Saturday, October 30, 2021

सौरमण्डलम् - लघुपरिचयः Solar System - Short Introduction


सौरमण्डलम् इत्युक्ते सूर्यस्य मण्डलम् । सूर्यस्य कुटुम्बः । 

सौरमण्डले अस्माकं वासस्थानं भूग्रहः अथवा भूमिः । भूग्रहस्य विषये केचन अंशाः -

भूग्रहस्य वयः प्रायेण पञ्चचत्वारिंशत् कोटिः संवत्सराः । इत्युक्ते भूग्रहस्य जन्म पञ्चचत्वारिंशत् कोटिसंवत्सरपूर्वम् अभवत् । अस्य ग्रहः वायुमण्डलेन आवृतः । अस्माकं वायुमण्डले पञ्चांशभागः आम्लजनक इति अनिलः विद्यते । अतः एव बहुशः प्राणिनां जीवधारणं साध्यम् ।

भूग्रहस्य पादोनपृष्ठभागः समुद्रनदीसरोवरादिजलेन आवृतः । जलगर्भेऽपि बहवः जीवजन्तवः वसन्ति । कन्दुकसदृशः गोलाकारः अयं भूग्रहः सूर्यं परितः परिभ्रमति । सूर्यं परितः भूमेः एकः परिभ्रमणकालः एकः संवत्सरः इत्युच्यते । कन्दुकसदृशः गोलाकारः अयं भूग्रहः स्वस्य अक्षं परितः अपि परिक्राम्यति । अस्य अक्षपरिक्रमणावधिः एकं दिनम् इति उच्यते । अस्माकं प्रियग्रहस्य अस्य एकः उपग्रहः विद्यते । स एव सुन्दरः चन्द्रः ।

सूर्यः एकः स्वयं प्रकाशितः आकाशकायः । नक्षत्रविशेषः । तस्य कुटुम्बे नव ग्रहाः सन्ति । अस्माकं सौरमण्डले नवग्रहाः एताः -

बुधः शुक्रः भूमिः मङ्गलः गुरुः शनिः युरेनस् नेप्च्यून् प्लुटो चेति । सौरमण्डले न केवलं ग्रहाः परन्तु अन्येऽपि आकाशकायाः वर्तन्ते । यथा कुब्जग्रहाः उल्काः धूमकेतवः इत्यादयः । सौरमण्डले सूर्यः केन्द्रस्थाने भवति । सौरमण्डलवर्तिनः सर्वे आकाशकायाः सूर्यं केन्द्रीकृत्य आकाशे प्लवन्ते । एते ग्रहाः सूर्यं परितः पृथक् पृथक् दूरेषु प्रायेण वृत्ताकारे परिभ्रमन्ति । 

विशालप्रायं सौरमण्डलम् इदं नक्षत्रपुञ्जस्य एकस्य एकः अल्पभागः । नक्षत्रपुञ्जस्य अस्य नाम क्षीरगङ्गा इति । अस्माकं सौरमण्डलम् क्षीरगङ्गायाः केन्द्रस्थानं परितः भ्रमति । अस्मिन् नक्षत्रपुञ्जे चत्वारः खर्वाः (400 billion)नक्षत्राणि अनेके ग्रहाः उपग्रहाः आकाशकायाः वर्तन्ते ।

विशालप्रायः क्षीरगङ्गानक्षत्रपुञ्जः अपि विश्वस्य कणमात्रभागः । विश्वे प्रायः शतद्वयं शतकोटिः नक्षत्रपुञ्जाः वर्तन्ते इति विज्ञानिनां ऊहनम् । केचन विज्ञानिनः न केवलम् एकं विश्वं परन्तु अनेकानि विश्वानि विद्यन्ते इत्यपि वदन्ति ।

अहो । ऊहातीतोयं ब्रह्माण्डस्य परिमाणः । अद्भुतः तस्य व्यापरः ।  सर्वस्यास्य को हेतुः किमर्थं परिभ्रमन्ति आकाशे । सृष्टिस्थितिलयं किमर्थं गच्छति । को वा पृथिव्यां जीवजन्तूनाम् जीवनलक्ष्यम् । अस्य अनन्तरूपस्य विश्वस्य विश्वनियामकस्य संकीर्तनाय कुतो वयं समर्थाः । अत एव उच्यते -

अग्ने नय सुपथा राये अस्मान्‌ विश्वानि देव वयुनानि विद्वान्‌।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥

(ईशोपनिषत्)

This is also available on YouTube.



Saturday, September 4, 2021

गणेशस्तुतिद्वितयम् - Ganesha Stuti Couplet


उरगाङ्किततुन्दिलमाखुरथं धृतपाशवराङ्कुशशंभुसुतम् ।

उरुकुक्षिसमाहितविष्णुपदं दशनैकसुशोभितमोदकरम् ॥

हिमपर्वतजामुखपद्मसुखं सुजनार्तिहरं करिराजमुखम् ।

प्रथमार्चितसिद्धिददेववरं प्रणमामि गणाधिपतिं वरदम् ॥

पदच्छेदनम् तथा अर्थः -

उरगाङ्किततुन्दिलः = यस्य तुन्दिलः नाभिप्रदेशः पीनः । स च प्रदेशः उरगेण सर्पेण अङ्कितः मण्डितः वर्तते । 

His navel region is protruding (because of huge belly). That region is adorned by a serpent.

आखुरथः = यस्य रथः वाहनम् आखुः मूषकः । His vehicle is a mouse.

धृतपाशवराङ्कुशः = सः पाशं वराङ्कुशं हस्तयोः धृतवान् अस्ति ।

He is holding a rope and a hook (as a weapon).

शंभुसुतः = सः शंभोः शङ्करस्य सुतः । He is the son of Lord Shambhu.

उरुकुक्षिसमाहितविष्णुपदः = तस्य उरुकुक्षौ महति उदरे विष्णुपदम् आकाशः समाहितो वर्तते । गणेशः आकाशाभिमानी देवः इति ।

In his big belly contains sky/space. (Ganesha is known as the lord of space). 

दशनैकसुशोभितमोदकरम् = सः दशनैकेन एकेन दन्तेन सुशोभितः।

He is adorned with (only) one tooth.

मोदकरम् = मोदम् आनन्दम् यच्छति भक्तेभ्यः । करे स्वहस्ते मोदरूपम् आनन्दरूपम् मोदकभक्ष्यं धृतवान् वा ।

He provides happiness. Or he is holding modaka in his hand. 

हिमपर्वतजामुखपद्मसुखः = सः हिमपर्वतजायाः पार्वत्याः मुखपद्मं मुखकमलं सुखयति । मात्रे आनन्दम् ददाति ।

He gives joy to goddess Parvati (his mother). 

सुजनार्तिहरः = सुजनानाम् सज्जनानाम् आर्तिम् दुःखम् हरति ।

He takes away the sorrows of virtuous people.

करिराजमुखः = गजमुखः । He has an elephant-head.

प्रथमार्चितसिद्धिददेववरः = सः प्रथमार्चितः सर्वादौ वन्द्यः । सिद्धिदः देववरः सिद्धिप्रदेषु देवेषु उत्तमः ।

He is worshipped first. He is the best amongst the gods who give fulfilment (success).

गणाधिपतिः = गणानाम् अधिपतिः नियामकः ।  He is the leader/controller of ganas (his groups).

वरदः = वरप्रदः । He is the giver of boons.

प्रणमामि = तादृशम् (देवम्) नमामि । I bow to that god - Ganesha.




Saturday, August 21, 2021

श्रीगुरुराघवेन्द्रस्तवनम् Guru Raghavendra Stavanam


श्रीपूर्णबोधमतदुग्धाब्धिचन्द्रसमदुर्वादिजालदहनं
लक्ष्मीशशक्रसुरसंदोहवन्द्यगुणपादाब्जभक्तिवचनम् ।
प्रह्लादराजयतिराजेन्द्रपूर्ववरकायावतीर्णसुजनं
पद्मावतीप्रणयगोपालपद्मधुपगोपीसुतं भुवनजम् ॥१॥

वेदोक्तमन्त्रविधिसंजातदाहवरुणोक्त्याचिरात्प्रशमनं
सच्छास्त्रकोविदसुधीन्द्राप्तदण्डकरसंन्यासवेषधरणम् ।
तत्त्वप्रसारकटिबद्धातिवाक्चतुरसद्वृन्दनन्दनकरं
बालापमृत्युहरक्रव्याशनापसरलीलालसद्विलसितम् ॥२॥

भाट्टप्रबन्धसुखखण्डार्थकृत्परिमळाख्यानसूत्रसुकरं
तुङ्गानदीनिकटमन्त्रालयाख्यपुरवृन्दावनस्थवरदम् ।
कोदण्डपाणिपदवेणुप्रियाङ्घ्रिपरवीणाप्रवीणममलं
भक्तानुतापभयहृद्राघवेन्द्रगुरुराजं भजे सुमतिदम् ॥३॥

(श्रीहरिगुर्वनुग्रहेण रचितं श्लोकत्रयम्)

अर्थः

प्रथमश्लोकः श्रीः इति मङ्गलाचरणम् । पूर्णबोधः आनन्दतीर्थः । तस्य मतं तत्त्ववादः । तत्तु श्रीदेव्यनुमतम् । तदेव दुग्दाब्धिः क्षीरसमुद्रः । तस्मिन् चन्द्र इव (प्रकाशते अयं राघवेन्द्रः) । चन्द्र इव आह्लादकरः अपि दुर्वादीनां दुष्टमतसमर्थकानां जालं जालरूपं मायावादं दाहयति । तस्य अवतारविषये - लक्ष्मीः ईशः रुद्रः शक्रः इन्द्रः सुरादयः । तेषां सन्दोहः समूहः । तेन वन्द्यः नारायणः । तस्य नारायणस्य पादः एव अब्जम् पद्मम् । हरिपादकमले भक्तिं बोधयन्ति अस्य यतेः वचनानि । पूर्वं प्रह्लादराजरूपेण अस्य यतेः जन्म आसीत् । तदनन्तरं परजन्मनि यतिराजेन्द्रः व्यासयतिः इति ख्यातः । स एव राघवेन्द्रयतिरूपेण जातः । तस्य जन्मविषये - पद्मावती वेङ्कटेशावतारकाले लक्ष्मीरूपख्याता । तस्याः प्रणयः प्रीतिरूपः गोपालः हरिः । तस्य हरेः पत् पादः । हरिपादस्य मधुपः भ्रमरः । हरिपादे आसक्तः । सः यतिः गोपीसुतः । यतेः माता गोपाम्बिका इति । सः यतिः भुवनजः । सः भुवनगिरिप्रदेशे जातः । द्वितीयश्लोकः अग्निसूक्तपठनविषयः - भूसुरभोजनसन्दर्भे अस्य विधिबद्धवेदोक्ताग्निसूक्तपठनात् भूसुराः सर्वे त्वग्दाहात् पीडिताः । भूसुरैः प्रार्थितः एषः वरुणसूक्तं पठित्वा तद्दाहम् अचिरात् तूर्णं न्यवारयत् । संन्यासस्वीकारः - सच्छास्त्रेषु कोविदः पारङ्गतः सुधीन्द्रमुनिः । तेन तुरीयाश्रमो दत्तः अस्मै । संन्यासिचिह्नं दण्डः । संन्यासग्रहणात्परम् एषः तत्त्ववादस्य प्रचाराय कृतसंकल्पः । वाक्यार्थे चतुरः सः सज्जनानां वृन्दस्य समूहस्य नन्दनकरः आनन्ददायकः अभवत् । लीलाविषये - कस्यचित् श्रेष्ठिनः गृहे उत्सवसन्दर्भे मृतं श्रेष्ठिपुत्रं पुनर्जीवितमकरोदिति लीलाप्रसङ्गः । म्लेच्छभूपेन अस्य प्रभावपरीक्षाहेतुना अर्पितं क्रव्योदनं मांसभक्ष्यम् अस्य जलप्रोक्षणात् मधुरफलेषु परिवर्तितोभवत् । तृतीयश्लोकः ग्रन्थरचनाविषये - सुखकरं भाट्टसंग्रहं नैके खण्डार्थग्रन्थान् परिमळादिग्रन्थान् विरचितवान् । वृन्दावनम् - सः वरदः तुङ्गभद्रानदीतीरस्थे मन्त्रालयनामकपुरे वृन्दावनप्रवेशम् अकुरुत । कोदण्डपाणिः श्रीरामः । रामस्य पादपरः भक्तः । वेणुप्रियः श्रीकृष्णः । कृष्णस्य अङ्घ्रिपरः भक्तः । अयं यतिः वीणावादने प्रवीणः । अमलः शुद्धः । सः भक्तजनानां तापहरणः भयहरणः च । सः सुष्ठु मतिं ददाति । सन्मार्गे प्रेरयति । तादृशं राघवेन्द्रगुरुश्रेष्ठं भजे ।

गानम्


अर्थविवरणम्



Saturday, August 14, 2021

पर्सीड् उल्कावृष्टिः Perseid Meteor Shower



अनन्ते अमुष्मिन् आकाशे अनन्ता आकाशकायाः निरन्तरं चलनाशीलाः दरीदृश्यन्ते । आकाशकायाः विविधप्रकारकाः सन्ति । ग्रहाः उपग्रहाः नक्षत्राणि महानक्षत्राणि कृष्णबिलानि इत्यादीनि । तेषु धूमकेतवः इत्यपि प्रकारान्तरः । अस्माकं सौरमण्डले केन्द्रभूतः सूर्यः । बुधादिग्रहाः परिभ्रमन्ति तत् केन्द्रस्थानम् । न केवलं ग्रहाः परन्तु नैके अन्ये आकाशकायाः अपि परिभ्रमणं कुर्वन्ति सूर्यं परितः । तेषु बहवः धूमकेतवोपि सन्ति । धूमकेतुः (comet) नाम विशिष्टः आकाशकायः । धूमकेतोः प्रधानभागे घनीभूतः अनिलः तथा सान्द्रः रजोराशिः वर्तते । यदा कश्चित् धूमकेतुः सूर्यस्य निकटे आगच्छति तदा सूर्यातपात् घनरूपी अनिलः प्रद्रावितः धूमरूपेण निष्कासितो भवति । एष एव धूमः जाज्वल्यमानः धूमकेतोः दीर्घः पुच्छः इव प्रतिभाति । अस्यां स्थितौ केचन धूमकेतवः स्वशरीरेभ्यः पाषाणखण्डान् उद्वमन्ति । भूग्रहः अपि तस्मिन् समये धूमकेतोः निकटे वर्तते चेत् अमी पाषाणखण्डाः भूग्रहस्य वायुमण्डलं प्रविशन्ति । भूतलोन्मुखाः पाषाणखण्डाः पतन्तः मार्गे एव प्रज्वल्य भस्मीभवन्ति । धूमकेतोः प्रोज्झिताः ईदृशः पाषाणखण्डाः उल्काः (meteors) इत्युच्यन्ते ।


सौरमण्डले विद्यमानेषु धूमकेतुषु अन्यतमः स्विफ्ट-टटल् (Swift-Tuttle) इति नाम्ना ख्यातः । सूर्यं परितः तस्य परिभ्रमणस्य कालावधिः १३३ वर्षाः । क्रिस्तशकस्य २०२१तमाब्दौ अयं धूमकेतुः सूर्यस्य समीपम् आगतः वर्तते । अस्मात् धूमकेतोः उल्कापातः पर्सीड्-उल्कापातः (perseid meteor shower) इति नामङ्कितः । संप्रति अष्टममासे अस्य उल्कापातस्य मेरुकालः । रात्रिकाले एष उल्कापातः द्रष्टुं शक्यः । नगरविदूरप्रदेशे यत्र अन्धकारः आधिक्येन भवति यत्र तारकाः सुस्पष्टं दृग्गोचराः भवन्ति तत्र उल्कापातवीक्षणं सुलभम् । वीक्षणार्थं विशेषयन्त्रं किमपि न अवश्यकम् । कदाचित् एकस्मिन् मुहूर्तकाले पञ्चाशत्मिता उल्काः अपि दृष्टिगोचराः भवेयुः । प्रत्येकं उल्कायाः ज्वलनकालः इत्युक्ते गोचरकालः अत्यल्पः ऊनक्षणः भवति । उल्कावृष्टिरेषा अत्यद्भुता मनोमोदकरिणी दर्शनोत्सुकानां कृते ।


अल्पायवः उद्दीप्ताः उल्काः अस्माकं जीवनस्य क्षणभङ्गुरतां स्मारयन्त्यः परहितं कालस्य सदुपयोगं च बोधयन्ति ।


English Translation:

In the vast space, there are infinite celestial bodies that are seen to be in the movement all the time. There are many kinds of celestial bodies. Planets, stars, superstars, black holes etc. Amongst them, comets are also one of them. In our solar system, the sun is the center. Planets like mercury etc. orbit around that center. Not only the planets but many other celestial bodies also orbit around the sun. Amongst them, there are many comets as well. A comet is a special type of celestial body. In the main part of a comet, frozen gas and dense collection of dust exist. When a comet comes near the sun then by the sun's heat, the frozen gas gets melted and comes out as gas. This very burning gas shines like a long tail of the comet. In this state, some comets throw out pieces of rocks from their bodies. If the earth also happens to be near the comet, then those rock pieces enter the earth’s atmosphere. The rocks heading towards the earth’s surface, while falling, on the way only burn and turn into ashes. Such rocks expelled from comets are called meteors. One of the comets that exists in the solar system is known as Swift-Tuttle. Its orbital period around the sun is 133 years. In the 2021 CE, this comet has come near the sun. The meteor shower from this comet is named Perseid meteor shower. This eighth (August) month is the peak time of this meteor shower. It is possible to see this meteor shower during the nighttime. Away from the city area where there is more darkness, where the stars become clearly visible, there it is easy to view the meteor shower. There is no special equipment needed for viewing. Sometimes, in one muhoorta (48 minutes), up to 50 meteors may be seen. The burning time of each meteor, that means its visible time is very short, less than a second. This meteor shower is very wonderful and joyful for those interested in watching it. The short-lived, lit up meteors remind us of the fragility of our lives and advise us to be good to others and not waste the time.

शिवस्तुतिः Shiva Stuti


रुद्राकारं भुजगवलयं भूतनाथं महेशं गङ्गाधारं वृषभगमनं पार्वतीप्राणनाथम् ।

चर्माश्लिष्टं तुहिननिलयं चन्द्रचूडं त्रिनेत्रं वन्दे शंभुं भवभयहरं सर्वलोकाशुतोषम् ॥

अर्थः -

देवस्यास्य आकारो रुद्रः । दुष्टान् रोदयतीति रुद्रः । संहारकाले अखिलजीवगणं रोदयतीति वा । भुजगाः सर्पाः अस्य वलयाः । सर्पाः वलयरूपीणि आभरणानि । अयं भूतगणस्य अधिपतिः । महेश इति ख्यातः महैश्वर्यवान् । गङ्गादेव्याः आधारभूतः शिरसि । वृषभः अस्य वाहनम् । पार्वतीदेव्याः पतिः ।

चर्माम्बरधारी । तुहिनदेशे हिमपर्वते अस्य वासः । चन्द्रः अस्य चूडारूपः । त्रीणि यस्य नेत्राणि । सः शंभुः सुखकरः । भवभयं संसारतापं हरतीति । सर्वलोकस्य आशुतोषः । शीघ्रं प्रसन्नः भवतीति । एतादृशं महादेवं वन्दे ।


गानम्


Tuesday, April 27, 2021

विभक्तिदर्शकश्लोकाः ९ - Verses with Declension 9 हनुमत्


 हनुमान् जगतः प्राणो जज्ञे रामपरायणः |

हनुमन्तमुपागम्य प्रणताः शैशवे सुराः ||

हनुमता सहायेन हरीन्द्रो हरिणा सजुः |

हनुमते ददौ रामः सीतार्थमङ्गुलीयकम् |

हनुमतः पराजिता दैत्यास्तीर्त्वा सरित्पतिम् ||

हनुमतः मतं गत्वा महीं प्राप विभीषणः |

हनुमति हरिः प्रीतो लक्ष्मीः प्रीता निरन्तरम् |

हनुमन् त्वत्समो नास्ति ज्ञानमुक्तिप्रदायक ||


पदच्छेदः (Word Separation): words with vibhaktis highlighted

हनुमान् जगतः प्राणः जज्ञे रामपरायणः |

हनुमन्तम् उपागम्य प्रणताः शैशवे सुराः ||

हनुमता सहायेन हरीन्द्रः हरिणा सजुः |

हनुमते ददौ रामः सीतार्थम् अङ्गुलीयकम् |

हनुमतः पराजिताः दैत्याः तीर्त्वा सरित्पतिम् ||

हनुमतः मतम् गत्वा महीम् प्राप विभीषणः |

हनुमति हरिः प्रीतः लक्ष्मीः प्रीता निरन्तरम् |

हनुमन् त्वत्समः नास्ति ज्ञानमुक्तिप्रदायक ||


सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)

हनुमान् जगतः प्राणः   hanumAn is world's vital strength. रामपरायणः  जज्ञे He was born to serve rAma.

शैशवे हनुमन्तम् उपागम्य सुराः प्रणताः In (his) babyhood, the gods went near hanumAn and bowed to him.

हनुमता सहायेन हरीन्द्रः हरिणा सजुः  With the help of hanumAn, the king of monkeys (sugrIva) became friend with hari (rAma).

रामः सीतार्थम् अङ्गुलीयकम् हनुमते ददौ rAma, for sItA, gave the ring to hanumAn.

हनुमतः पराजिताः दैत्याः तीर्त्वा सरित्पतिम् Because of hanumAn, the demons were defeated, as he crossed the king of water bodies (ocean).

हनुमतः मतम् गत्वा विभीषणः महीम् प्राप By having the same opinion as hanumAn, vibhIShaNa obtained the land (kingdom).

हनुमति हरिः प्रीतः लक्ष्मीः प्रीता निरन्तरम् hari is always pleased with hanumAn, (and so) lakShmIH is pleased (with hanumAn)

हनुमन् ज्ञानमुक्तिप्रदायक त्वत्समः नास्ति (O) hanumAn, (O) the giver of knowledge and salvation, there is no one like you.

(मूलम् - स्वरचितम् Source - Self)

This is also available on this page.