्राप्तवन्तः | रावणपुत्रस्य मेघनादस्य मायायुद्धेन रामलक्ष्मणौ पतितवन्तौ | पक्षिराजः गरुडः तत्र आगत्य तौ भ्रातरौ स्पृष्टवान् | गरुडस्य स्पर्शेन रामलक्ष्मणौ पुनः हर्षं लब्ध्वा युद्धाय सिद्धौ अभवताम् | रावणः स्वयं रणरङ्गम् आगतवान् | मारुतेः मुष्टिप्रहारात् रावणः मूर्छितः अभवत् | पुनः सः उत्थाय युद्धं कृतवान् | मारुतेः स्कन्धे उपविश्य रामः रावणस्य रथस्य शस्त्राणां च नाशं कृतवान् | रावणः लज्जया स्वभवनं गतवान् | अनन्तरं रावणः युद्धाय अनुजं कुम्भकर्णं प्रेषितवान् | रामः कुम्भकर्णं मारितवान् | मेघनादः युद्धाय पुनः आगतवान् | तस्य ब्रह्मास्त्रेण रामलक्ष्मणौ पुनः पतितवन्तौ | तदा मारुतिः हिमालयं गत्वा ओषधिपर्वतम् आनीतवान् | ओषधिप्रभावात् रामलक्ष्मणौ सचेतौ अभवताम् | मारुतिः पुनः लङ्घयित्वा ओषधिपर्वतं तस्य स्थाने स्थापितवान् | पुनः युद्धस्य आरम्भः अभवत् | लक्ष्मणः मेघनादं मारितवान् | रावणः युद्धे लक्ष्मणं घातितवान् | लक्ष्मणः मूर्छितः अभवत् | मारुतिः पुनः हिमालयप्रदेशं गत्वा ओषधिपर्वतम् आनीतवान् | तस्य प्रभावेन लक्ष्मणः उत्थितवान् | देवेन्द्रः रामाय दिव्यरथं प्रेषितवान् | रामः रथे स्थित्वा रावणेन सह युद्धं कृतवान् | युद्धे रामः रावणं मारितवान् | रामः विभीषणं लङ्कायाः राजपदे स्थापितवान् | मारुतिः आकाशमार्गेण अयोध्यां गतवान् | “रामः शीघ्रम् अयोध्यां प्राप्स्यति” इति सः भरतं सूचितवान् | रामः परिवारेण सह अयोध्यानगरं प्राप्तवान् | अयोध्यायां रामस्य राज्याभिषेकः अभवत् |

Thursday, July 9, 2020

अरण्यकाण्डसंग्रहः - Summary of Aranyakandam



रामः लक्ष्मणेन सीतया च सह दण्डकारण्यं प्रविशति । तत्र अरण्ये विराधः नाम राक्षसः वसति । विराधः सीतायाः अपहरणाय प्रयत्नं करोति । रामलक्ष्मणौ विराधेन सह युध्यतः । विराधः मरणं प्राप्नोति । रामः बहुभिः ऋषिभिः सह मिलति । सः अगस्त्यमुनिना सह अपि मिलति । मुनेः वचनात् रामः लक्ष्मणः सीता च पञ्चवटीप्रदेशं प्राप्नुवन्ति । तस्मिन् सुन्दरे प्रदेशे सुन्दर्याः नद्यः सुन्दराणि पुष्पाणि च भवन्ति । तत्र आश्रमे ते सुखेन निवसन्ति । शूर्पणखा रावणस्य भगिनी । एकदा सा पञ्चवटीम् आगच्छति । सा रामस्य रूपे अनुरक्ता भवति । रामेण निराकृता सा लक्ष्मणं प्रार्थयति । लक्ष्मणेन अपि निराकृता शूर्पणखा सीतां प्रति धावति । तदा लक्ष्मणः शूर्पणखायाः नासिकां कर्णं च कर्तयति । शूर्पणखायाः अन्यः भ्राता खरः समीपे वसति । सा भ्रातुः खरस्य समीपं गच्छति । खररामयोः मध्ये युद्धं भवति । रामः खरस्य उपरि बहून् बाणान् मुञ्चति । राक्षसः खरः मरणं प्राप्नोति । शूर्पणखा रावणाय सर्वं वृत्तान्तं निवेदयति । रावणः मातुलस्य मारीचस्य साहाय्यं प्रार्थयति । रावणस्य भयात् मारीचः सुवर्णमृगस्य रूपं धरति । सीता सुवर्णमृगाय रामं प्रार्थयति । रामः आश्रमात् निर्गच्छति । सः मृगस्य पृष्ठतः दूरं गच्छति । रामः बाणेन मृगं मारयति । मृगः मरणसमये रामस्य ध्वनिं अनुकरोति । सीता तं ध्वनिं शृणोति । “मम पतिः साहाय्यम् इच्छति । तस्य समीपं गच्छतु” इति सीता लक्ष्मणं कथयति । लक्ष्मणः आश्रमात् निर्गच्छति । रावणः संन्यासिरूपं धरति । सः सीताम् आश्रमात् अपहरति । जटायुः नाम खगः दशरथस्य मित्रं तस्मिन् वने वसति । जटायुः रावणेन सह युद्धं करोति । रावणः जटायुं खड्गेन प्रहरति । रावणः सीतया सह लङ्कानगरं प्राप्नोति । तत्र सीतां अशोकवने स्थापयति । रामः लक्ष्मणः च आश्रामं प्रत्यागच्छतः । आश्रमे तौ भ्रातरौ सीतां न पश्यतः । रामः दुःखितः भवति । सीतां वने सर्वत्र अन्विष्यति । एकत्र सः पतितं जटायुं पश्यति । जटायुः रावणस्य वृत्तान्तं कथयति । रामलक्ष्मणौ अग्रे चलतः । तौ वीरौ कबन्धराक्षसस्य उभौ बाहू कर्तयतः । मरणसमये कबन्धः रामं कथयति - “पम्पासरोवरप्रदेशे सुग्रीवः निवसति । तस्य समीपं गच्छतु” । अनन्तरं तौ शबर्याः आश्रमं गच्छतः । रामस्य दर्शनात् शबरी मुक्तिं प्राप्नोति । ततः रामः लक्ष्मणः च पम्पासरोवरप्रदेशं प्रविशतः ।

Meanings of some words:
अनुरक्त = interested
मुञ्चति = releases
साहाय्यम् = help
निराकृत = rejected
अनुकरोति = imitates
एकत्र = at one place
उभौ = both (two)
ततः = thereafter (afterwards)/from there