मारुतिः लङ्कानगरात् प्रत्यागतवान् | रामः सीतायाः वृत्तान्तं शृत्वा दुःखितः अभवत् | रामः वानरसैन्येन सह समुद्रतीरं प्राप्तवान् | तत्र लङ्कानगरे रावणस्य अनुजः विभीषणः आसीत् | सः रावणम् उदितवान् - “रामस्य बाणः राक्षसकुलस्य नाशं करिष्यति | भवान् रामं शरणं गच्छतु” इति | परन्तु रावणः तस्य वचनं न श्रुतवान् | विभीषणः रामस्य समीपं गतवान् | वानरसेना समुद्रस्य उपरि सेतुबन्धनं कृतवती | रामः सैन्येन सह लङ्काद्वीपं प्रविष्टवान् | वानरराक्षससैन्ययोः मध्ये युद्धम् आरब्धम् अभवत् | अनेके वानराः राक्षसाः च वीरगतिं प्राप्तवन्तः | रावणपुत्रस्य मेघनादस्य मायायुद्धेन रामलक्ष्मणौ पतितवन्तौ | पक्षिराजः गरुडः तत्र आगत्य तौ भ्रातरौ स्पृष्टवान् | गरुडस्य स्पर्शेन रामलक्ष्मणौ पुनः हर्षं लब्ध्वा युद्धाय सिद्धौ अभवताम् | रावणः स्वयं रणरङ्गम् आगतवान् | मारुतेः मुष्टिप्रहारात् रावणः मूर्छितः अभवत् | पुनः सः उत्थाय युद्धं कृतवान् | मारुतेः स्कन्धे उपविश्य रामः रावणस्य रथस्य शस्त्राणां च नाशं कृतवान् | रावणः लज्जया स्वभवनं गतवान् | अनन्तरं रावणः युद्धाय अनुजं कुम्भकर्णं प्रेषितवान् | रामः कुम्भकर्णं मारितवान् | मेघनादः युद्धाय पुनः आगतवान् | तस्य ब्रह्मास्त्रेण रामलक्ष्मणौ पुनः पतितवन्तौ | तदा मारुतिः हिमालयं गत्वा ओषधिपर्वतम् आनीतवान् | ओषधिप्रभावात् रामलक्ष्मणौ सचेतौ अभवताम् | मारुतिः पुनः लङ्घयित्वा ओषधिपर्वतं तस्य स्थाने स्थापितवान् | पुनः युद्धस्य आरम्भः अभवत् | लक्ष्मणः मेघनादं मारितवान् | रावणः युद्धे लक्ष्मणं घातितवान् | लक्ष्मणः मूर्छितः अभवत् | मारुतिः पुनः हिमालयप्रदेशं गत्वा ओषधिपर्वतम् आनीतवान् | तस्य प्रभावेन लक्ष्मणः उत्थितवान् | देवेन्द्रः रामाय दिव्यरथं प्रेषितवान् | रामः रथे स्थित्वा रावणेन सह युद्धं कृतवान् | युद्धे रामः रावणं मारितवान् | रामः विभीषणं लङ्कायाः राजपदे स्थापितवान् | मारुतिः आकाशमार्गेण अयोध्यां गतवान् | “रामः शीघ्रम् अयोध्यां प्राप्स्यति” इति सः भरतं सूचितवान् | रामः परिवारेण सह अयोध्यानगरं प्राप्तवान् | अयोध्यायां रामस्य राज्याभिषेकः अभवत् |
Thursday, August 20, 2020
Thursday, July 9, 2020
अरण्यकाण्डसंग्रहः - Summary of Aranyakandam
रामः लक्ष्मणेन सीतया च सह दण्डकारण्यं प्रविशति । तत्र अरण्ये विराधः नाम राक्षसः वसति । विराधः सीतायाः अपहरणाय प्रयत्नं करोति । रामलक्ष्मणौ विराधेन सह युध्यतः । विराधः मरणं प्राप्नोति । रामः बहुभिः ऋषिभिः सह मिलति । सः अगस्त्यमुनिना सह अपि मिलति । मुनेः वचनात् रामः लक्ष्मणः सीता च पञ्चवटीप्रदेशं प्राप्नुवन्ति । तस्मिन् सुन्दरे प्रदेशे सुन्दर्याः नद्यः सुन्दराणि पुष्पाणि च भवन्ति । तत्र आश्रमे ते सुखेन निवसन्ति । शूर्पणखा रावणस्य भगिनी । एकदा सा पञ्चवटीम् आगच्छति । सा रामस्य रूपे अनुरक्ता भवति । रामेण निराकृता सा लक्ष्मणं प्रार्थयति । लक्ष्मणेन अपि निराकृता शूर्पणखा सीतां प्रति धावति । तदा लक्ष्मणः शूर्पणखायाः नासिकां कर्णं च कर्तयति । शूर्पणखायाः अन्यः भ्राता खरः समीपे वसति । सा भ्रातुः खरस्य समीपं गच्छति । खररामयोः मध्ये युद्धं भवति । रामः खरस्य उपरि बहून् बाणान् मुञ्चति । राक्षसः खरः मरणं प्राप्नोति । शूर्पणखा रावणाय सर्वं वृत्तान्तं निवेदयति । रावणः मातुलस्य मारीचस्य साहाय्यं प्रार्थयति । रावणस्य भयात् मारीचः सुवर्णमृगस्य रूपं धरति । सीता सुवर्णमृगाय रामं प्रार्थयति । रामः आश्रमात् निर्गच्छति । सः मृगस्य पृष्ठतः दूरं गच्छति । रामः बाणेन मृगं मारयति । मृगः मरणसमये रामस्य ध्वनिं अनुकरोति । सीता तं ध्वनिं शृणोति । “मम पतिः साहाय्यम् इच्छति । तस्य समीपं गच्छतु” इति सीता लक्ष्मणं कथयति । लक्ष्मणः आश्रमात् निर्गच्छति । रावणः संन्यासिरूपं धरति । सः सीताम् आश्रमात् अपहरति । जटायुः नाम खगः दशरथस्य मित्रं तस्मिन् वने वसति । जटायुः रावणेन सह युद्धं करोति । रावणः जटायुं खड्गेन प्रहरति । रावणः सीतया सह लङ्कानगरं प्राप्नोति । तत्र सीतां अशोकवने स्थापयति । रामः लक्ष्मणः च आश्रामं प्रत्यागच्छतः । आश्रमे तौ भ्रातरौ सीतां न पश्यतः । रामः दुःखितः भवति । सीतां वने सर्वत्र अन्विष्यति । एकत्र सः पतितं जटायुं पश्यति । जटायुः रावणस्य वृत्तान्तं कथयति । रामलक्ष्मणौ अग्रे चलतः । तौ वीरौ कबन्धराक्षसस्य उभौ बाहू कर्तयतः । मरणसमये कबन्धः रामं कथयति - “पम्पासरोवरप्रदेशे सुग्रीवः निवसति । तस्य समीपं गच्छतु” । अनन्तरं तौ शबर्याः आश्रमं गच्छतः । रामस्य दर्शनात् शबरी मुक्तिं प्राप्नोति । ततः रामः लक्ष्मणः च पम्पासरोवरप्रदेशं प्रविशतः ।
Meanings of some words:
अनुरक्त = interested
मुञ्चति = releases
साहाय्यम् = help
निराकृत = rejected
अनुकरोति = imitates
एकत्र = at one place
उभौ = both (two)
ततः = thereafter (afterwards)/from there
Thursday, July 2, 2020
अयोध्याकाण्डसंग्रहः Summary of Ayodhyakandam
Thursday, June 25, 2020
सुलभबालकाण्डम् Simple Balakandam
Thursday, June 18, 2020
बालकिष्किन्धाकाण्डम् Kishkindha Kandam made Simple
Meaning of some words:
भूपः = राजा king सख्यम् = मैत्री friendship
आज्ञापयति = orders कथयति = वदति tells
कोऽपि = कः अपि anybody वर्णयति = describes
English Translation:
sugrIva and vAlI are brothers. vAlI is the king of Kishkindha region. Being afraid of his brother, sugrIva lives on R^ShyamUka mountain. His monkey army (vAnaragaNa) also lives with sugrIva. rAma and lakShmaNa arrive at R^shyamUka mountain. There, mAruti meets rAma. mAruti talks with rAma. rAma and lakShmana along with mAruti go to sugrIva. rAma befriends sugrIva. vAlI and sugrIva fight. Then rAma kills sugrIva’s brother. SugrIva becomes the king of Kishkindha region. angada becomes the crown prince. sugrIva orders the monkey army, “Go search for sItA”. The monkeys go everywhere. angada, along with the monkey army, goes to the south direction. rAma has complete trust in mAruti. rAma gives his finger ring to mAruti. mAruti goes with angada. mAruti, angada and the monkeys arrive in front of the southern sea. There they meet the bird sampAti. sampAti tells, “sItA is in Lanka''. The monkeys think as to who can cross the sea. None of the monkeys becomes ready. Then, jAmbavAn describes mAruti’s strength. mAruti remembers (prays to) rAma. He climbs up the mahendra mountain. The most devoted (to rAma) mAruti gets ready for the leap.




