Sunday, October 21, 2018

कन्दुकस्तुतिः Kandukastuti of Madhvacharya

कन्दुकः - गेन्दुकः इति जनप्रियः सर्वसामन्यश्च क्रीडनकः | मध्वमुनिना (1238-1317) बाल्यकाले पूर्वाश्रमे विरचितं सुमनोहरस्तोत्रमिदं तस्य काव्यकौशलमपि प्रकाशयति |

श्रीमन्मध्वाचार्यविरचिता कन्दुकस्तुतिः

अम्बरगङ्गा-चुम्बित-पादः पदतल-विदलित-गुरुतर-शकटः ।
कालियनाग-क्ष्वेल-निहन्ता सरसिज-नवदल-विकसित-नयनः ॥१॥
कालघनाली-कर्बुर-कायः शरशत-शकलित-रिपुशत-निवहः ।
सन्ततमस्मान् पातु मुरारिः सततग-समजव-खगपति-निरतः ॥२॥

अन्वयः 
अम्बरगङ्गा-चुम्बित-पादः पदतल-विदलित-गुरुतर-शकटः कालियनाग-क्ष्वेल-निहन्ता सरसिज-नवदल-विकसित-नयनः कालघनाली-कर्बुर-कायः शरशत-शकलित-रिपुशत-निवहः सततग-समजव-खगपति-निरतः मुरारिः अस्मान् सन्ततं पातु |

प्रतिपदार्थः 
अम्बरगङ्गाचुम्बितपादः 
अम्बरम् = आकाशः | द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् - इत्यमरः | आकाशे देवलोके वा प्रवहति गङ्गा सा अम्बरगङ्गा | तया देवगङ्गया चुम्बितः पादः यस्य सः अम्बरगङ्गाचुम्बितपादः | वामानावतारे त्रिविक्रमरूपसमये प्रजापतिब्रह्मणा दिव्यगङ्गाजलेन पूजितः | उक्तं च -
धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र |
स्वर्धन्यभून्नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः || (श्रीमद्भागवतम् ८.२१.४) 

पदतलविदलितगुरुतरशकटः
यस्य पादतलभागेन गुरुतरः महान् शकटः यानविशेषः विदलितः भग्नः सः | शैशवावस्थायां श्रीकृष्णः शकटरूपिणम् असुरं लीलया पादाघातेन हतवान् इति | क्लीबेऽनः शकटोऽस्त्री स्यात् गन्त्री कम्बलिवाह्यकम् - इत्यमरः |

कालियनागक्ष्वेलनिहन्ता 
कालियनामकनागस्य विषं यः अपहृतवान् | कन्दुकग्रहणव्याजेन यमुनाजलं प्रविश्य श्रीकृष्णः तन्निवासं विषसर्पं मर्दितवान् | क्ष्वेलस्तु गरलं विषम् - इत्यमरः |

सरसिजनवदलविकसितनयनः 
सरसिजं कमलम् | सरसि जायते इति | नवदलविकसितं नूतनशकलैः पुष्पितं | कोमलकमलपुष्पमिव नेत्रं यस्य सः |
कालघनालीकर्बुरकायः 
काळाः कृष्णवर्णाः घनाः मेघाः | तेषाम् आली पङ्क्तिः | आली सख्यावली अपि - इत्यमरः | कृष्णमेघवत् वर्णयुक्तः कायः देहः यस्य सः | चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे - इत्यमरः |

शरशतशकलितरिपुशतनिवहः 
शरशतं बाणसमूहेन रिपुशतनिवहः शत्रुगणः शकलितः खण्डितः पराजितः येन सः | समूहनिवहव्यूहसंदोहविसरव्रजाः - इत्यमरः | रामकृष्णाद्यवतारेषु दुष्टशिक्षणं शिष्टरक्षणं कृतवान् |

सततगसमजवखगपतिनिरतः

सततगः सततं सर्वदा गच्छतीति वायुः | समजवः सदृशवेगः | वायुः सदृशः वेगः यस्य अस्ति सः गरुडः | खगानां पक्षिणां पतिः श्रेष्ठः गरुडः | तस्मिन् गरुडे निरतः संस्थितः | गरुडवाहनः विष्णुः |

मुरारिः
मुरनामकदैत्यस्य अरिः हन्ता | मुरस्य संसारतापस्य हर्ता इति वा |

सन्ततम् अस्मान् पातु 
सन्ततं सर्वदा अस्मान् भक्तजनान् पातु रक्षतु |

Saturday, October 6, 2018

शृगालस्य कूटनीतिः Fox's Vile Strategy

(महाभारताधारिता कथा)
एकस्मिन् महारण्ये कश्चिदेकः चतुरः श्रृगालः वसति स्म | व्याघ्रः वृकः नकुलः मूषकश्चेति तस्य चत्वारि मित्राणि आसन् | एकदा आहारेप्सवः ते तृणप्रदेशे चरन्तं बलिनं हरिणमेकं दृष्टवन्तः | वेगशीलः सः मृगः कथं मारणीयः इति मित्रवृन्दः चिन्ताग्रस्तोऽभवत् । कुशाग्रमतिः शृगालः उपायमेकं चिन्तितवान् | तदनुसारं यदा हरिणः शयानः तदा मूषकः तस्य पादेषु दशनं कृतवान् । व्रणपीडितो हरिणः धावने मन्दगतिः अभवत् । तदा व्याघ्रः हरिणं सकृदेव हतवान् । कपटहृदयः शृगालः भक्ष्यविभजनमनिच्छन् कूटनीतिं व्यदधात् । सः अशनातुरान् व्याघ्रनकुलमूषकवृकान् शिष्टधर्मं बोधयन् स्नात्वा आगन्तुं व्यपादिशत् । तथेति स्नानार्थं निर्गताः सर्वे । तेषु व्याघ्रः सर्वप्रथमः शुचीभूय प्रत्यागच्छत् ।

शृगालः ‌‌- हे वीरवर ! मूषकमुखात् श्रुतं मया यत् स एव मृगहन्तकः न तु अमानी व्याघ्रः इति ।
तच्छ्रुत्वा व्याघ्रः अन्यैर्हतं न खादामि इति उक्त्वा ततः निरगच्छत् । तदा आगतः मूषकः ।
शृगालः - हे मूषक ! मृगमांसं विषसमं च मूषकमेव खादामीति नकुलभाषणमासीत् ।
तदाकर्ण्य मूषकः सत्वरेण स्वबिलं प्राविशत् । तदनन्तरमागतः वृकः ।
शृगालः - हे वृकराज ! व्याघ्रोऽसौ क्रुद्धो अद्य । अस्मान् हन्तुकामः सः अचिरेणैव इह आयास्यति ।
तच्छ्रुत्वा वृकः ततः पलायितः । इदानीं नकुलः आगतः ।
शृगालः - हे नकुल ! मया सह युद्धे अन्ये सर्वे पराजिताः । यदि त्वं समर्थोऽसि मां निर्जित्य मृगाहारमिमं भक्षयस्व ।
व्याघ्रवृकौ येन पराजिताः सः मया जेतुं दुःशकः इति भीत्वा नकुलः ततः पलायितः ।

शृगालः निष्कण्टकः सर्वं पिशितं जग्ध्वा संतृप्तोऽभवत् ।

Thursday, September 20, 2018

Sundarakanda in One Shloka एकश्लोकी सुन्दरकाण्डम्

|| राघवेन्द्रस्वामिविरचितम् एकश्लोकी सुन्दरकाण्डम् ||

यस्य श्रीहनुमाननुग्रहबलात्तीर्णाम्बुधिर्लीलया
लङ्कां प्राप्य निशाम्य रामदयितां भङ्क्त्वा वनं राक्षसान् ।
अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः
तीर्णाब्धिः कपिभिर्युतो यमनमत् तं रामचन्द्रम्भजे ॥

इति राघवेन्द्रस्वामिविरचितं एकश्लोकी सुन्दरकाण्डं सम्पूर्णम् ।

पदच्छेदः
यस्य श्रीहनुमान् अनुग्रहबलात् तीर्णाम्बुधिः लीलया
लङ्कां प्राप्य निशाम्य रामदयितां भङ्क्त्वा वनं राक्षसान् ।
अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः
तीर्णाब्धिः कपिभिः युतो यम् अनमत् तं रामचन्द्रं भजे ॥

अन्वयः
यस्य अनुग्रहबलात् श्रीहनुमान् लीलया तीर्णाम्बुधिः, लङ्कां प्राप्य, रामदयितां निशाम्य, वनं भङ्क्त्वा, अक्षादीन् राक्षसान् विनिहत्य, दशकं वीक्ष्य, तां पुरीं दग्ध्वा, पुनः तीर्णाब्धिः, कपिभिः युतः, यम् अनमत्, तं रामचन्द्रं भजे |

अर्थः
यस्य = यस्य पुरुष्यस्य, अनुग्रहबलात् = प्रसादात्, श्रीहनुमान् = वायुपुत्रः, लीलया = निरायासेन, तीर्णाम्बुधिः = सागरं लङ्घितवान्, लङ्कां प्राप्य = लङ्कानगरीं गत्वा, रामदयितां निशाम्य = सीतां रामसंदेशं श्रावयित्वा, वनं भङ्क्त्वा = अशोकवनस्य नाशनं कृत्वा, अक्षादीन् राक्षसान् विनिहत्य = अक्षकुमारादीन् अनेकराक्षसान् मारयित्वा, दशकं वीक्ष्य = रावणेन सह वार्तालापं कृत्वा, तां पुरीं दग्ध्वा = लङ्कादहनं कृत्वा, पुनः तीर्णाब्धिः = पुनः सागरं लङ्घितवान्, कपिभिः युतः = वानरैः सह मिलितवान्, (अनन्तरं) यम् अनमत् = (सः आञ्जनेयः) यं पुरुषश्रेष्ठं प्रणतवान्, तं रामचन्द्रं भजे = तं श्रीरामचन्द्रं प्रीणये |

In English:
I salute Ramachandra, by whose blessings, Shri Hanuman easily crossed the sea, reached Lanka and delivered Rama's message to Sita, destroyed the (Ashoka) garden, killed Aksha and many demons, met Ravana, burned down the city of Lanka, crossed the sea again, joined with the other monkeys, and then bowed at his (Rama's) feet.

Saturday, September 8, 2018

गणपतिखण्डसंग्रहः Ganesha Katha


ब्रह्मवैवर्तपुराणान्तर्गतगणपतिखण्डसंग्रहः

गणेशजननम्
महादेवीपार्वती महादेवशिवः लोककल्याणहेतुना पुत्रीयन्तौ एकान्ते रमेते स्म | तस्मिन्नेव समये परमात्मा श्रीकृष्णः स्वभक्ते नीलकण्ठे अनुग्रहकामः वृद्धब्राह्मणरूपधारी तत्र आगतः | शङ्करभवनद्वारि स्थितो भिक्षां ययाच स भूसुरः | जगतः पितरौ गौरीश्वरौ लोकनीतिं प्रदर्शयन्तौ बुभुक्षितब्राह्मणाय अन्नदानार्थं सत्वरमन्तःपुरादपसृत्य चत्वरमासादितौ | याचकेन सह कुशलवचनं व्याहृत्य सती सा पाकगृहं प्रविशन्त्यां सति मायापतिः मायया शम्भुशय्यागारं प्रविश्य तत्रत्यतल्पस्थिते वृषभध्वजतेजसि स्वांशेन लीनोऽभूत् | तस्माज्जातः कृष्णांशसंभूतः शुभलक्षणाङ्गः सुन्दराकारः शिशुरेकः | देवी उमा द्वाराभ्याशे ब्राह्मणमदृष्ट्वा विस्मयाविष्टा स्वान्तःपुरं प्राप्ता | तत्र मन्दहासेन क्रीडन्तं बालं प्रेक्ष्य आनन्दतुन्दिला सा अर्भकं वक्षसि कृत्वा स्तन्यं पायितवती |

गजाननप्राप्तिः
गिरिजागिरीशयोः अपत्यजननवार्तां समाकर्ण्य वृन्दारकवृन्दः कैलासक्षेत्रं समागतः | अगजाननपद्मार्कं चारुहासिनं शिशुं दृष्ट्वा परितुष्यन्तः विष्णुमुखदेवाः सुकुमारं बुद्धिबलादिवरान् प्रददुः | शङ्करपुत्रः सः गणेश इति नाम्ना अङ्कितः | सूर्यपुत्रः  शनैश्चरोऽपि शिशोः समीपं नतमुुखः उपस्थितः | तद्दृष्ट्वा पार्वती शनैश्चरं तस्य कारणं पप्रच्छ | नवजाते स्वदृष्टिपातः अहितकारणं भवतीति शनैश्चरोऽब्रवीत् | तथापि मातुराग्रहवचनेन ग्रहाधिपतिः शनैश्चरः कटाक्षेण शिशुमीषदैक्षत | शनेः दृष्टिमात्रेण सपदि गणेशस्य शिरो भग्नीभूतम् | सुतस्य मृतावस्थां प्रपश्य भृशं विलपन्तीं पर्वतसुतां सान्त्वयित्वा श्रीहरिः गरुढारूढः उत्तरदिशि प्रस्थितवान् | तत्र सपरिवारं शयानस्य गजराजस्यैकस्य मस्तकं सुदर्शनचक्रेण कर्तयित्वा स्वहस्ते गृहीतवान् | तदा गजराजपत्नी रोदं रोदं नारायणं बहुधा स्तुतवती | स्तवप्रियः चक्रधारी कस्यचिदन्यगजस्य शिरः योजयित्वा तं गजराजं पुनर्जीवितं चकार | ततः गरुडवेगेन कैलासगिरिं प्राप्य पार्वतीपुत्रे करिशिरः संयुज्य तं जीवनप्रदानं कृतवान् | गजाननं पुनर्जीवितं दृष्ट्वा प्रमुदिता पार्वती भक्त्यादरेण श्रीविष्णुं प्राणमत् |

एकदन्तरूपम्
जामदग्निः भार्गवरामः पिनाकिनः पाशुपतास्त्रं प्राप्य कार्तवीर्यं निषूदितवान् | तदनन्तरं सः भूमण्डलमखिलं परिभ्रम्य तद् दुष्टक्षत्रियरहितं चकार | तन्महत्कार्यं समाप्य रेणुकानन्दनः नन्दिवाहनमभिवादयितुं कैलासं समपद्यत | त्रिलोचने निद्रासक्ते सति मन्दिरप्रवेशद्वास्थः गजाननः भार्गवमार्गं निरुध्य प्रतिपालनं प्रतिपादितवान् | शीघ्रकोपी विप्रर्षभरामो गजकर्णवचनमनादृत्य नागभूषणनिलयं प्रवेष्टुमुद्युक्तः | शक्तिसुतगजमुखभृगूद्वहयोर्मध्ये भीकरयुद्धं संजातम् | शान्ताकारो हस्तिवदनः बलिष्ठेन करिकरप्रायशुण्डेन क्षत्रकुलान्तकं लीलया वेष्टयित्वा बहुधा पीडयामास | कृष्णांशसंभूतद्विपाननेन परिक्लान्तो भार्गवः अस्त्रश्रेष्ठं परशुं प्रायोजयत् | सहस्रांशुप्रभामप्रभाकारः परशुरमोघो मातङ्गमुखं प्रति प्राद्रवत् | तन्निवारयितुं समर्थोऽपि गणेशः महादेवशङ्करसन्निहितपरशुं सम्मानयन् तमायुधं स्वीचकार | तद्घोरायुधं द्विरदवदनस्य वामदन्तं समूलं भञ्जितवत् | कदनेक्षुकाणां कैलासवसिनां कोलाहलेन उमोमेश्वरौ भवनाद् बहिरागतौ | रक्तसिक्तवदनं निजसुतं संपश्य भगवती मोमूर्च्छ्यमाना भृशं विललाप | परितप्ता सा दन्तभग्नकारणं परशुरामं शप्तुमुद्यता | तदा दिव्याभरणभूषितः श्रीमन्नारायणः प्रकटीभूय हिमसुतां सान्त्वनवचनेन प्रशामितवान् | भृगुश्रेष्ठः एकदन्तं गणपतिं संस्तुत्य स्वधामं निर्जगाम |

तुलसीनिषेधः
नवयौवना तुलसी पाणिग्रहणयोग्यं युवकं अन्विष्यन्ती महीतले भ्रमति स्म | तदा सा गङ्गातीरे गङ्गाञ्चितपादध्यानासक्तं गङ्गाधरसुतमन्वैक्षत | शान्ताकारं तारुण्यवर्णसौन्दर्यातिशयमनोहराकारं प्रपश्य स्मरशरक्षता बभूव सा | किञ्चित् प्रणयविनोदाकाङ्क्षी तुलसी निमीलितनेत्रं शैलजासुतमुपगम्य किमिदं हरिशत्रुवक्त्रं कथं ते भग्नदन्तः क्वेदं लम्बितोदरं तव इति उपहासं चकार | मूर्ध्नि तस्य किञ्चिज्जलं सुत्वा तर्जन्या तं पीडितवती | भग्नतपः शङ्करात्मजः स्मितवदनां युवतीभावप्रमत्तप्रमदां पुरतःस्थितां शान्तचित्तः एव मातरिति संबुध्य परिचयं चित्रप्रवृत्तिकारणं च पप्रच्छ | तुलसी मनोगतमाशयं परिणयेच्छां प्राकटयत | कृष्णैकमनस्कः विनायकः विनयेन तां तिरस्कुर्वन् पतिमन्यं मार्गयितुमकथयत् | नैराश्यदग्धहृदया तुलसी पत्नी तव असाध्वी भवत्विति पार्वतेयं शशाप | निष्कारणं शप्तः शंभुतनयः तुलसीमपि असुरग्रस्ता वृक्षरूपा भवेति प्रत्यशपत् | निरस्तपरिणामदुःखिता तुलसी नारायणं शरणङ्गता | तत्कृपया सा गणेशपरित्यक्तापि कालान्तरे शङ्खचूडासुरबन्धनमुक्ता वृक्षरूपेण श्रीहरिपरमप्रिया बभूव |

वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ |
निर्विघ्नं कुरुमे देव सर्वकार्येषु सर्वदा ||

Friday, June 22, 2018

Sanskrit and Computers - Words Apart

In any formal or informal gathering about Sanskrit, the topic of Sanskrit being very well suited for modern day advanced intelligent technologies comes up invariably. (See also the blog post: Sanskrit: Best Language for Computers-True or False?). And the Sanskrit lovers love to associate Sanskrit with any and every possible modern phenomenon. This goes in the same vein that many try to find everything in ancient Indian literature and stories to be somehow superior or advanced compared to its modern-day counterpart. For example: advanced weaponry, nuclear warfare, airplanes, architecture, astronomy, sea travel, test tube babies, gender-change procedures and so on. Some of it could be true. But this narcissism taken to the extreme could cloud the reality and become highly nonsensical and irrelevant.

For example, take the case of the subject of prosody (छन्दस्). The basic units of short and long weight of syllables are called laghu (लघु) and guru (गुरु). Some put it as the basis for today's binary system. The binary system has two states represented by 0 and 1, and is the underlying science of today's digital technology. But we can find this binary state in many other things like day/night, yes/no, black/white, wet/dry, hot/cold, open/close. The inventors of the binary system found it convenient and more efficient in the transmission of signals and quickly adapted it in electronics. There could be analogy between laghu/guru and 0/1, but saying that one has borrowed from another is bit of a stretch.

Another big topic is that of computers or robots and Sanskrit. Here, computers and robots represent state-of-the art technologies and are supposed to be the result of the most sophisticated advent in the technology. With the current trends in the industry, there is a huge push to mimic the human brain into a machine. That is a big temptation for Sanskrit lovers - to associate Sanskrit with anything that is perceived as modern and smart. Because Sanskrit grammar has a very well-defined structure and to the most part, is rule-based, it makes sense to think that the algorithmic approach fits the computers or the robots. This thought is in fact an insult to the Sanskrit language. If the entire language can be machine-generated and programmed into the robots, Sanskrit would be just another dumb computer language, only better in terms of its structure and understandable by humans too.

While Sanskrit has a well-defined grammatical structure, it is a highly evolved language. For those who do not believe in Darwin's theory of evolution, Sanskrit has been in existence forever and is the "original" language of the gods and mankind. Even with evolution theory in place, the experts have a range of 75,000 and 10,000 years for the most ancient Sanskrit literature - the Vedas- which themselves are in a very highly developed linguistic form. In Sanskrit, not only a word, but each sound, each letter has its own meaning. And they get together to form a word. The words can combine multiple times to form infinite number of words. The beauty of Sanskrit is that there is no specific word for a given thing. For example: for fire, there are not many alternate words in the English language. Thesaurus.com shows a few synonyms of fire, but they are mostly the words that are like fire - heat, tinder etc., but not the fire itself. But in Sanskrit, an object is defined by its characterstics. So, a fire can be referred to by multitude of words - like agni (one that does not move), hutaashana (one which eats everything), anala (one which is never satisfied), jvaalaa (one which burns), vaayusakha (friend of wind), saptajihva (one which has multiple flames) etc. Similarly, one word can refer to multiple objects. For example: hari might refer to the god (who destroys), or a horse (which moves fast), a lion, a parrot, a monkey, a serpent, a swan, a frog, a cuckoo, fire, wind, sun, moon, green and many more depending on the interpretation and context.

There is a famous verse which is a good example to quote here:
अङ्गुल्या कः कपाटं प्रहरति विशिखे माधवः किं वसन्तो
नो चक्री किं कुलालो न हि धरणीधरः किं द्विजिह्वः फणीन्द्रः |
नाहं घोराहिमर्दो किमुत खगपतिर्नो हरिः किं कपीन्द्रः
इत्येवं सत्यभामाप्रतिवचनाजितः पातु वश्चक्रपाणिः ||
When Krishna knocked on the door of his wife Satyabhaama's room, she asks - who is it?
Krishna: I am Maadhava. She: Is it the spring season (maadhava also means spring).
Krishna: No, I am Chakrii. She: Is it a potter?
Krishna: No, I am DharaNidhara. She: Is it the great serpent (who carries the earth)?
Krishna: No, I am the one who killed the poisonous snake (Kaaliya). She: Are you Garuda?
Krishna: No, I am Hari. She: Are you a monkey?
May lord Krishna, thus won over by the words of Satyabhaama, protect us.

This is true for every word and object in Sanskrit. It is completely contextual and the word formation is entirely natural. The speaker has the freedom to make use of the best combination of letters, words or compound words to describe the character(s) of an object in the given context and bring about the most appropriate meaning of that object. For instance, to describe a heating situation, jvaalaa maight be appropriate. If something is burning, saptajihava might convey it better. If want to indicate destruction, anala or hutaashana might work better. If the listener knows the difference in these meanings, the understanding would be more satisfying and complete, else it could be just understood as fire (something which burns). This flexible approach presents numerous possibilities to coin any new word on the fly. If it is some other language, we need to open its dictionary and look up the word or import the word as is. Not necessary here. For example: what is the word for traffic? The characteristic of traffic is excessive presence of flow of vehicles. One can come up with the word like प्रवाहिनी. What about a (motor) car? The machine is used for moving us or taking us places. While रथ or यन्त्ररथ can be used, one can call it गन्त्री.

Sanskrit language represents the pinnacle of human ingenuity, the unfathomable intelligence that has evolved (or existed) over billions of years. It is a complete natural representation of the eternal and infinite sounds in the universe. In that sense, it is truly गीर्वाणभारती - the divine language, the universal language. Thinking of today's (and any future) gadgets and Sanskrit on the same plane is belittling to this greatest language.

Friday, June 15, 2018

Saturday, June 9, 2018

Purandara Dasa पुरन्दरदासः

पञ्चदशतमे क्रैस्तशतके दक्षिणभारते कर्णाटप्रदेशे शिमोगाप्रान्ते वरदप्पनायकनामकः वाणिज्यवृत्तिनिरतः वसति स्म | १४८४तमे क्रैस्तशके तस्मिन् जातः श्रीनिवासनाम्ना पुत्रः | यथाक्रमं विद्याधीतस्य तस्य प्राप्ते वयसि सरस्वतीनामकवधुना विवाहः संपन्नः | श्रीनिवासस्य विंशके तारुण्ये तस्य पिता दिवंगतः | पितुः वाणिज्यवृत्तिमनुवर्तमानः श्रीनिवासः बहु शीघ्रं ख्यातधनाढ्योऽभवत् | चतुर्णां बालकानां जनकः सः स्ववृत्तिभावात् धनलालसापरः परमकृपणोऽपि आसीत् |

एकस्मिन् दिने श्रीनिवासे स्वापणे वृत्तिनिरते सति अकिञ्चनः कश्चन ब्राह्मणः एकदा पुत्रस्य उपनयनार्थं धनं याचमानः तत्र आगतवान् | दरिद्रेषु उदासीनः श्रीनिवासः ब्राह्मणं तिरस्कृतवान् | धनार्तस्य ब्राह्मणस्य पुनः पुनः प्रार्थनेनापि श्रीनिवासः कठिनहृदयो दाने नोदसहत | हताशो ब्राह्मणः श्रीनिवासस्य पत्नीं सरस्वतीं संप्राप्य तां विषयं निवेदयन् धनयाचनामकरोत् | निर्धनेषु दयापराऽपि सा पतिव्रता भर्तुराज्ञया विना दानेऽशक्तास्मीति अवदत् | परं यायाच्यमाने ब्राह्मणे कृपाविष्टा सा स्वमात्रा दत्तं नासाभरणं तस्मै दत्तवती | संतुष्टो ब्राह्मणः तत् स्वर्णाभरणमादाय श्रीनिवासस्य समीपे गतवान् | तदाभरणं न्यासरुपेण स्वीकृत्य धनं प्रदातुं व्यज्ञापयत् | श्रीनिवासः तदाभरणं स्वीकृत्य पत्न्याः इति अभिज्ञाय पेटिकायां स्थापितवान् | ब्राह्मणं तत्रेव प्रतीक्षमाणं कृत्वा गृहं प्रति अधावत् | गृहे पत्न्याः सरस्वत्याः नासिकायामभरणमदृष्ट्वा सः आक्रोशेन तद्दर्शयितुमवदत् | भयाक्रान्ता सरस्वती स्वप्राणत्यागोद्युक्ता महानसं गत्वा विषप्राशनाय चषकं कल्पितवती | अहो किमाश्चर्यम् | चषके नासाभरणं प्रत्यक्षोऽभवत् | तद्गृहीत्वा सा पतिं न्यवेदयत् | सविस्मितः श्रीनिवासः पुनः आपणमवाप्य दृष्टवान् यत् ब्राह्मणो नासीत् पेटिकायामाभरणमपि अदृष्टम् | एतत् सर्वं भगवतः श्रीहरेः एव लीलानाटकमिति विदितवान् |

ततः परं श्रीनिवासः संसारे वैराग्यभावं चिन्तयन् स्वधनं सर्वं दीनजनाय दत्त्वा हरिपरोऽभवत् | विजयनगरवासिनः तत्कालीनप्रसिद्धयते: व्यासराजसकाशात् तेन हरिदासदीक्षा समपद्यत | तद्दीक्षाप्रदानकाले तस्य नवनामकरणोऽपि जातः पुरन्दरदास इति | हस्ते तुन्तुवाद्यं पादयोः किङ्किण्यौ धरन् पुरन्दरदासः स्वरचितभक्तिपदानि गायन् जनेषु भक्तिमार्गं प्रसारयति स्म | सुलभावबोधानि कन्नडजनभाषायां रचितानि तस्य पद्यानि अतीव जनप्रियानि | तत्कारणात् दाससाहित्यं भारतीयसंगीतक्षेत्रं च विस्तारिते प्राकाशेताम् | प्रायः तेन ४७५००० रचनानि निर्मितानि इति श्रूयते | संप्रति प्रायशः उपसहस्रं रचनान्येव उपलब्धानि | भगवल्लीलापराणि पुराणेतिहासकथाविषयाकानि सामाजिकनीतिबोधकानि नैकानि तस्य पद्यानि प्रख्यातानि | कर्णाटराज्यस्य हम्पीनगरे पुरन्दरदासः अशीतितमे वयसि विष्णुपदमवाप |

पुरन्दरदासः हरिदासजनेषु अग्रगण्यः | अस्य भक्ताग्रेसरस्य कीर्तनानि अद्यापि मिथ्याचारविषये सामाजिकवैषम्यविषये अन्धानुकरणविषये उद्बोधकानि सन्ति |

मन्मनोभीष्टवरदं सर्वाभीष्टफलप्रदम् |
पुरन्दरगुरुं वन्दे दासश्रेष्ठं दयानिधिम् ||

ज्ञानवैराग्यसंपन्नं भक्तिमार्गप्रवर्तकम् |
पुरन्दरगुरुं वन्दे दासश्रेष्ठं दयानिधिम् ||