Friday, April 12, 2019

ईदासकथा

(शानच्-प्रत्ययप्रयोगः - आसीन-रूपसिद्धिः च)

आसीद् एकः बालः ईदासो नामकः | तस्य मित्रं मैदासः | एकदा ईदासः मित्रेण सह मेलनं चिन्तयमानः तस्य गृहं प्रस्थितवान् | डयमानानां पक्षिणां कलरवं शृण्वन् सः मार्गं क्रान्तवान् | पन्थानम् उभयतः आच्छादयमानेषु महावृक्षेषु कूर्दमानान् वानरान् अपि सः दृष्टवान् | किञ्चिद्दूरं चलित्वा श्रान्तः ईदासः पाथेयं भक्षमाणः सः पार्श्वस्थे आपणे शाकानि क्रीणानाः महिलाः अपश्यत् | आतपेन पीडितः सः तरुमूले सुखेन शयानः आनन्दितवान् | किञ्चित् कालानन्तरं सः उत्थाय कम्पमानान् पादपान् वीक्षमाणः मार्गं क्रमित्वा मैदासगृहं प्राप्तवान् | संध्याकाले जायमाने आगतं मित्रं दृष्ट्वा मैदासः स्वागतं कुर्वाणः ईदासम् आलिङ्गितवान् | मैदासः पचमानायाः भगिन्याः मधुरं खाद्यम् आदाय ईदासं दत्तवान् | मैदासः मित्रं शोभमानम् आसनं दर्शयमानः अवदत् | भो मित्र आसानो  त्वं मधुरं खाद इति |

ईदासः स्मयमानः अवदत् - प्रिय मित्र | आसीन इति पदं प्रयोक्तव्यम् | आसान इति प्रयोगः अशुद्धः | 

लजमानः मैदासः मित्रं पृष्टवान् - कथं तथा मित्र ? वृत्-धातोः शानजन्तरूपं वर्तमानः | मनु-धातुः शानच्-प्रत्यये परे मन्वानः भवति | अधि-पूर्वकः इङ्-धातुः अधीयानः भवति | ब्रू-धातुः ब्रुवाणः भवति | वस्-धातुः वसानः दा-धातुः ददानः ईश्-धातुः ईशानः च भवन्ति | तर्हि आस्-धातोः शानजन्तरूपम् आसानः इति भवेत् खलु ? 

खाद्यं भक्षयमाणः ईदासः अवदत् - अयि सखे | आस्-धातोः विषये विशिष्टं व्याकरणसूत्रम् एकं प्रवर्तमानं विद्यते | तत् सूत्रम् - ईदासः इति |

साश्चर्यं मित्रम् अवलोकमानः मैदासः प्रत्यवदत् - ईदासः इति सूत्रम् ? किञ्चिद् विस्तरेण कथयमानात् तव मुखात् श्रोतुम् इच्छामि |

सूत्रार्थं वर्णयमानः ईदासः अवदत् - सत्यम् | ईदासः इति पाणिनीयसूत्रम् | आसः ईत् इत्यन्वयः | आस्-धातोः शानच्-प्रत्यये परे आ-स्थाने ई इति आदेशः भवति इति सूत्रस्य अर्थः | तदा आस् अनन्तरम् ई योजयमानाः विबुधाः आसीनः इति पदरूपं प्राप्नुवन्ति | 

आनन्दं भावयमानः मैदासः अवदत् - साधु मित्र | नूनं वन्द्यमानः पाणिनिः | 

एवम् ईदासमैदासौ कथाविनोदादिषु रममाणौ शिष्टसंध्यासमयं यापितवन्तौ |

Saturday, March 23, 2019

व्यासतीर्थः - दासकूटप्रवर्तकः Vyasateertha - Promoter of Dasapantha

व्यासतीर्थः - दासकूटप्रवर्तकः

पञ्चदशक्रैस्तशतके भारतभूमौ व्यासतीर्थः इति यतिश्रेष्ठः विजयनगरराज्ये व्यराजत | तस्य महामहिमस्य संक्षिप्तास्ख्यायिकेऽयम् |

कर्मभूमीति प्रख्यातायां भरतभूमौ दक्षिणदेशे महिषासुरपत्तनसमीपस्थे (Mysore City) बन्नूरुग्रामे न्यवसतां भगवद्भक्तौ अक्कम्माबल्लण्णदम्पती | १४६०तमे क्रैस्ताब्दे भगवत्प्रसादात् तयोः जातः यतिराजः इति पुत्रः | सप्तायनसंपूर्णे उपनयनसंस्कारसंपन्नः यतिराजः चतुरायनं गुरुकुले अधीयमानः काव्यशास्त्रादिषु पाण्डित्यं संपादितवान् | तदनन्तरं सः चन्नपत्तनस्थितस्य माध्वयतिवरस्य ब्रह्मण्यतीर्थस्य आश्रये पित्रा निविष्टः | व्याकरणवेदशास्त्रादिषु यतिराजस्य निष्ठां निरीक्ष्य ब्रह्मण्यतीर्थः तं संन्यासदीक्षां स्वीकर्तुम् आदिष्टवान् | आदेशात् चकितः बालकः यतिराजः अरण्यं प्रविश्य वृक्षमूले ध्यानपरोभवत् | तत्र विष्णुभगवत्प्रेरणया कृतसङ्कल्पः सः ब्रह्मण्यतीर्थं पुनः प्राप्य यतिदीक्षाबद्धोभवत् | तस्य व्यासतीर्थः इति नामकरणोऽपि जातः |

१४६०तमे क्रैस्ताब्दे ब्रह्मण्यतीर्थस्य शरीरत्यागानन्तरं व्यासतीर्थः शास्त्राध्ययनस्थानेषु भूषणप्रायभूते काञ्चीनगरे न्यायमीमांसावेदागमविद्याः साङ्गं हृद्गतं कृतवान् | ततःपश्चात् सः मुळुबागिलुग्रामे श्रीपादराजाख्ययतिवराश्रये माध्वतत्त्वशास्त्रे पारङ्गतोभूत् |

अप्रतिमशास्त्रकोविदः सः भरतखण्डे विविधप्रान्तेषु संचरन् वाक्यार्थगोष्ठिषु नैकान् प्रतिवादीन् पराजित्य मध्वमुनिप्रणीतं भागवततत्त्वं प्रतिष्ठापितवान् | व्यासतीर्थस्य दैवीवर्चस्वम् आद्रियमाणः विजयनगरसाम्राज्याधिपतिः श्रीकृष्णदेवरायः यतिवरं राजगुरुपदविना सममानयत | व्यासतीर्थः श्रीकृष्णदेवरायं राजतान्त्रिकविषयेषु धार्मिकविषयेषु च मार्गदर्शनं करोति स्म | राजाश्रयत्वात्तस्य व्यासराजः इत्यपि नाम बभूव |

व्यासतीर्थः स्वयं संस्कृतभाषायां शास्त्रविषये अष्टौ ग्रन्थानरचयत | तेषु न्यायामृतं तात्पर्यचन्द्रिका तर्कताण्डवं च प्रसिद्धाः कृतयः | सः कन्नडभाषायामपि नैकानि पद्यानि लिलेख | इदानीं देशविदेशेषु प्रख्यातं “कृष्णा नी बेगने बारो” कन्नडगीतं व्यासतीर्थस्य रचना | तस्य यतिशिष्येषु विजयीन्द्रतीर्थः तथा वादिराजतीर्थः सुप्रसिद्धौ | जनसामान्येषु धार्मिकजागरणार्थं सः भक्तियोगप्रधानं दासकूटं स्थापयामास | तेन दासकूटे अनुवर्तिताः विद्वज्जनाः प्रादेशिकभाषासु भगवत्कथाः कीर्तयन्तः गीतानि गायन्तः जनसामान्येषु सुलभतया धार्मिकश्रद्धां सुदृढां चक्रुः | पुरुन्दरदासः कनकदासश्च सुपरिचितहरिदासौ व्यासतीर्थशिष्यौ एव |

सुदीर्घकालं वेदान्तसाम्राज्ये विराजमानः यतिवरशिखामणिः श्रीव्यासतीर्थः प्रायः १५३९तमे क्रैस्तवर्षे हम्पीनगरे स्वदेहं तत्याज | साम्प्रतमपि व्यासराजस्य महत्कार्यं सुजनैः स्मर्यते समाजे तत्फलं अनुभूयते च |

नमो व्यासमुनीन्द्राय भक्ताभीष्टप्रदायिने |
नमतां कल्पतरवे भजतां कामधेनवे ||
(इति विजयीन्द्रतीर्थरचिते व्यासराजस्तोत्रे)

Sunday, March 10, 2019

Route of Pandavas' Military Expedition

राजसूययागप्रसङ्गे पाण्डवनां दिग्विजययात्रायाः मार्गदर्शिनी

श्रीवेदव्यासप्रणीते श्रीमन्महाभारतग्रन्थे सभापर्वान्तर्गतः राजसूययागप्रसङ्गः | तत्सन्दर्भे पाण्डवभ्रातरः भारतवर्षे दिग्विजययात्रां गच्छन्ति | भीमः पूर्वदेशं व्रजति | अर्जुनः उत्तरदिशां लक्षयति | नकुलः पश्चिमं सहदेवः दक्षिणं च यातः | मूलपाठमनुसृत्य तेषां पाण्डववीराणां यात्रामार्गानुकरणप्रयत्नोयम् | तत्कालीनदेशजनपदाः सर्वे साम्प्रतं नैव निश्चयेन ज्ञायन्ते | तथापि स्थूलरूपेण अवगाहनं शक्यम् | अन्तर्जाले स्थानान्तरेषु काचन एताः मार्गसूचिकाः स्युः | परन्तु भीमस्य पन्थाः नोपलब्धः | अपि च सर्वे पथदर्शिकाः एकस्मिन् चित्रे नोपलब्धाः | इत्येतत्र अल्पप्रयासः |

In the epic book Mahabharata authored by Shri Vedavyasa, the Sabhaparva has a major event Rajasuya yajna. During that time, Bhima, Arjuna, Nakula and Sahadeva carry out military expeditions across the Indian subcontinent. The following image depicts the routes taken by each of them. Though there could be similar maps available elsewhere on the Internet, the path taken by Bhima could not be found there and also all the paths could not be found on the same map. Here is a small attempt to show them on one page.



The map at the time of Mahabharata was sourced from here.

Friday, February 22, 2019

नारदस्य चातुर्यम्



सूर्यपुत्रः शनिदेवः अमङ्गलकारी इति कुख्यातः त्रिषु लोकेषु। देवासुरमानवाः तस्य पीडायाः बिभ्यति। छायासुतस्य तस्य छायापि नेष्यते कुत्रापि। सः महाकोपिष्ठोऽपि। रमा क्षीरसमुद्रतनया। विष्णुपत्नी सा लक्ष्मीः तु परममङ्गलदेवता। श्रीरिति सर्वत्र पूजिता।
एकदा श्रीशनिदेवयोर्मध्ये विवादः संजातः। तयोर्मध्ये कः चारुतरः। कस्य गुणाः आधिक्येन प्रशंसनार्हा इति। मिथः विजल्पन्तौ तौ निर्णयार्थं नारदमुनेः सकाशं ययौ। देवर्षिः नारदः ब्रह्मतनयः। त्रिलोकसंचारी सः देवदानवमर्त्यलोकेषु समभावेन आदिदरिष्यते। भागवताग्रेसरः सः महान्चतुरोऽपि।

अभ्यागतौ तौ रमारविजौ अर्घ्यपाद्यादिना सत्कृत्य सुरमुनिः आगमनकारणं पप्रच्छ। शनैश्चर उवाच - तप्तलोहकान्तिसंपन्नोऽहं महाबली निखिललोकपीडनसमर्थः। रमा उवाच - सुवर्णप्रभाशोभिताहं सकललोकसंपत्कारिणी। आवयोः कः चारुतरः इति प्रश्नस्य समाधानं वक्तुमर्हसि इति अवदताम्। नारदस्य संकटमापतितम्। श्रीरित्युदिते शनिकोपभागयोगः शनिरित्युक्ते श्रीकटाक्षविभवहानिः।

निर्णयवचनाकर्णाभिलषन्तौ स्वसन्निकटमास्थितौ तौ नारदोऽवदत् - अहो! भाग्यं मम यदीदृशं महान्निर्णयावसरः प्रदीयते। अवश्यं परीक्ष्य वाम् इदमित्थं करोमि। इत्युक्त्वा उभावपि पञ्चषान् पादान् दूरं चलितुम् अकथयत्। श्रीः शनिश्च किञ्चिद्दूरं चलन्तौ नारदात् अपगच्छतः। नारदः तदा तौ पुनः स्वसमीपं पुनरागन्तुं कथयामास। तावुभौ नारदाभिमुखं समुपासरताम्। ततः स्मयन्निव नारदो बद्धाञ्जलिरवोचत् - संपरीक्षणं समाप्तं यन्मया निर्णीयते। अपसरणे शनैश्चरः शुभावहः। उपसरणे श्रीः सुखदायिनी इति। नारदवचनं श्रुत्वा संतुष्टौ रमाशनैश्चरौ निजधामौ प्रति निर्जग्मतुः।

Sunday, February 17, 2019

बृहद्बुद्धः - प्रवासकथनम् (Big Buddha - A Travelogue)

कतिपयदिनेभ्यः पूर्वं होङ्गकोङ्गनगरपर्यटनभाग्यप्राप्तोऽहं तद्देशे कृतमेकमुपप्रवासकथनं चित्रबद्धं विवर्णयिषामि |

भव्यभारतदेशान्निर्यातेषु उत्तमोत्तमवस्तुषु बौद्धाचारः अन्यतमः | नैकेषु पौर्वात्यराष्ट्रेषु बौद्धमतं परमादरणीयं वर्तते | होङ्गकोङ्गनगरदेशेऽपि अहिंसामूलोयं धर्मः बहुजनमान्यः | तन्नगरे बौद्धदेवालयाः दरीदृश्यन्ते | तेषु बृहद्बुद्धविग्रहः प्रेक्षणीयस्थानेषु विशिष्टतमः |

होङ्गकोङ्गनगरमध्यात् किञ्चिद्दूरं सागरवर्तिनि ल्याण्टौनामकद्वीपभागे प्रतिष्ठितोयं विग्रहः | नगरमध्यस्थितान्मम वसतिनिलयतः प्रातः नववादने प्रस्थितोऽहं लोहपथशकटेन (train) द्वीपान्तरतटं प्राप्तवान् | शकटस्थानकात् द्वीपं प्राप्तुं रज्जुमार्गः (ropeway) कल्पितः वर्तते | रज्जुमार्गस्थानके सुदीर्घा सर्पोपमा जनपङ्क्तिः अवर्तत | रज्जुमार्गयानपत्रं पूर्वमेव प्राप्तमपि पङ्क्तौ तिष्ठता मया घण्टामिता वेला अतीता | एकादशवादने रज्जुमार्गप्रवासभाग्यः प्राप्तः | सः प्रवासः अर्धघण्टामितः | लम्बमानात् काचावृतयानात् परिसरदृश्यमदः अतीव रमणीयम् | आ दिगन्तः नीलमहार्णवः पोतैः इतस्ततः अलंकृतः दिवाकरदर्शनाय मण्डितं ताराङ्कितगगनलेखाचित्रमिव परिशोभते स्म | समन्तात् वृक्षाच्छादितानि उत्तुङ्गशिखराणि मेघमार्गं निरुन्धन्ति गम्भीरभावं प्रकटयन्ति स्म | तटान्तरप्राप्तात् काचयानादवरुह्य द्वीपदेशं प्राविशमहम् |

तद्यानस्थानकमुखप्रदेशे बहिः यात्रिजनसौकर्यार्थं नैके भोजनालयाः शौचालयाः वस्त्रशिरस्त्राद्यापणाः विराजन्ते | अहो ! विचित्रम् | तत्र रोटिकामाषखाद्यादिकं विक्रीणन् एकः भारतीयभोजनालयोपि दृष्टः | तत्प्रदेशात् किञ्चित् पादानन्तरं पाषाणनिर्मितं बृहत् प्रवेशद्वारं दृश्यते | ततः अनतिदूरे एव गिरिशिखरे विद्यमानः कृष्णवर्णात्मको बृहदाकारो गौतमबुद्धविग्रहो दृश्यते | निमीलितनेत्रो ध्यानमग्नः स्वस्तिहस्तः सहस्रदलारविन्दस्थितः विग्रहोऽयं निर्विकारमुखारविन्दभावेन यात्रिजनहृदयारविन्दं संतोतुष्यति | कांस्यनिर्मितोयं द्वादशोत्तरशतपादमितो (११२) औन्नत्ये पञ्चाशदुत्तरद्विशतटन्-मितो (२५०) गौरवे इति कथ्यते | विग्रहमूलस्थानमुपस्थातुं उपत्रिशतं सोपानानि सन्ति | विग्रहसामीप्यसुखपिपासार्दिताः सोपानपथारूढा नानावर्णवस्त्रधारिणः जनाः दूरेण पुष्पमाला इव वीक्षकनेत्राणि नन्दयन्ति स्म |

शरीरश्रमभयाद् दूरादेव बुद्धदेवं प्रणम्य निस्सृतोऽहं ततः समीपस्थं बौद्धपूजाभवनं प्रति | मार्गे द्वित्रा गावः तृणादाः स्वच्छन्देन हिण्डन्ते स्म | भारतेतरराष्ट्रेषु विरलं तादृशदृश्यम् | पुलकिताः जनाः गाभिस्सह स्वछायाचित्राणि संगृह्णन्ति स्म | पो-लिन् इति नामाङ्कितं पूजाभवनं तत् | प्राकारस्तस्य विशालः पूजासामग्रीपण्यगृहैः समलंकृतः | प्रवेशदेशे केचन सुन्दरविग्रहाः वर्तन्ते | प्राकारान्तः बृहत्पूजाभवनं विद्यते | पूजाभवनस्था विग्रहा अपि सुन्दराः | तत्र श्रद्धालवः जानूपविष्टाः नमनमर्पयन्ति स्म | भवनभित्तीनां बहिर्भागे चीनीयशैल्यां चित्रविचित्रसर्पादिकानां शिल्पकला दृश्यते | तदैव अर्चनादिकं समाप्य बहिः सवाद्यं परिभ्रमतः बौद्धसंन्यासिनः दर्शनं जातम् | केचन पीतवस्त्रधारिणः | अन्ये लोहितवस्त्रधराः |

एतावत् परिसरसौन्दर्यपानमत्तोऽहं क्षुधापीडितो जातः | दिष्ट्या प्राकारान्तस्थितोस्ति एकः शुद्धशाकाहारिभोजनालयः | तद्देशानुगुणं विभिन्नप्रकारकानि खाद्यानि उपलब्धानि तत्र | पिष्टनिर्मितं मधुरभक्ष्यमेकं रुचिरमासीत् | खाद्यं तद् जग्ध्वा पुनरेकवारं परितं सुमनोहरं सृष्टिसौन्दर्यमवलोक्य रज्जुमार्गस्थानकं समाससादोहम् | तन्मार्गेण सागरं पुनःपारितोऽहं नगरं प्रति प्रयाणं प्रारब्धवान् |

Wednesday, February 13, 2019

नरसिंहनखस्तुतिः

तत्त्ववादप्रवर्तक इति प्रसिद्धिं गतेन श्रीमन्मध्वाचार्येण विरचितं नरसिंहदेवपरं श्लोकद्वयात्मकं स्तोत्रं विशिष्टकाव्यकौशलमपि प्रकाशयति |
स्तोत्रम्
पान्त्वस्मान् पुरुहूत-वैरि-बलवन्मातङ्ग-माद्यद्-घटा-
कुम्भोच्चाद्रि-विपाटनाधिक-पटु-प्रत्येक-वज्रायिताः |
श्रीमत्-कण्ठीरवास्य-प्रतत-सु-नखरा दारिताराति-दूर-
प्रध्वस्त-ध्वान्त-शान्त-प्रवितत-मनसा भाविता भूरि-भागैः ||१||
लक्ष्मी-कान्त समन्ततोऽपि कलयन् नैवेशितुस्ते समं
पश्याम्युत्तम-वस्तु दूर-तरतोऽपास्तं रसो योऽष्टमः |
यद्रोषोत्कर-दक्ष-नेत्र-कुटिल-प्रान्तोत्थिताग्नि-स्फुरत्-
खद्योतोपम-विस्फुलिङ्ग-भसिता ब्रह्मेश-शक्रोत्कराः ||२||
पदच्छेदः
पान्तु अस्मान् पुरुहूत-वैरि-बलवन्मातङ्ग-माद्यद्-घटा-कुम्भोच्चाद्रि-विपाटनाधिक-पटु-प्रत्येक-वज्रायिताः श्रीमत्-कण्ठीरवास्य-प्रतत-सु-नखराः दारिताराति-दूर-प्रध्वस्त-ध्वान्त-शान्त-प्रवितत-मनसा भाविताः भूरिभागैः || १ ||
लक्ष्मी-कान्त समन्ततः अपि कलयन् न एव ईशितुः ते समं पश्यामि उत्तम-वस्तु दूर-तरतः अपास्तं रसः यः अष्टमः | यद्-रोषोत्कर-दक्ष-नेत्र-कुटिल-प्रान्तोत्थिताग्नि-स्फुरत्-खद्योतोपम-विस्फुलिङ्ग-भसिताः ब्रह्मेश-शक्रोत्कराः ||२||
अन्वयः
पुरुहूत-वैरि-बलवन्मातङ्ग-माद्यद्-घटा-कुम्भोच्चाद्रि-विपाटनाधिक-पटु-प्रत्येक-वज्रायिताः, श्रीमत्-कण्ठीरवास्य-प्रतत-सु-नखराः, दारिताराति-दूर-प्रध्वस्त-ध्वान्त-शान्त-प्रवितत-मनसा भूरिभागैः भाविताः, अस्मान् पान्तु || १ ||
(हे) लक्ष्मी-कान्त, समन्ततः अपि कलयन् न एव ईशितुः ते समं पश्यामि | उत्तम-वस्तु दूर-तरतः (एव) | (यथा) अपास्तं रसः यः अष्टमः | यद्-रोषोत्कर-दक्ष-नेत्र-कुटिल-प्रान्तोत्थिताग्नि-स्फुरत्-खद्योतोपम-विस्फुलिङ्ग-भसिताः ब्रह्मेश-शक्रोत्कराः ||२||
अर्थः
नरसिंहदेवस्य प्रत्येकं नखः उन्मत्तगजकुम्भस्थलसदृशान् असुरान् मारयितुम् अत्यन्तसमर्थः वर्तते | शत्रुनाशकाः अज्ञानान्धकारनाशकाः देवैः सर्वदा वन्दिताः नरसिंहनखाः अस्मान् पातु || १ ||
हे लक्ष्मीपते, सर्वशास्त्राणि सम्यक् परिशील्य अपि तवादृशं देवदेवं न पश्यामि | त्वयापि अधिकं उत्तमवस्तु विश्वे नास्ति एव | यथा लोके सप्तरसाः प्रसिद्धाः अष्टमरसः तु न विद्यते एव | केवलं तव रोषयुक्तनेत्रात् उत्पन्नात् अग्निकारणात् ब्रह्ममहेश्वरेन्द्रादयः देवाः भस्मीभूताः भवन्ति | यथा अग्निज्वालायां पतन्तः खद्योतकीटाः भस्मीभवन्ति || २ ||

Monday, February 11, 2019