Sunday, October 22, 2017

Rani Chennamma - राज्ञी चेन्नम्मा

चेन्नम्मा १७७८तमे क्रिस्तशकाब्दे अक्तोबरमासस्य २३तमे दिने भारतदेशे कर्णाटकराज्यस्य काकतिनामकग्रामे जाता | बाल्ये एव सा धनुर्विद्यायां खड्गचालने अश्वारोहणे प्रशिक्षिता निपुणा च अभवत् | यूनावास्थायां कित्तूरुप्रान्तस्य राज्ञा मल्लसर्जेन सह तस्याः विवाहः समपद्यत | सः कालः भारते आङ्ग्लानां शासनकालः | शासनविस्तरपिपासवः ते येनकेनापि मार्गेण प्रान्तीयराज्यान् गिलन्ति स्म |

अचिरादेव पुत्रवती चेन्नम्मा राजकार्येषु राज्ञः मल्लसर्जस्य साहाय्यं कुर्वती सा जनप्रिया मुमोद | विधिलिखिता अन्या एव आसीत् | १८१६तमे वत्सरे मल्लसर्जः अनारोग्यात् पञ्चत्वमवाप | वैधव्येन कुण्ठितमनापि धीरचित्ता राज्ञी चेन्नम्मा बालपुत्रं यौव्वराज्ये अभिषिच्य राजशासनं चकार | 

यदुच्यते
दुःखान्यापतन्ति सपदि वर्षाभ्रसंघा इव |
तरणं कर्तुमर्हन्ति धीरास्ते लोकसत्तमाः ||

दौर्भाग्येन १८२४तमे वत्सरे तस्याः पुत्रोऽपि मरणं गतः | तस्मिन् वत्सरे एव राज्यसंहवनार्थं चेन्नम्मा शिवलिङ्गप्पनामकबालकं दत्तकपुत्ररूपेण स्वीकृतवती | एतस्य दत्तकविधेः आङ्ग्लशासनस्य सहमतिर्नासीत् | यत्र राज्यस्य औरसोत्तराधिकारी नासीत् तद्राज्यं आङ्ग्लवशे भवेदिति पूर्वभारतसंस्थायाः (East India Company) स्वप्रकाशितनियमः आसीत् | अनेन दुर्व्याजेन भारते नैकानि राज्यानि आङ्ग्लवशीभूतान्यासन् | अत्रापि सा आङ्ग्लसंस्था साहमत्यमदर्शयन्ती कित्तूरुराज्यं समर्पयितुं चेन्नम्मां अभ्यसूचयत | चेन्नम्मया पत्रमुखेन कृताः शान्तिप्रयत्नाः विफला अभवन् | स्वातन्त्र्यस्य स्वजनगौरवस्य रक्षणार्थं युद्धः अनिवार्यः अभवत् |

१८२४संवत् अक्तोबरमासे आङ्ग्लसेना कित्तूरुदुर्गं परिवृत्य शतघ्नीभिः सह आक्रमणमकरोत्| वीरचेन्नम्मायाः नेतृत्वे कित्तूरुसेना शौर्यसामर्थ्येण तस्य प्रतिभटनमकरोत् | कित्तूरुसेनायाः सेनापतिः आमतूरु-बालप्पः आङ्ग्लसेनायाः नेतारं थ्याकरेनामकमहाशयं निहत्य द्वयोः मुख्यसैन्याधिकारिणयोः बन्धनं कृतवान् | आङ्ग्लसेना पराभूता ततः पलायिता | तौ बन्दिनौ मुक्त्यर्थं युद्धविरामं तथा शान्तिसन्धिं प्रास्तौत् चेन्नम्मा | आङ्ग्लसंस्था तदङ्ग्यकरोत् |

परन्तु अनतिकाले एव आङ्ग्लसेना बृहद्बलसंपन्ना पुनः कित्तूरुदुर्गं पर्यावृणोत् | तदापि चेन्नम्मा तथा तस्याः सेना अतिपराक्रमेण युद्ध्यन्ती बहुधा शत्रुसैन्यमत्रासयत् | किन्तु चेन्नम्मायाः पक्षे मल्लप्पः वेङ्कटः इति नामकौ स्वदेशघातकौ शतघ्नीसामग्र्यां पशुमलस्य मिश्रणं कृतवन्तौ | चेन्नम्मायाः शतघ्न्यः निष्क्रियाः बभूवुः | कित्तूरुदुर्गः आङ्ग्लवशीभूतः चेन्नम्मा कारागृहे निपातिता च | चेन्नम्मा १८२९संवत् फ़ेब्रुवरिमासे कारागृहे एव देहत्यागमकरोत् | 

यदुच्यते
इतिहासे सुदुर्लभाः पराक्रमेण पराजिताः |
पिशुनेन च द्रोहेण प्रायः घाताः चमूवराः ||

राज्ञ्याः चेन्नम्मायाः वीरगाथा अद्यापि जनमनसि देशप्रेमभावनां जागरयती सुस्थिरा वर्तते |

No comments:

Post a Comment