
पितृवचनपरिपालनाय रामः भ्रात्रा लक्ष्मणेन तथा पत्न्या सीतया सह अरण्यं गतवान् | अरण्ये शूर्पणखानामका राक्षसी सीतायै असूयन्ती लक्ष्मणेन विरूपिता | रामः तस्याः भ्रातृभ्यां खरदूषणाभ्यां मृत्युदण्डं प्रदत्तवान् | एतां वार्तां श्रुत्वा शूर्पणखायाः भ्राता रावणः रामाय क्रुध्यन् सीतायाः अपहरणं कृतवान् |
सीतां अन्विष्यन्तौ रामलक्ष्मणौ हनुमता सुग्रीवेण च सह किष्किन्धादेशे मिलितवन्तौ | सुग्रीवाय तस्य अग्रजः वाली द्रुह्यन् राज्यापहरणं भार्यापहरणं च कृतवान् | रामः वालिनं मारयित्वा सुग्रीवाय राज्यं दापितवान् |
श्रीरामाय नमः इति वदन् हनुमान् महासमुद्रं लङ्घितवान् | रावणनगरीलङ्कायां सीतादेव्यै रामाङ्गुलीयकम् अर्पितवान् | युद्धाय आगतान् राक्षसगणं निवारयित्वा लङ्कानगरीं अग्नये समर्पितवान् | वायुपुत्रहनुमतः भक्तिः रामाय रोचते |
रामः वानरसैन्येन सह लङ्कां गत्वा रावणं युद्धाय प्रचोदितवान् | शरणागताय रावणभ्रात्रे विभीषणाय अभयं दत्तवान् | घोरयुद्धे रावणं हत्वा सीतया सह पुनः अयोध्यानगरं प्राप्तवान् | तत्र बहुकालपर्यन्तं जनेभ्यः स्पृहयन् सः राज्यभारं कृतवान् |
No comments:
Post a Comment