Sunday, February 17, 2019

बृहद्बुद्धः - प्रवासकथनम् (Big Buddha - A Travelogue)

कतिपयदिनेभ्यः पूर्वं होङ्गकोङ्गनगरपर्यटनभाग्यप्राप्तोऽहं तद्देशे कृतमेकमुपप्रवासकथनं चित्रबद्धं विवर्णयिषामि |

भव्यभारतदेशान्निर्यातेषु उत्तमोत्तमवस्तुषु बौद्धाचारः अन्यतमः | नैकेषु पौर्वात्यराष्ट्रेषु बौद्धमतं परमादरणीयं वर्तते | होङ्गकोङ्गनगरदेशेऽपि अहिंसामूलोयं धर्मः बहुजनमान्यः | तन्नगरे बौद्धदेवालयाः दरीदृश्यन्ते | तेषु बृहद्बुद्धविग्रहः प्रेक्षणीयस्थानेषु विशिष्टतमः |

होङ्गकोङ्गनगरमध्यात् किञ्चिद्दूरं सागरवर्तिनि ल्याण्टौनामकद्वीपभागे प्रतिष्ठितोयं विग्रहः | नगरमध्यस्थितान्मम वसतिनिलयतः प्रातः नववादने प्रस्थितोऽहं लोहपथशकटेन (train) द्वीपान्तरतटं प्राप्तवान् | शकटस्थानकात् द्वीपं प्राप्तुं रज्जुमार्गः (ropeway) कल्पितः वर्तते | रज्जुमार्गस्थानके सुदीर्घा सर्पोपमा जनपङ्क्तिः अवर्तत | रज्जुमार्गयानपत्रं पूर्वमेव प्राप्तमपि पङ्क्तौ तिष्ठता मया घण्टामिता वेला अतीता | एकादशवादने रज्जुमार्गप्रवासभाग्यः प्राप्तः | सः प्रवासः अर्धघण्टामितः | लम्बमानात् काचावृतयानात् परिसरदृश्यमदः अतीव रमणीयम् | आ दिगन्तः नीलमहार्णवः पोतैः इतस्ततः अलंकृतः दिवाकरदर्शनाय मण्डितं ताराङ्कितगगनलेखाचित्रमिव परिशोभते स्म | समन्तात् वृक्षाच्छादितानि उत्तुङ्गशिखराणि मेघमार्गं निरुन्धन्ति गम्भीरभावं प्रकटयन्ति स्म | तटान्तरप्राप्तात् काचयानादवरुह्य द्वीपदेशं प्राविशमहम् |

तद्यानस्थानकमुखप्रदेशे बहिः यात्रिजनसौकर्यार्थं नैके भोजनालयाः शौचालयाः वस्त्रशिरस्त्राद्यापणाः विराजन्ते | अहो ! विचित्रम् | तत्र रोटिकामाषखाद्यादिकं विक्रीणन् एकः भारतीयभोजनालयोपि दृष्टः | तत्प्रदेशात् किञ्चित् पादानन्तरं पाषाणनिर्मितं बृहत् प्रवेशद्वारं दृश्यते | ततः अनतिदूरे एव गिरिशिखरे विद्यमानः कृष्णवर्णात्मको बृहदाकारो गौतमबुद्धविग्रहो दृश्यते | निमीलितनेत्रो ध्यानमग्नः स्वस्तिहस्तः सहस्रदलारविन्दस्थितः विग्रहोऽयं निर्विकारमुखारविन्दभावेन यात्रिजनहृदयारविन्दं संतोतुष्यति | कांस्यनिर्मितोयं द्वादशोत्तरशतपादमितो (११२) औन्नत्ये पञ्चाशदुत्तरद्विशतटन्-मितो (२५०) गौरवे इति कथ्यते | विग्रहमूलस्थानमुपस्थातुं उपत्रिशतं सोपानानि सन्ति | विग्रहसामीप्यसुखपिपासार्दिताः सोपानपथारूढा नानावर्णवस्त्रधारिणः जनाः दूरेण पुष्पमाला इव वीक्षकनेत्राणि नन्दयन्ति स्म |

शरीरश्रमभयाद् दूरादेव बुद्धदेवं प्रणम्य निस्सृतोऽहं ततः समीपस्थं बौद्धपूजाभवनं प्रति | मार्गे द्वित्रा गावः तृणादाः स्वच्छन्देन हिण्डन्ते स्म | भारतेतरराष्ट्रेषु विरलं तादृशदृश्यम् | पुलकिताः जनाः गाभिस्सह स्वछायाचित्राणि संगृह्णन्ति स्म | पो-लिन् इति नामाङ्कितं पूजाभवनं तत् | प्राकारस्तस्य विशालः पूजासामग्रीपण्यगृहैः समलंकृतः | प्रवेशदेशे केचन सुन्दरविग्रहाः वर्तन्ते | प्राकारान्तः बृहत्पूजाभवनं विद्यते | पूजाभवनस्था विग्रहा अपि सुन्दराः | तत्र श्रद्धालवः जानूपविष्टाः नमनमर्पयन्ति स्म | भवनभित्तीनां बहिर्भागे चीनीयशैल्यां चित्रविचित्रसर्पादिकानां शिल्पकला दृश्यते | तदैव अर्चनादिकं समाप्य बहिः सवाद्यं परिभ्रमतः बौद्धसंन्यासिनः दर्शनं जातम् | केचन पीतवस्त्रधारिणः | अन्ये लोहितवस्त्रधराः |

एतावत् परिसरसौन्दर्यपानमत्तोऽहं क्षुधापीडितो जातः | दिष्ट्या प्राकारान्तस्थितोस्ति एकः शुद्धशाकाहारिभोजनालयः | तद्देशानुगुणं विभिन्नप्रकारकानि खाद्यानि उपलब्धानि तत्र | पिष्टनिर्मितं मधुरभक्ष्यमेकं रुचिरमासीत् | खाद्यं तद् जग्ध्वा पुनरेकवारं परितं सुमनोहरं सृष्टिसौन्दर्यमवलोक्य रज्जुमार्गस्थानकं समाससादोहम् | तन्मार्गेण सागरं पुनःपारितोऽहं नगरं प्रति प्रयाणं प्रारब्धवान् |

No comments:

Post a Comment