(श्रीहरिगुर्वनुग्रहेण रचितं श्लोकत्रयम्)
अर्थः
प्रथमश्लोकः श्रीः इति मङ्गलाचरणम् । पूर्णबोधः आनन्दतीर्थः । तस्य मतं तत्त्ववादः । तत्तु श्रीदेव्यनुमतम् । तदेव दुग्दाब्धिः क्षीरसमुद्रः । तस्मिन् चन्द्र इव (प्रकाशते अयं राघवेन्द्रः) । चन्द्र इव आह्लादकरः अपि दुर्वादीनां दुष्टमतसमर्थकानां जालं जालरूपं मायावादं दाहयति । तस्य अवतारविषये - लक्ष्मीः ईशः रुद्रः शक्रः इन्द्रः सुरादयः । तेषां सन्दोहः समूहः । तेन वन्द्यः नारायणः । तस्य नारायणस्य पादः एव अब्जम् पद्मम् । हरिपादकमले भक्तिं बोधयन्ति अस्य यतेः वचनानि । पूर्वं प्रह्लादराजरूपेण अस्य यतेः जन्म आसीत् । तदनन्तरं परजन्मनि यतिराजेन्द्रः व्यासयतिः इति ख्यातः । स एव राघवेन्द्रयतिरूपेण जातः । तस्य जन्मविषये - पद्मावती वेङ्कटेशावतारकाले लक्ष्मीरूपख्याता । तस्याः प्रणयः प्रीतिरूपः गोपालः हरिः । तस्य हरेः पत् पादः । हरिपादस्य मधुपः भ्रमरः । हरिपादे आसक्तः । सः यतिः गोपीसुतः । यतेः माता गोपाम्बिका इति । सः यतिः भुवनजः । सः भुवनगिरिप्रदेशे जातः । द्वितीयश्लोकः अग्निसूक्तपठनविषयः - भूसुरभोजनसन्दर्भे अस्य विधिबद्धवेदोक्ताग्निसूक्तपठनात् भूसुराः सर्वे त्वग्दाहात् पीडिताः । भूसुरैः प्रार्थितः एषः वरुणसूक्तं पठित्वा तद्दाहम् अचिरात् तूर्णं न्यवारयत् । संन्यासस्वीकारः - सच्छास्त्रेषु कोविदः पारङ्गतः सुधीन्द्रमुनिः । तेन तुरीयाश्रमो दत्तः अस्मै । संन्यासिचिह्नं दण्डः । संन्यासग्रहणात्परम् एषः तत्त्ववादस्य प्रचाराय कृतसंकल्पः । वाक्यार्थे चतुरः सः सज्जनानां वृन्दस्य समूहस्य नन्दनकरः आनन्ददायकः अभवत् । लीलाविषये - कस्यचित् श्रेष्ठिनः गृहे उत्सवसन्दर्भे मृतं श्रेष्ठिपुत्रं पुनर्जीवितमकरोदिति लीलाप्रसङ्गः । म्लेच्छभूपेन अस्य प्रभावपरीक्षाहेतुना अर्पितं क्रव्योदनं मांसभक्ष्यम् अस्य जलप्रोक्षणात् मधुरफलेषु परिवर्तितोभवत् । तृतीयश्लोकः ग्रन्थरचनाविषये - सुखकरं भाट्टसंग्रहं नैके खण्डार्थग्रन्थान् परिमळादिग्रन्थान् विरचितवान् । वृन्दावनम् - सः वरदः तुङ्गभद्रानदीतीरस्थे मन्त्रालयनामकपुरे वृन्दावनप्रवेशम् अकुरुत । कोदण्डपाणिः श्रीरामः । रामस्य पादपरः भक्तः । वेणुप्रियः श्रीकृष्णः । कृष्णस्य अङ्घ्रिपरः भक्तः । अयं यतिः वीणावादने प्रवीणः । अमलः शुद्धः । सः भक्तजनानां तापहरणः भयहरणः च । सः सुष्ठु मतिं ददाति । सन्मार्गे प्रेरयति । तादृशं राघवेन्द्रगुरुश्रेष्ठं भजे ।
गानम्
अर्थविवरणम्