Sunday, October 1, 2017

Mahatma Gandhi Anecdotes - गान्धिमहात्मनः उपकथाः


विमला - अयि कमले उत्तिष्ठ शयनात् | आरुणो दारुणो भवत्यचिरात् |
कमला - किमिदं विमले | मा विस्मर अक्टोबरमासे द्वितीयमद्य तु न पाठशाला | इतोऽपि स्वपिमि |
विमला - अहो अनुजे, अतिशयनात् बुद्धिहानिः यतोऽहि उच्यते -

अपठनेऽपि संग्राह्यं ज्ञानं सदा हि पूजितम् |
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ||

कमला - महात्मनः गान्धिवर्यस्य कथां को न जानाति | भारताद्यन्तं स्वतन्त्रताभावं उद्बोध्य आङ्ग्लशासनविरोधाय जनसंघटनं कृतवान् | तस्य असहकारान्दोलनं हिंसारहितं जगत्प्रसिद्धं जातम् | तस्य महाप्रयत्नेन एव भारतदेशः आङ्ग्लशृङ्खलाभ्यः मुक्तोऽभवत् | ततः एव भारतस्य राष्ट्रपिता इत्युच्यते सः किल |
विमला - आम् आम् | तच्चरित्रं तु सर्वविदितमेव | अतः एव वैज्ञानिकस्य ऐन्स्तीनमहोदयेन एवमुदीरितम् -

भविष्यकाले ह जनैरचिन्त्यं सारल्यमूर्तिश्च सत्यावलंबी |
गान्धीमहात्मा च सरक्तमांसे मनुष्यदेहे धरणीं चचार ||

परन्तु महात्मनः जीवने केचन स्वारस्यमयघटनाः अपि संभूताः | श्रोतुमिच्छसि किम् ?
कमला - अवश्यम् | उच्यताम् |
विमला - गान्धिमहोदयः सामान्यजनप्रेमी आसीत् | सरलजीवनं इच्छति स्म | आन्दोलनकाले सर्वदा देशप्रवासं धूमशकटे (train) अवरायां तृतीयकक्ष्यायां (3rd class) करोति स्म | तदवलोक्य विस्मितः एकः वार्ताहरः एकदा महोदयं अपृच्छत् - एतावान् प्रभावशाली पुरुषः त्वं किमर्थं प्रथमकक्ष्यायां न प्रवासं करोषि इति | महोदयः स्मयमानः अब्रवीत् - किमित्युक्ते चतुर्थकक्ष्या न वर्तते !
कमला - गान्धिमहोदयस्य परिहासप्रज्ञापि आसीदिति न ज्ञातं मया | अन्यदाख्यानं श्रोतुमिच्छामि |
विमला - तर्हि शृणु | यदा महोदयः बालक आसीत्तदा स्वभ्रातुः कनकाभरणात् किञ्चित् सुवर्णकणिकामचोरयत् | केनापि एतदकार्यं ज्ञातुं शक्यमपि नासीत् | तथापि स्वापराधेन पीडितः बालकः प्रायश्चित्तरूपेण स्वपितरं पत्रं लिखित्वा कम्पमानेन हस्तेन दत्तवान् | तस्य पिता तत्पत्रं पठित्वा पुत्रस्य सत्यनिष्ठाकारणेन हृष्टः सगद्गदोऽभवत् |
कमला - इतोऽपि श्रावय | नूनमेतानि रोचकानि |
विमला - अस्तु | एकदा प्रवासार्थी गान्धिमहोदयः चलनोद्युक्तं धूमशकटं त्वरया आरोहत् | तदा पादत्राणमेकं तस्य पादान्निसृत्य भूमौ पतितम् | तदा तूर्णमेव सः अन्यपादत्राणमपि अपातयत् | सहयात्रिकः विस्मयेन महोदयं कीदृशमियं चेष्टा इत्यपृच्छत् | महोदयः अवदत् - एकेन पादत्राणेन किं मे प्रयोजनं, कश्चित्तत् युगलं प्राप्य उपभोक्तुमर्हति इति |
कमला - आहा! अत्युच्चाः महोदयस्य वृत्ताः | अस्तु भगिनि | महानसात् पाकपरिमलो जिघ्र्यते | बुभुक्षिताहं गच्छाम्यधुना | त्वमपि त्वरस्व |

▲“Generations to come will scarce believe that such a one as this ever in flesh and blood walked upon this earth. (said of Mahatma Gandhi)” - Albert Einstein

No comments:

Post a Comment