शतृ-शानच्-कृत्-प्रत्यय-सारांशः (शतृ-शानच् in a Nutshell)

The words suffixed with शतृ and शानच् कृत्-प्रत्ययs are used as adjectives (विशेषणम्) in the same tense as that of the main verb (क्रियापदम्) in a sentence.
For example:
पुस्तकं पठन् बालः फलं खादति | While reading a book (as he reads a book), the boy eats the fruit.
पुस्तकं पठन् बालः फलम् अखादत् | While reading a book (as he read a book), the boy ate the fruit.
शतृ-प्रत्ययाः are applied to only परस्मैपदी धातुs.
शानच्-प्रत्ययाः are applied only to आत्मनेपदी धातुs.

शतृ-प्रत्ययान्तः कृदन्तः Derivation summary
Applicable only for a परस्मैपदी धातुः

Process of applying शतृ-प्रत्ययः
धातुः + धातुगणस्य विकरणप्रत्ययः + शतृ = (शत्रन्त)प्रातिपदिकम्
प्रातिपदिकम् + विभक्तिप्रत्ययः = पदम्

उदाहरणम्-
खाद् (भ्वादिगणः) + शप् (विकरणप्रत्ययः) + शतृ
= खाद् + अ + अत् = खाद + अत् Here खाद is called अङ्गम्
= खादत् (Note: The first अ in the above line is deleted.)
खादत् is the प्रातिपदिकम् in पुंलिङ्गम् and नपुंसकलिङ्गम्

If the अङ्गम् ends in अ then अङ्गम् is अदन्तम्, if not then it is अनदन्तम्.
In धातुगणाः 1,4,6,10 अङ्गम् is अदन्तम् (ending in अ), in others अङ्गं is अनदन्तम्.

Shortcut to know the पुल्लिङ्ग-प्रथमा-विभक्ति-एकवचन-रूपम्
From the लट्-लकार-प्रथम-पुरुष-बहुवचनरूपम् of the धातु, remove the ending “ति”
उदाहरणानि - खादन्ति->खादन्, चरन्ति->चरन्, गृह्णन्ति->गृह्णन्, ददति->ददत्

Rules to derive स्त्रीलिङ्ग-प्रातिपदिकम् :

  1. स्त्रीलिङ्ग-प्रातिपदिकम् is derived by adding ई at the end of the पुल्लिङ्ग-प्रातिपदिकम्.
  2. If the धातु belongs to धातुगणः 1,4,10 then नुमागम (addition of न्) happens before शतृ प्रत्ययः. So the स्त्रीलिङ्ग-प्रातिपदिकम् will be: खादन्ती, नृत्यन्ती, पूजयन्ती etc.
  3. If the धातु belongs to धातुगणः 6 then नुमागम happens optionally. So the स्त्रीलिङ्ग-प्रातिपदिकम् will be: मिलती/मिलन्ती, इच्छती/इच्छन्ती etc.
  4. For धातुs in other धातुगणः there is no नुमागम. So the स्त्रीलिङ्ग-प्रातिपदिकम् will be: ददती, रुदती, क्रीणती, कुर्वती etc.

शानच्-प्रत्ययान्तः कृदन्तः Derivation summary
Applicable only for a आत्मनेपदी धातुः

Process of applying शानच्-प्रत्ययः
धातुः + धातुगणस्य विकरणप्रत्ययः + शानच् = (शानजन्त)प्रातिपदिकम्
प्रातिपदिकम् + विभक्तिप्रत्ययः = पदम्

उदाहरणम्-
वन्द् (भ्वादिगणः) + शप् (विकरणप्रत्ययः) + शानच्
= वन्द् + अ + आन = वन्द + आन Here वन्द is called अङ्गम्

If the अङ्गम् ends in अ then अङ्गम् is अदन्तम्, if not then it is अनदन्तम्.
In धातुगणाः 1,4,6,10 अङ्गम् is अदन्तम् (ending in अ), in others अङ्गं is अनदन्तम्.
If अङ्गम् is अदन्तम् then मुगागम (addition of म्) happens before शानच् प्रत्ययः

Continuing the above example:
वन्द + म + आन = वन्दमान (Note: The first अ in the above line is deleted.)
वन्दमान  is the प्रातिपदिकम् in पुंलिङ्गम् and नपुंसकलिङ्गम्

Shortcut to know the पुल्लिङ्ग-प्रथमा-विभक्ति-एकवचन-रूपम् of धातुs in धातुगणाः 1,4,6,10
From the लट्-लकार-प्रथम-पुरुष-बहुवचनरूपम् of the धातु, replace the ending “ते” with मान
उदाहरणानि - वर्धन्ते->वर्धमान, पूजयन्ते->पूजयमान, विद्यन्ते->विद्यमान

Shortcut to know the पुल्लिङ्ग-प्रथमा-विभक्ति-एकवचन-रूपम् of धातुs not in धातुगणाः 1,4,6,10
From the लट्-लकार-प्रथम-पुरुष-द्विवचनरूपम् of the धातु, replace the ending “ते” with “न”
उदाहरणानि - शयाते->शयान, कुर्वाते->कुर्वाण, भुञ्जाते->भुञ्जान

Rules to derive स्त्रीलिङ्ग-प्रातिपदिकम् :
स्त्रीलिङ्ग-प्रातिपदिकम् is derived by adding आ at the end of the पुल्लिङ्ग-प्रातिपदिकम्.
उदाहरणानि - वर्धमाना, कुर्वाणा, भुञ्जाना, पूजयमाना

शत्रन्त-शानजन्तानां प्रयोगाः
Examples:
  1. लोकहितं कुर्वन् रामः जायते |
  2. वनं गच्छन्तं रामं पिता पश्यति |
  3. पूजयमानं भरतं रामः आशीर्वदति |
  4. रामं इच्छत्यै शूर्पणखायै लक्ष्मणः दण्डं ददाति |
  5. आकाशे गच्छतः रावणरथात् सीता भूषणं पातयति |
  6. रामं सेवमानस्य हनुमतः बलात् वानरसैन्यं लङ्कां प्राप्नोति |
  7. कुप्यति रामे रावणसैन्यं नश्यति |
  8. पृथिवीं परिपालयन् राम, प्रजानां सुखदो भव |
शत्रन्त-शानजन्त words should not be used with तिङ्न्त forms of अस् धातु. Following are incorrect usages:
  1. सा शालां गच्छन्ती अस्ति |
  2. अहं पुस्तकं पठन् अस्मि |
  3. वयं व्याकरणम् अधीयमानाः स्मः |
  4. सः देवालयं गच्छन् आसीत् |
  5. वर्गः प्रचलन् अस्ति |
  6. कुत्र गच्छन्ती असि ?
For present-continuous the correct forms are:
  1. सा शालां गच्छति | or सा शालामार्गे अस्ति इदानीम् |
  2. अहं पुस्तकं पठामि | or अहं पुस्तकपठने निरतः इदानीम् |
  3. वयं व्याकरणम् अधीमहे | or वयं व्याकरणाध्ययनरताः इदानीम् |
  4. सः देवालयं गच्छति स्म |
  5. वर्गः प्रचलितः अस्ति |
  6. कुत्र प्रस्थिता असि ?

1 comment: