विमला - अयि कमले, तव भोजनपेटिकाऽपि मयैव सज्ज्यते | अत एव विलम्बः | अस्तु इदानीं सिद्धा | गच्छावः |
(उभे शालां प्रति मार्गे चलन्त्यौ)
कमला - भगिनि, तव हस्ते एषः अन्यः स्यूतः किमर्थम् ? को विशेषः अद्य ?
विमला - अद्य मम वर्गे गणेशपूजा विद्यते | तदर्थं पुष्पाणि नयामि |
कमला - अहो गणेशः! मम प्रियदेवः | गजमुखः सः रोचककथानकैः सर्वेषां मनः हर्षयति |
विमला - का कथा? यथा सः पार्वतीदेव्याः स्नानसमये परप्रवेशनिरोधाय तस्याः तनोः मालिन्येन सृष्टः?
कमला - आम् बह्व्यः सन्ति | त्वया तु श्रुताः एव | परन्तु पार्वतीदेव्याः देहात् तावत् मालिन्यं कथम् उदभवत् इति मम शङ्का |
विमला - कमले, उत्तमः प्रश्नः | एतादृश्यः कथास्तु साङ्केतिकाः वर्तन्ते | शृणु अत्र | वस्तुतः गणपतिः आकाशतत्त्वाभिमानी देवः इत्युच्यते शास्त्रेषु | पार्वतीदेवी भगवान् शङ्करश्चापि आकाशतत्त्वनियामकौ | तस्मात् आकाशनियामकयुगलादेव गणपतेः जन्म |
कमला - अस्तु | देहमालिन्यस्य विषयः ?
विमला - तामसाहङ्कारात् आकाशस्य सर्जनमिति वेदविदो वदन्ति | भूमृत्तिका तामसगुणस्य संकेतः | अतः एव पार्वती या आकाशतत्त्वदेवता तस्याः मृत्तिकायाः नाम तामसगुणात् गणपतेः जन्म |
कमला - अहहा! अधुना कथा सा अवगम्यते | कथं च गणपतिः विघ्नहर्ता इति स्तूयते?
विमला - कार्यकरणयोर्मध्ये अनवकाशः एव विघ्नः | गणपतिः आकाशदेवता | सः कार्यकरणयोर्मध्ये अवकाशं कल्पयित्वा विघ्नान् परिहरति | अतः एव विघ्नहर्ता |
कमला - कथम् आननं गजस्य तस्मै ? शूलपाणिना शम्भुना छिन्नमुखः सः हस्तिमुखयोजनेन गजानन अभूदिति कथा खलु ?
विमला - साऽपि कथा एव | वैश्वानररूपिणः परमात्मनः ज्ञानात्मकमुखं गजमुखमिति पण्डिता आहुः | तस्य वैश्वानरस्य उपासनां कृत्वा गणपतिः गजाननं प्राप्तवान् |
कमला - एकदन्तस्य का कथा ? महाभारतग्रन्थं लेखितुं दन्तस्य एकस्य उपयोगं कृतवान् किल ?
विमला - तत्तु दन्तकथा एव | गणेशस्य सर्वाणि आयुधानि नियमनं सूचयन्ति | दन्तस्य एकस्य उन्मूलनमपि अहङ्कारस्य दमनं सूचयति |
कमला - उदरोपरि सर्पः किमर्थम् ? यथेच्छं भोजनं कृत्वा उदरात् बहिरागतं खाद्यं पुनः अन्तर्निवेश्य सर्पेण उदरबन्धनमकरोत् इति कथा प्रसिद्धा |
विमला - बालविनोदिनी सा कथा | उदरं तु शरीरे आकाशस्य उत अवकाशस्य स्थानम् | सर्पः कुण्डिलिनीशक्तिबोधकः | ऊर्ध्वमुखसर्पः शरीरमनोनियमनेन साधनं कुर्यात् इति बोधयति |
कमला - इदं संभाषणम् उद्बोधकमासीत् भगिनि | अनेन गणेशे महादरः भक्तिश्च जायते | आवयोः प्राप्यस्थानमागतम् | देवं तं प्रार्थयन्त्यौ शालां प्रविशावः |
(साधारमिदं लेखनम् - विदुषः बन्नञ्जेगोविन्दाचार्यस्य व्याख्यानम्)
विमला - बालविनोदिनी सा कथा | उदरं तु शरीरे आकाशस्य उत अवकाशस्य स्थानम् | सर्पः कुण्डिलिनीशक्तिबोधकः | ऊर्ध्वमुखसर्पः शरीरमनोनियमनेन साधनं कुर्यात् इति बोधयति |
कमला - इदं संभाषणम् उद्बोधकमासीत् भगिनि | अनेन गणेशे महादरः भक्तिश्च जायते | आवयोः प्राप्यस्थानमागतम् | देवं तं प्रार्थयन्त्यौ शालां प्रविशावः |
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ |
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ||
(साधारमिदं लेखनम् - विदुषः बन्नञ्जेगोविन्दाचार्यस्य व्याख्यानम्)
No comments:
Post a Comment