Sunday, March 10, 2019

Route of Pandavas' Military Expedition

राजसूययागप्रसङ्गे पाण्डवनां दिग्विजययात्रायाः मार्गदर्शिनी

श्रीवेदव्यासप्रणीते श्रीमन्महाभारतग्रन्थे सभापर्वान्तर्गतः राजसूययागप्रसङ्गः | तत्सन्दर्भे पाण्डवभ्रातरः भारतवर्षे दिग्विजययात्रां गच्छन्ति | भीमः पूर्वदेशं व्रजति | अर्जुनः उत्तरदिशां लक्षयति | नकुलः पश्चिमं सहदेवः दक्षिणं च यातः | मूलपाठमनुसृत्य तेषां पाण्डववीराणां यात्रामार्गानुकरणप्रयत्नोयम् | तत्कालीनदेशजनपदाः सर्वे साम्प्रतं नैव निश्चयेन ज्ञायन्ते | तथापि स्थूलरूपेण अवगाहनं शक्यम् | अन्तर्जाले स्थानान्तरेषु काचन एताः मार्गसूचिकाः स्युः | परन्तु भीमस्य पन्थाः नोपलब्धः | अपि च सर्वे पथदर्शिकाः एकस्मिन् चित्रे नोपलब्धाः | इत्येतत्र अल्पप्रयासः |

In the epic book Mahabharata authored by Shri Vedavyasa, the Sabhaparva has a major event Rajasuya yajna. During that time, Bhima, Arjuna, Nakula and Sahadeva carry out military expeditions across the Indian subcontinent. The following image depicts the routes taken by each of them. Though there could be similar maps available elsewhere on the Internet, the path taken by Bhima could not be found there and also all the paths could not be found on the same map. Here is a small attempt to show them on one page.



The map at the time of Mahabharata was sourced from here.

Friday, February 22, 2019

नारदस्य चातुर्यम्



सूर्यपुत्रः शनिदेवः अमङ्गलकारी इति कुख्यातः त्रिषु लोकेषु। देवासुरमानवाः तस्य पीडायाः बिभ्यति। छायासुतस्य तस्य छायापि नेष्यते कुत्रापि। सः महाकोपिष्ठोऽपि। रमा क्षीरसमुद्रतनया। विष्णुपत्नी सा लक्ष्मीः तु परममङ्गलदेवता। श्रीरिति सर्वत्र पूजिता।
एकदा श्रीशनिदेवयोर्मध्ये विवादः संजातः। तयोर्मध्ये कः चारुतरः। कस्य गुणाः आधिक्येन प्रशंसनार्हा इति। मिथः विजल्पन्तौ तौ निर्णयार्थं नारदमुनेः सकाशं ययौ। देवर्षिः नारदः ब्रह्मतनयः। त्रिलोकसंचारी सः देवदानवमर्त्यलोकेषु समभावेन आदिदरिष्यते। भागवताग्रेसरः सः महान्चतुरोऽपि।

अभ्यागतौ तौ रमारविजौ अर्घ्यपाद्यादिना सत्कृत्य सुरमुनिः आगमनकारणं पप्रच्छ। शनैश्चर उवाच - तप्तलोहकान्तिसंपन्नोऽहं महाबली निखिललोकपीडनसमर्थः। रमा उवाच - सुवर्णप्रभाशोभिताहं सकललोकसंपत्कारिणी। आवयोः कः चारुतरः इति प्रश्नस्य समाधानं वक्तुमर्हसि इति अवदताम्। नारदस्य संकटमापतितम्। श्रीरित्युदिते शनिकोपभागयोगः शनिरित्युक्ते श्रीकटाक्षविभवहानिः।

निर्णयवचनाकर्णाभिलषन्तौ स्वसन्निकटमास्थितौ तौ नारदोऽवदत् - अहो! भाग्यं मम यदीदृशं महान्निर्णयावसरः प्रदीयते। अवश्यं परीक्ष्य वाम् इदमित्थं करोमि। इत्युक्त्वा उभावपि पञ्चषान् पादान् दूरं चलितुम् अकथयत्। श्रीः शनिश्च किञ्चिद्दूरं चलन्तौ नारदात् अपगच्छतः। नारदः तदा तौ पुनः स्वसमीपं पुनरागन्तुं कथयामास। तावुभौ नारदाभिमुखं समुपासरताम्। ततः स्मयन्निव नारदो बद्धाञ्जलिरवोचत् - संपरीक्षणं समाप्तं यन्मया निर्णीयते। अपसरणे शनैश्चरः शुभावहः। उपसरणे श्रीः सुखदायिनी इति। नारदवचनं श्रुत्वा संतुष्टौ रमाशनैश्चरौ निजधामौ प्रति निर्जग्मतुः।

Sunday, February 17, 2019

बृहद्बुद्धः - प्रवासकथनम् (Big Buddha - A Travelogue)

कतिपयदिनेभ्यः पूर्वं होङ्गकोङ्गनगरपर्यटनभाग्यप्राप्तोऽहं तद्देशे कृतमेकमुपप्रवासकथनं चित्रबद्धं विवर्णयिषामि |

भव्यभारतदेशान्निर्यातेषु उत्तमोत्तमवस्तुषु बौद्धाचारः अन्यतमः | नैकेषु पौर्वात्यराष्ट्रेषु बौद्धमतं परमादरणीयं वर्तते | होङ्गकोङ्गनगरदेशेऽपि अहिंसामूलोयं धर्मः बहुजनमान्यः | तन्नगरे बौद्धदेवालयाः दरीदृश्यन्ते | तेषु बृहद्बुद्धविग्रहः प्रेक्षणीयस्थानेषु विशिष्टतमः |

होङ्गकोङ्गनगरमध्यात् किञ्चिद्दूरं सागरवर्तिनि ल्याण्टौनामकद्वीपभागे प्रतिष्ठितोयं विग्रहः | नगरमध्यस्थितान्मम वसतिनिलयतः प्रातः नववादने प्रस्थितोऽहं लोहपथशकटेन (train) द्वीपान्तरतटं प्राप्तवान् | शकटस्थानकात् द्वीपं प्राप्तुं रज्जुमार्गः (ropeway) कल्पितः वर्तते | रज्जुमार्गस्थानके सुदीर्घा सर्पोपमा जनपङ्क्तिः अवर्तत | रज्जुमार्गयानपत्रं पूर्वमेव प्राप्तमपि पङ्क्तौ तिष्ठता मया घण्टामिता वेला अतीता | एकादशवादने रज्जुमार्गप्रवासभाग्यः प्राप्तः | सः प्रवासः अर्धघण्टामितः | लम्बमानात् काचावृतयानात् परिसरदृश्यमदः अतीव रमणीयम् | आ दिगन्तः नीलमहार्णवः पोतैः इतस्ततः अलंकृतः दिवाकरदर्शनाय मण्डितं ताराङ्कितगगनलेखाचित्रमिव परिशोभते स्म | समन्तात् वृक्षाच्छादितानि उत्तुङ्गशिखराणि मेघमार्गं निरुन्धन्ति गम्भीरभावं प्रकटयन्ति स्म | तटान्तरप्राप्तात् काचयानादवरुह्य द्वीपदेशं प्राविशमहम् |

तद्यानस्थानकमुखप्रदेशे बहिः यात्रिजनसौकर्यार्थं नैके भोजनालयाः शौचालयाः वस्त्रशिरस्त्राद्यापणाः विराजन्ते | अहो ! विचित्रम् | तत्र रोटिकामाषखाद्यादिकं विक्रीणन् एकः भारतीयभोजनालयोपि दृष्टः | तत्प्रदेशात् किञ्चित् पादानन्तरं पाषाणनिर्मितं बृहत् प्रवेशद्वारं दृश्यते | ततः अनतिदूरे एव गिरिशिखरे विद्यमानः कृष्णवर्णात्मको बृहदाकारो गौतमबुद्धविग्रहो दृश्यते | निमीलितनेत्रो ध्यानमग्नः स्वस्तिहस्तः सहस्रदलारविन्दस्थितः विग्रहोऽयं निर्विकारमुखारविन्दभावेन यात्रिजनहृदयारविन्दं संतोतुष्यति | कांस्यनिर्मितोयं द्वादशोत्तरशतपादमितो (११२) औन्नत्ये पञ्चाशदुत्तरद्विशतटन्-मितो (२५०) गौरवे इति कथ्यते | विग्रहमूलस्थानमुपस्थातुं उपत्रिशतं सोपानानि सन्ति | विग्रहसामीप्यसुखपिपासार्दिताः सोपानपथारूढा नानावर्णवस्त्रधारिणः जनाः दूरेण पुष्पमाला इव वीक्षकनेत्राणि नन्दयन्ति स्म |

शरीरश्रमभयाद् दूरादेव बुद्धदेवं प्रणम्य निस्सृतोऽहं ततः समीपस्थं बौद्धपूजाभवनं प्रति | मार्गे द्वित्रा गावः तृणादाः स्वच्छन्देन हिण्डन्ते स्म | भारतेतरराष्ट्रेषु विरलं तादृशदृश्यम् | पुलकिताः जनाः गाभिस्सह स्वछायाचित्राणि संगृह्णन्ति स्म | पो-लिन् इति नामाङ्कितं पूजाभवनं तत् | प्राकारस्तस्य विशालः पूजासामग्रीपण्यगृहैः समलंकृतः | प्रवेशदेशे केचन सुन्दरविग्रहाः वर्तन्ते | प्राकारान्तः बृहत्पूजाभवनं विद्यते | पूजाभवनस्था विग्रहा अपि सुन्दराः | तत्र श्रद्धालवः जानूपविष्टाः नमनमर्पयन्ति स्म | भवनभित्तीनां बहिर्भागे चीनीयशैल्यां चित्रविचित्रसर्पादिकानां शिल्पकला दृश्यते | तदैव अर्चनादिकं समाप्य बहिः सवाद्यं परिभ्रमतः बौद्धसंन्यासिनः दर्शनं जातम् | केचन पीतवस्त्रधारिणः | अन्ये लोहितवस्त्रधराः |

एतावत् परिसरसौन्दर्यपानमत्तोऽहं क्षुधापीडितो जातः | दिष्ट्या प्राकारान्तस्थितोस्ति एकः शुद्धशाकाहारिभोजनालयः | तद्देशानुगुणं विभिन्नप्रकारकानि खाद्यानि उपलब्धानि तत्र | पिष्टनिर्मितं मधुरभक्ष्यमेकं रुचिरमासीत् | खाद्यं तद् जग्ध्वा पुनरेकवारं परितं सुमनोहरं सृष्टिसौन्दर्यमवलोक्य रज्जुमार्गस्थानकं समाससादोहम् | तन्मार्गेण सागरं पुनःपारितोऽहं नगरं प्रति प्रयाणं प्रारब्धवान् |

Wednesday, February 13, 2019

नरसिंहनखस्तुतिः

तत्त्ववादप्रवर्तक इति प्रसिद्धिं गतेन श्रीमन्मध्वाचार्येण विरचितं नरसिंहदेवपरं श्लोकद्वयात्मकं स्तोत्रं विशिष्टकाव्यकौशलमपि प्रकाशयति |
स्तोत्रम्
पान्त्वस्मान् पुरुहूत-वैरि-बलवन्मातङ्ग-माद्यद्-घटा-
कुम्भोच्चाद्रि-विपाटनाधिक-पटु-प्रत्येक-वज्रायिताः |
श्रीमत्-कण्ठीरवास्य-प्रतत-सु-नखरा दारिताराति-दूर-
प्रध्वस्त-ध्वान्त-शान्त-प्रवितत-मनसा भाविता भूरि-भागैः ||१||
लक्ष्मी-कान्त समन्ततोऽपि कलयन् नैवेशितुस्ते समं
पश्याम्युत्तम-वस्तु दूर-तरतोऽपास्तं रसो योऽष्टमः |
यद्रोषोत्कर-दक्ष-नेत्र-कुटिल-प्रान्तोत्थिताग्नि-स्फुरत्-
खद्योतोपम-विस्फुलिङ्ग-भसिता ब्रह्मेश-शक्रोत्कराः ||२||
पदच्छेदः
पान्तु अस्मान् पुरुहूत-वैरि-बलवन्मातङ्ग-माद्यद्-घटा-कुम्भोच्चाद्रि-विपाटनाधिक-पटु-प्रत्येक-वज्रायिताः श्रीमत्-कण्ठीरवास्य-प्रतत-सु-नखराः दारिताराति-दूर-प्रध्वस्त-ध्वान्त-शान्त-प्रवितत-मनसा भाविताः भूरिभागैः || १ ||
लक्ष्मी-कान्त समन्ततः अपि कलयन् न एव ईशितुः ते समं पश्यामि उत्तम-वस्तु दूर-तरतः अपास्तं रसः यः अष्टमः | यद्-रोषोत्कर-दक्ष-नेत्र-कुटिल-प्रान्तोत्थिताग्नि-स्फुरत्-खद्योतोपम-विस्फुलिङ्ग-भसिताः ब्रह्मेश-शक्रोत्कराः ||२||
अन्वयः
पुरुहूत-वैरि-बलवन्मातङ्ग-माद्यद्-घटा-कुम्भोच्चाद्रि-विपाटनाधिक-पटु-प्रत्येक-वज्रायिताः, श्रीमत्-कण्ठीरवास्य-प्रतत-सु-नखराः, दारिताराति-दूर-प्रध्वस्त-ध्वान्त-शान्त-प्रवितत-मनसा भूरिभागैः भाविताः, अस्मान् पान्तु || १ ||
(हे) लक्ष्मी-कान्त, समन्ततः अपि कलयन् न एव ईशितुः ते समं पश्यामि | उत्तम-वस्तु दूर-तरतः (एव) | (यथा) अपास्तं रसः यः अष्टमः | यद्-रोषोत्कर-दक्ष-नेत्र-कुटिल-प्रान्तोत्थिताग्नि-स्फुरत्-खद्योतोपम-विस्फुलिङ्ग-भसिताः ब्रह्मेश-शक्रोत्कराः ||२||
अर्थः
नरसिंहदेवस्य प्रत्येकं नखः उन्मत्तगजकुम्भस्थलसदृशान् असुरान् मारयितुम् अत्यन्तसमर्थः वर्तते | शत्रुनाशकाः अज्ञानान्धकारनाशकाः देवैः सर्वदा वन्दिताः नरसिंहनखाः अस्मान् पातु || १ ||
हे लक्ष्मीपते, सर्वशास्त्राणि सम्यक् परिशील्य अपि तवादृशं देवदेवं न पश्यामि | त्वयापि अधिकं उत्तमवस्तु विश्वे नास्ति एव | यथा लोके सप्तरसाः प्रसिद्धाः अष्टमरसः तु न विद्यते एव | केवलं तव रोषयुक्तनेत्रात् उत्पन्नात् अग्निकारणात् ब्रह्ममहेश्वरेन्द्रादयः देवाः भस्मीभूताः भवन्ति | यथा अग्निज्वालायां पतन्तः खद्योतकीटाः भस्मीभवन्ति || २ ||

Monday, February 11, 2019

Sunday, October 21, 2018

कन्दुकस्तुतिः Kandukastuti of Madhvacharya

कन्दुकः - गेन्दुकः इति जनप्रियः सर्वसामन्यश्च क्रीडनकः | मध्वमुनिना (1238-1317) बाल्यकाले पूर्वाश्रमे विरचितं सुमनोहरस्तोत्रमिदं तस्य काव्यकौशलमपि प्रकाशयति |

श्रीमन्मध्वाचार्यविरचिता कन्दुकस्तुतिः

अम्बरगङ्गा-चुम्बित-पादः पदतल-विदलित-गुरुतर-शकटः ।
कालियनाग-क्ष्वेल-निहन्ता सरसिज-नवदल-विकसित-नयनः ॥१॥
कालघनाली-कर्बुर-कायः शरशत-शकलित-रिपुशत-निवहः ।
सन्ततमस्मान् पातु मुरारिः सततग-समजव-खगपति-निरतः ॥२॥

अन्वयः 
अम्बरगङ्गा-चुम्बित-पादः पदतल-विदलित-गुरुतर-शकटः कालियनाग-क्ष्वेल-निहन्ता सरसिज-नवदल-विकसित-नयनः कालघनाली-कर्बुर-कायः शरशत-शकलित-रिपुशत-निवहः सततग-समजव-खगपति-निरतः मुरारिः अस्मान् सन्ततं पातु |

प्रतिपदार्थः 
अम्बरगङ्गाचुम्बितपादः 
अम्बरम् = आकाशः | द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् - इत्यमरः | आकाशे देवलोके वा प्रवहति गङ्गा सा अम्बरगङ्गा | तया देवगङ्गया चुम्बितः पादः यस्य सः अम्बरगङ्गाचुम्बितपादः | वामानावतारे त्रिविक्रमरूपसमये प्रजापतिब्रह्मणा दिव्यगङ्गाजलेन पूजितः | उक्तं च -
धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र |
स्वर्धन्यभून्नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः || (श्रीमद्भागवतम् ८.२१.४) 

पदतलविदलितगुरुतरशकटः
यस्य पादतलभागेन गुरुतरः महान् शकटः यानविशेषः विदलितः भग्नः सः | शैशवावस्थायां श्रीकृष्णः शकटरूपिणम् असुरं लीलया पादाघातेन हतवान् इति | क्लीबेऽनः शकटोऽस्त्री स्यात् गन्त्री कम्बलिवाह्यकम् - इत्यमरः |

कालियनागक्ष्वेलनिहन्ता 
कालियनामकनागस्य विषं यः अपहृतवान् | कन्दुकग्रहणव्याजेन यमुनाजलं प्रविश्य श्रीकृष्णः तन्निवासं विषसर्पं मर्दितवान् | क्ष्वेलस्तु गरलं विषम् - इत्यमरः |

सरसिजनवदलविकसितनयनः 
सरसिजं कमलम् | सरसि जायते इति | नवदलविकसितं नूतनशकलैः पुष्पितं | कोमलकमलपुष्पमिव नेत्रं यस्य सः |
कालघनालीकर्बुरकायः 
काळाः कृष्णवर्णाः घनाः मेघाः | तेषाम् आली पङ्क्तिः | आली सख्यावली अपि - इत्यमरः | कृष्णमेघवत् वर्णयुक्तः कायः देहः यस्य सः | चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे - इत्यमरः |

शरशतशकलितरिपुशतनिवहः 
शरशतं बाणसमूहेन रिपुशतनिवहः शत्रुगणः शकलितः खण्डितः पराजितः येन सः | समूहनिवहव्यूहसंदोहविसरव्रजाः - इत्यमरः | रामकृष्णाद्यवतारेषु दुष्टशिक्षणं शिष्टरक्षणं कृतवान् |

सततगसमजवखगपतिनिरतः

सततगः सततं सर्वदा गच्छतीति वायुः | समजवः सदृशवेगः | वायुः सदृशः वेगः यस्य अस्ति सः गरुडः | खगानां पक्षिणां पतिः श्रेष्ठः गरुडः | तस्मिन् गरुडे निरतः संस्थितः | गरुडवाहनः विष्णुः |

मुरारिः
मुरनामकदैत्यस्य अरिः हन्ता | मुरस्य संसारतापस्य हर्ता इति वा |

सन्ततम् अस्मान् पातु 
सन्ततं सर्वदा अस्मान् भक्तजनान् पातु रक्षतु |

Saturday, October 6, 2018

शृगालस्य कूटनीतिः Fox's Vile Strategy

(महाभारताधारिता कथा)
एकस्मिन् महारण्ये कश्चिदेकः चतुरः श्रृगालः वसति स्म | व्याघ्रः वृकः नकुलः मूषकश्चेति तस्य चत्वारि मित्राणि आसन् | एकदा आहारेप्सवः ते तृणप्रदेशे चरन्तं बलिनं हरिणमेकं दृष्टवन्तः | वेगशीलः सः मृगः कथं मारणीयः इति मित्रवृन्दः चिन्ताग्रस्तोऽभवत् । कुशाग्रमतिः शृगालः उपायमेकं चिन्तितवान् | तदनुसारं यदा हरिणः शयानः तदा मूषकः तस्य पादेषु दशनं कृतवान् । व्रणपीडितो हरिणः धावने मन्दगतिः अभवत् । तदा व्याघ्रः हरिणं सकृदेव हतवान् । कपटहृदयः शृगालः भक्ष्यविभजनमनिच्छन् कूटनीतिं व्यदधात् । सः अशनातुरान् व्याघ्रनकुलमूषकवृकान् शिष्टधर्मं बोधयन् स्नात्वा आगन्तुं व्यपादिशत् । तथेति स्नानार्थं निर्गताः सर्वे । तेषु व्याघ्रः सर्वप्रथमः शुचीभूय प्रत्यागच्छत् ।

शृगालः ‌‌- हे वीरवर ! मूषकमुखात् श्रुतं मया यत् स एव मृगहन्तकः न तु अमानी व्याघ्रः इति ।
तच्छ्रुत्वा व्याघ्रः अन्यैर्हतं न खादामि इति उक्त्वा ततः निरगच्छत् । तदा आगतः मूषकः ।
शृगालः - हे मूषक ! मृगमांसं विषसमं च मूषकमेव खादामीति नकुलभाषणमासीत् ।
तदाकर्ण्य मूषकः सत्वरेण स्वबिलं प्राविशत् । तदनन्तरमागतः वृकः ।
शृगालः - हे वृकराज ! व्याघ्रोऽसौ क्रुद्धो अद्य । अस्मान् हन्तुकामः सः अचिरेणैव इह आयास्यति ।
तच्छ्रुत्वा वृकः ततः पलायितः । इदानीं नकुलः आगतः ।
शृगालः - हे नकुल ! मया सह युद्धे अन्ये सर्वे पराजिताः । यदि त्वं समर्थोऽसि मां निर्जित्य मृगाहारमिमं भक्षयस्व ।
व्याघ्रवृकौ येन पराजिताः सः मया जेतुं दुःशकः इति भीत्वा नकुलः ततः पलायितः ।

शृगालः निष्कण्टकः सर्वं पिशितं जग्ध्वा संतृप्तोऽभवत् ।