समासाः
अनेकानां समर्थनामपदानाम् एकपदीभवनं समासः ।Union of two or more capable noun words into one word.
समासभेदः/उपभेदः/सामान्यलक्षणम् | उदाहरणानि (विग्रहवाक्यसहितम्) |
अव्ययीभाव-समासः (प्रायः पूर्वपदप्रधानः) |
अधिहरि = हरौ उपकृष्णम् = कृष्णस्य समीपम् निर्जनम् = जनानाम् अभावः अनुगुरु = गुरोः पश्चात् अनुरूपम् = रूपस्य योग्यम् प्रत्येकम् = एकम् एकं प्रति यथाशक्ति = शक्तिम् अनतिक्रम्य समित्रम् = मित्रस्य सदृशः आहिमालयम् = आ हिमालयात् प्रतिशत्रु = शत्रुं प्रति पारेगङ्गम् = गङ्गायाः पारे मध्येमार्गम् = मार्गस्य मध्ये विद्याधनम् = विद्या एव धनम् |
तत्पुरुष-समासः (प्रायः उत्तरपदप्रधानः) | |
प्रथमा-तत्पुरुषः/एकदेशिसमासः | अर्धचन्द्रः = अर्धं चन्द्रस्य पूर्वकायः = पूर्वं कायस्य |
द्वितीया-तत्पुरुषः | निद्रागतः = निद्रां गतः दुःखातीतः = दुःखम् अतीतः |
तृतीया-तत्पुरुषः | हरित्रातः = हरिणा त्रातः लोभमोहितः = लोभेन मोहितः |
चतुर्थी-तत्पुरुषः | भूतबलिः = भूतेभ्यः बलिः जनहितम् = जनेभ्यः हितम् |
पञ्चमी-तत्पुरुषः | चोरभयम् = चोरात् भयम् पापमुक्तः = पापात् मुक्तः |
षष्ठी-तत्पुरुषः | राजपुरुषः = राज्ञः पुरुषः देवपूजकः = देवपूजकः |
सप्तमी-तत्पुरुषः | कलाचतुरः = कलायां चतुरः कार्यकुशलः = कार्ये कुशलः कूपमण्डूकः = कूपे मण्डूक इव |
अलुक्-तत्पुरुषः | अञ्जसाकृतम् परस्मैपदम् दूरादागतः वाचस्पतिः युधिष्ठिरः |
कर्मधारय-समासः (तत्पुरुषः समानाधिकरणः) |
नीलमेघः = नीलः मेघः महाराजः = महान् च असौ राजा मेघश्यामः = मेघः इव श्यामः शीतोष्णम् = शीतं च उष्णं च नरव्याघ्रः = नरः व्याघ्रः इव आम्रवृक्षः = आम्रः इति वृक्षः शाकपार्थिवः = शाकप्रियः पार्थिवः देशान्तरम् = अन्यः देशः जातमृतः = आदौ जातः पश्चात् मृतः अकुतोभयः = न विद्यते कुतोऽपि भयम् अस्य विदेशः = विभिन्नः देशः सुपुष्पम् = शोभनं पुष्पम् |
द्विगु-समासः (संख्यापूर्वः द्विगुः) |
त्रिभुवनम् = त्रयाणां भुवनानां समाहारः सप्तपदी = सप्तानां पदानां समाहारः नवरात्रम् = नवानां रात्रीणां समाहारः |
नञ्-तत्पुरुषः | अधर्मः = न धर्मः अनर्थः = न अर्थः |
प्रादि-तत्पुरुषः | प्राचार्यः = प्रगतः आचार्यः विरूपः = विगतः रूपात् अभिरूपः = अभिगतः रूपम् |
उपपद-तत्पुरुषः | कुम्भकारः = कुम्भं करोति इति अग्रजः = अग्रे जायते इति निशाचरः = निशायां चरति इति भुजगः = भुजेन गच्छति इति |
कु-समासः | कुपुरुषः = कुत्सितः पुरुषः |
गति-समासः | स्पष्टीकृत्य = अस्पष्टं स्पष्टं कृत्वा |
बहुव्रीहि-समासः (प्रायः अन्यपदप्रधानः) |
|
समानाधिकरण-बहुव्रीहिः | प्राप्तोदकः = प्राप्तम् उदकं यं सः (ग्रामः) ऊढरथः = ऊढः रथः येन सः (अश्वः) दत्तपशुः = दत्तः पशुः यस्मै सः (रुद्रः) पीतजलः = पीतं जलं यस्मात् सः (चषकः) पीताम्बरः = पीतम् अम्बरं यस्य सः (हरिः) वीरपुरुषा = वीराः पुरुषाः यस्यां सा (नगरी) |
व्यधिकरण-बहुव्रीहिः | चक्रपाणिः = चक्रं पाणौ यस्य सः नीलकण्ठः = नीलः कण्ठे यस्य सः गदापाणिः = गदा पाणौ यस्य सः |
उपमान-बहुव्रीहिः | गजाननः = गजस्य आननम् इव आननं यस्य सः |
नञ्-बहुव्रीहिः | अनादिः = न आदिः यस्य सः |
प्रादि-बहुव्रीहिः | निर्भयः = निर्गतं भयं यस्मात् सः |
संख्या-बहुव्रीहिः | त्रिलोचनः = त्रीणि लोचनानि यस्य सः उपविंशाः = विंशतेः समीपे ये सन्ति द्वित्राः = द्वौ वा त्रयो वा पञ्चषाः = पञ्च वा षड् वा |
सह-बहुव्रीहिः | सभार्यः = भार्यया सह वर्तते इति सहोदरः = समानम् उदरं यस्य सः |
दिग्-बहुव्रीहिः | उत्तरपूर्वा = उत्तरस्याः च पूर्वस्याः च दिशः अन्तरालम् |
कर्मव्यतिहार-बहुव्रीहिः | केशाकेशि = केशेषु केशेषु गृहीत्वा यत् प्रवृत्तं तत् दण्डादण्डि = दण्डैश्च दण्डैश्च प्रहृत्य यत् प्रवृत्तं तत् |
अलुक्-बहुव्रीहिः | कण्ठेकालः = कण्ठे कालः यस्य सः |
अनियमित-बहुव्रीहिः | सुप्रातः = शोभनं प्रातः यस्य सः |
द्वन्द्व-समासः (उभयपदप्रधानः) |
|
इतरेतर-द्वन्द्वः | रामलक्ष्मणौ = रामश्च लक्ष्मणश्च तरुलते = तरुश्च लता च ब्रह्मविष्णुमहेश्वराः = ब्रह्मा च विष्णुः च महेश्वरः च |
समाहार-द्वन्द्वः | पाणिपादम् = पाणी च पादौ च एतेषां समाहारः शुकबकम् = शुकाश्च बकाश्च एतेषां समाहारः अहिनकुलम् = अहिश्च नकुलश्च एतयोः समाहारः |
पृषोदरादि-समासाः | हंसः = हसति इति सिंहः = हिनस्ति इति मनीषा = मनसः ईषा |
नित्य-समासः | जमदग्निः जयद्रथः वागर्थौ |
केवल(सुप्सुपा)समासः | भूतपूर्वः = पूर्वं भूतः श्रुतपूर्वम् = पूर्वं श्रुतम् |
एकषेशवृत्तिः
एकशेषः समासः नास्ति | इयं वृत्तिः द्वन्द्वसमासस्य अपवादः | अनेकानां पदानां मेलनं भूत्वा तेषु एकपदम् अवशिष्यते |Ekashesha is not a samasa. Two or more words combine and only one word remains in Ekashesha vritti.
उदाहरणानि -
पितरौ = माता च पिता च
रामौ = रामः च रामः च
पुत्रौ = पुत्रः च पुत्री च
भवन्तः = भवन्तः च भवत्यः च
तौ = सः च रामः च
गजाननः = गजस्य आननम् इव आननं यस्य सः इति प्रायः स्यात्।
ReplyDeleteसत्यम् | प्रमादः परिहृतः | सूचनार्थं धन्यवादः |
Delete