Thursday, February 11, 2021

अमूल्यम् उपायनम्

शतं रूप्यकाणि । तथा पञ्च च । तावदेव धनम् अलकायाः समीपे । फलशाकधान्यादिक्रयणे महता कष्टेन मितव्ययेन तावत् धनं संग्रहसाध्यम् आसीत् । अलका वारं वारं रूप्यकाणि आकलयत । ततोऽपि पञ्चाधिकशतम् एव । परेद्युः वसन्तोत्सवः । खिन्नमनस्का सा प्ररुरोद ।

स्वभर्तरि अशोके अलकायाः परमा प्रीतिः । अशोकस्य अल्पवेतनेन जीवननिर्वहणं सुदुष्करम् आसीत् । अलकायाः अश्रुधारापातः शुष्कीभूतः । सा मुखं परिमार्ज्य उपवातायनम् अवस्थिता । उत्सवोऽयं प्रीत्यनुरागदर्शनकालः । यथायोग्यं उपायनं पत्यै अर्पयितुकामा अलका चिन्ताकुला बभूव । पार्श्ववर्तिनि आदर्शे स्ववदनम् अवालोकत सा । तस्याः सुनीळकुन्तळकेशाः जानुचुम्बितप्रायाः मनसि हर्षलहरीं उदपादयन् । परन्तु मुखारविन्दं विवर्णं जातम् ।


पतिपत्न्योः वस्तुद्वयं महार्घ्यम् आसीत् । प्रथमः अशोकस्य स्वर्णघटी । घटी सा वंशपरम्परागता परमस्नेहित इव सर्वदा अशोकस्य निकटे वर्तते स्म । प्राचीनत्त्वात् घट्याः तस्याः बन्धनसूत्रमपि नासीत् । युतकस्य कोशे विद्यमानं घटीमुखं मुहुर्मुहुः बहिः निष्कास्य समयं पश्यति स्म अशोकः । अन्यत् महार्घ्यं वस्तु अलकायाः दीर्घकेशाः ।


सुन्दरकेशान् दर्पणे पश्यन्त्याः अलकायाः नेत्रकमले बाष्पसिक्तेऽभवताम् । केशान् धम्मिल्लीकृत्य पुरातनं शिरस्त्रं च परिधृत्य सा नगरमध्यस्थं विपणिमार्गं गता । तत्र आसीत् एकः आपणः “केशपाशपरिकरवस्तूनि" इति फलकसहितः । अलका सोत्साहं प्राविशत् तदापणम् । आपणिकां पप्रच्छ सा - “मम केशान् क्रीणासि किम्?” । आपणिका उदतरत् - “केशान् क्रीणामि । तव शिरस्त्रम् अवतारय । तव केशान् तावत् परीक्षेऽहम्” । अलका शिरस्त्रम् अपासारयत् । धम्मिल्लमुक्तः केशराशिः आजानु प्राशोभत । तं दृष्ट्वा हृष्टमना आपणिका अवोचत् - “पञ्चशतं रूप्यकाणि" । अलका अवदत् - “देहि तत् शीघ्रमेव” ।


केशान् विक्रीय धनं गृहीत्वा अलका चकार अटनम् आपणात् आपणम् । अशोकार्थम् उपायनस्य अन्वेषणे केचन मुहूर्ताः अतीताः । अन्ते यथेप्सितं योग्यतममेकम् उपायनं प्राप्तम् । तदासीत् अनुपमं स्वर्णमयं घटीबन्धनसूत्रम् । पञ्चशतं पञ्चाशच्च रूप्यकाणि मूल्यम् आसीत् तस्य । स्वर्णसूत्रं तथा अवशिष्टानि पञ्चाशत् रूप्यकाणि गृहीत्वा अलका सत्वरं स्वगृहं प्रापत् ।


गृहं प्राप्य अलकायाः क्षुब्धमनः किञ्चित् शान्तिम् उपागच्छत् । दर्पणाभिमुखी स्थित्वा चारुमुखी सा बहुकालं कर्तितकेशभूषितं शिरः अवैक्षत । अल्पमूर्धजा सा माणवक इव दृश्यते स्म । तादृशीं नूतनकेशशैलीम् अवलोक्य किं चिन्तयेत प्रियपतिः इति अलकायाः मनः कातरम् आसीत् । सायं सप्तवादने पाककार्यं समाप्तं तया । अशोकः कदापि विलम्बेन गृहं न आगतवान् । द्वारान्तिके आसीना अलका प्रियस्य आगमनं प्रत्यैक्षत । किञ्चित् कालानन्तरम् अशोकः प्राविशत् द्वारदेशम् । अलका मनसि देवं प्रार्थयत - “मा खिद्येत मे पतिहृदयम् अनया अपगतकेशभूषया” ।


अशोकः अलकायाः समीपम् उपसृत्य ताम् अपश्यत् । स्तम्भीभूतः सः तूष्णीम् अतिष्ठत् क्षणद्वयम् । तस्य मौनेन व्याकुला अलका अशोकस्य अन्तिके दुद्राव । पत्युः बाहौ शिरः निधाय सा उच्चैः व्यलपत् । अभणच्च - “प्रिय, मास्तु तव दृष्टिः एवं मयि । केशाः विक्रीताः मया । तद्विषये मास्तु चिन्ता । केशास्तु पुनः वर्धन्ते मम । उत्सवकालोऽयम् । त्वदर्थे किञ्चित् उपायनमिति मम मनोभिलाषा आसीत् बहुभ्यः दिनेभ्यः । अत्युचितं वस्तु एकं क्रीतं यत्ते बहु रोचते” ।


विस्मितः अशोकः अवोचत् - “हन्त! केशाः त्वया कर्तिताः?” अलका प्रत्यवदत् - “आम् । कर्तिताः विक्रीताश्च । तद्विषये पुनः न चिन्तयावः । उत्सवमिमं मोदेन आचरावः । अहम् अद्यापि तव प्रियसती अलका एव । मयि तव अनुरागः खण्डितो मा भूत्” ।


अशोकः स्वजानिं अवलोकमानः मौनम् अतिष्ठत् मुहूर्तकालम् । ततः सः स्वकञ्चुककोशात् वस्त्रसञ्चिकामेकां निष्कास्य पीठिकायां न्यदधात् । अवदच्च - “प्रिये, तव केशभूषया अबाधितं मे प्रेम । सर्वदा अनुरज्ये त्वामहम् । इयं सञ्चिका उद्घाट्य दृश्यताम् । मम विस्मयस्य कारणं स्फुटीभवति" ।


अलका सञ्चिकाम् उदघाटयत् । तत्स्थितं वस्तु दृष्ट्वा हर्षोद्रेकभावं जगाम अलका । ततः पुनः सा अश्रूणि उदसृजत् परं हर्षेण । तद्वस्तु आसीत् कङ्कतम् । सुन्दरं मणिखचितं केशप्रसाधनं कङ्कतम् । महार्घ्यं कङ्कतं तत् अनेकवारं दृष्टम् अलकया आपणे । बहुमूल्यात् तस्य कङ्कणस्य क्रीणने निवर्तितमना आसीत् सा । इदानीं मनोवाञ्छितं हस्ते गृहीत्वा अलका अवदत् - “प्रिय, प्रमुदितास्मि एतत् कङ्कतोत्तमं प्राप्य । केशाः मे वर्धन्ते अचिरादेव” ।


तदा अलका ससंभ्रमं अशोकस्य पुरतः हस्तं प्रसार्य स्वर्णमयं घटीसूत्रं अदर्शयत । अवदच्च - “प्रिय, पश्य मया किम् आनीतम् । स्वर्णसूत्रमिदं समुचितं तव घटीबन्धनाय । अनेन तव समयदर्शनं सुलभं भवति । कुत्रास्ति तव घटी । सूत्रसहितं कथं दृश्यते इति पश्यावः” ।


अशोकः निःश्वस्य आसने उपाविशत् । स्मयमानः अवदच्च - “प्रिये, उपायनद्वयम् एतत् किञ्चित् कालं मञ्जूषायां स्थापयावः । तयोः उभयोः अपि प्रयोजनं सद्यः नास्ति । मया घटी विक्रीय तद्धनेन कङ्कतं क्रीतम् । अस्तु, अधुना भोजनं खादावः" ।


मूलम् - The Gift of Magi by O. Henry




English Translation:
Invaluable Gift

Hundred rupees and five. That was all Alaka had. With great difficulty and tight spending, she was able to save that much. Alaka counted the money again and again. Still hundred and five only. Next day was the festival day. She was sad and she cried.

Alaka loved her husband Ashok very much. It was difficult to manage the expenses with the meager income of Ashok. Alaka’s tears dried. She wiped her face and stood near the window. 
That festival was about expressing your love and affection. Wanting to give a proper gift, Alaka became worried. She looked at her face in the nearby mirror. Her long hair touching her knees made her happy. But her face lost its color.

The couple was very proud of two things. One was Ashok’s golden watch. That watch came down in the family and was always with Ashok as a close friend. Because it was old, the watch did not even have a chain. Ashok used to take it out often from his shirt pocket to see the time. The other thing of pride was Alaka’s long hair.

There was a shop with a sign-board – “Hair Articles and Goods”. Alaka entered the shop with zeal. Alaka asked the shopkeeper – “Do you buy my hair”? The shopkeeper replied – “I do buy hair. Remove your hat. I will take a look at your hair”. Alaka removed her hat. Her hair fell down till her knees. Seeing that hair, the shopkeeper was joyed and said – “Five hundred rupees”.
Alaka said – “Give it to me quickly”.

Having sold her hair, Alaka took the money and went from shop to shop. Many hours went by in finding a gift for Ashok. Finally, she got a good gift. That was a unique golden watch chain. Its price was five hundred and fifty rupees. She took the golden chain and the balance fifty rupees and reached her home. 

After reaching home, Alaka’s uneasy mind quieted a little. She stood in front of the mirror and looked for a long time at her head with hair cut. With short hair, she was looking like a schoolboy. Alaka’s mind was weary of what her dear husband would say when he sees her new hairstyle. The dinner was ready at seven. Ashok never arrived home late. Alaka sat near the door and waited for her dear husband. After some time, Ashok entered the hallway. Alaka prayed to the god in mind – “My husband should not be upset with this lost hair”.

Ashok moved towards Alaka and saw her. Taken aback, he stood there for a couple of minutes. Perturbed by his silence, Alaka ran to him. She put her head on his arms and cried loudly. She said – “Dear, don’t look at me like that. I sold my hair. Don’t worry about it. My hair will grow back again. This is festival time. For a long time, I wished to give you a gift. I have got something that you will like very much.

Bewildered Ashok said – “Oh! You got your hair cut”? Alaka said – “Yes. Got it cut and sold it too. Let us not worry about it again. Let us celebrate this festival with joy. I am the same Alaka, your dear wife. Let your love not be lost toward me”.

Ashok stood there a while looking at his dear wife. Then he took out a cloth packet from his coat pocket and kept it on the table. He said – “Dear, your hair has no effect on my love. I always love you. Open this packet and see. The reason for my bewilderment will be clear.

Alaka opened the packet. Alaka was overjoyed by looking at what was in it. Then she wept again, but with joy. That thing was a comb. A beautiful comb with beads on it. Alaka had seen that costly comb many times in the shop. She had taken her mind off of it because of its price. Now, holding the comb she wanted in her hand, she said – “Dear, I am overjoyed by having this comb. My hair will grow back soon”.

Then Alaka eagerly opened her hand in front of Ashok and showed the golden watch chain. She said – “Dear, look what I got. This golden chain is very good for to tie your watch. With this, it will be easy for you to see the time. Where is your watch? Let us see how it looks with this chain”.

Ashok took a deep breath and sat down in the chair. He smiled and said – “Dear, let us keep away these two gifts in the cupboard for some time. Both of them are of no use for now. I sold the watch and bought the comb with that money. Let us eat dinner now”.


1 comment:

  1. Hi Sanjeev - This is the sweetest story. Thank you so much for sharing this ironic and beautiful sentiment. All the best, Shanta

    ReplyDelete