Thursday, July 9, 2020

अरण्यकाण्डसंग्रहः - Summary of Aranyakandam



रामः लक्ष्मणेन सीतया च सह दण्डकारण्यं प्रविशति । तत्र अरण्ये विराधः नाम राक्षसः वसति । विराधः सीतायाः अपहरणाय प्रयत्नं करोति । रामलक्ष्मणौ विराधेन सह युध्यतः । विराधः मरणं प्राप्नोति । रामः बहुभिः ऋषिभिः सह मिलति । सः अगस्त्यमुनिना सह अपि मिलति । मुनेः वचनात् रामः लक्ष्मणः सीता च पञ्चवटीप्रदेशं प्राप्नुवन्ति । तस्मिन् सुन्दरे प्रदेशे सुन्दर्याः नद्यः सुन्दराणि पुष्पाणि च भवन्ति । तत्र आश्रमे ते सुखेन निवसन्ति । शूर्पणखा रावणस्य भगिनी । एकदा सा पञ्चवटीम् आगच्छति । सा रामस्य रूपे अनुरक्ता भवति । रामेण निराकृता सा लक्ष्मणं प्रार्थयति । लक्ष्मणेन अपि निराकृता शूर्पणखा सीतां प्रति धावति । तदा लक्ष्मणः शूर्पणखायाः नासिकां कर्णं च कर्तयति । शूर्पणखायाः अन्यः भ्राता खरः समीपे वसति । सा भ्रातुः खरस्य समीपं गच्छति । खररामयोः मध्ये युद्धं भवति । रामः खरस्य उपरि बहून् बाणान् मुञ्चति । राक्षसः खरः मरणं प्राप्नोति । शूर्पणखा रावणाय सर्वं वृत्तान्तं निवेदयति । रावणः मातुलस्य मारीचस्य साहाय्यं प्रार्थयति । रावणस्य भयात् मारीचः सुवर्णमृगस्य रूपं धरति । सीता सुवर्णमृगाय रामं प्रार्थयति । रामः आश्रमात् निर्गच्छति । सः मृगस्य पृष्ठतः दूरं गच्छति । रामः बाणेन मृगं मारयति । मृगः मरणसमये रामस्य ध्वनिं अनुकरोति । सीता तं ध्वनिं शृणोति । “मम पतिः साहाय्यम् इच्छति । तस्य समीपं गच्छतु” इति सीता लक्ष्मणं कथयति । लक्ष्मणः आश्रमात् निर्गच्छति । रावणः संन्यासिरूपं धरति । सः सीताम् आश्रमात् अपहरति । जटायुः नाम खगः दशरथस्य मित्रं तस्मिन् वने वसति । जटायुः रावणेन सह युद्धं करोति । रावणः जटायुं खड्गेन प्रहरति । रावणः सीतया सह लङ्कानगरं प्राप्नोति । तत्र सीतां अशोकवने स्थापयति । रामः लक्ष्मणः च आश्रामं प्रत्यागच्छतः । आश्रमे तौ भ्रातरौ सीतां न पश्यतः । रामः दुःखितः भवति । सीतां वने सर्वत्र अन्विष्यति । एकत्र सः पतितं जटायुं पश्यति । जटायुः रावणस्य वृत्तान्तं कथयति । रामलक्ष्मणौ अग्रे चलतः । तौ वीरौ कबन्धराक्षसस्य उभौ बाहू कर्तयतः । मरणसमये कबन्धः रामं कथयति - “पम्पासरोवरप्रदेशे सुग्रीवः निवसति । तस्य समीपं गच्छतु” । अनन्तरं तौ शबर्याः आश्रमं गच्छतः । रामस्य दर्शनात् शबरी मुक्तिं प्राप्नोति । ततः रामः लक्ष्मणः च पम्पासरोवरप्रदेशं प्रविशतः ।

Meanings of some words:
अनुरक्त = interested
मुञ्चति = releases
साहाय्यम् = help
निराकृत = rejected
अनुकरोति = imitates
एकत्र = at one place
उभौ = both (two)
ततः = thereafter (afterwards)/from there

Thursday, July 2, 2020

अयोध्याकाण्डसंग्रहः Summary of Ayodhyakandam

पितृभक्त्या पुरत्यागं सीतया लक्ष्मणेन च ।
कृत्वा वनं गतो रामः भरतः पादुकाधरः ॥

दशरथः अयोध्यायाः महाराजः । दशरथस्य कौसल्या सुमित्रा कैकेयी इति पत्न्यः । कौसल्यायाः पुत्रः रामः । सुमित्रायाः पुत्रौ लक्ष्मणः शत्रुघ्नः च । कैकेय्याः पुत्रः भरतः । रामस्य पत्नी सीता । एकदा भरतः शत्रुघ्नः च मातुलस्य नगरं गच्छतः । तदा ज्येष्ठः पुत्रः रामः राजा भवतु इति दशरथः इच्छति । सर्वे जनाः हृष्टाः भवन्ति । परन्तु दशरथस्य पत्नी कैकेयी दुःखिता भवति । सा दशरथं वदति - "मम पुत्रः भरतः एव राजा भवतु । अपि च रामः वनं गच्छतु" । दशरथः मूर्छितः भवति । रामः कैकेयीं दशरथं च नमति । सः नगरात् निर्गच्छति । सीता लक्ष्मणः च रामम् अनुसरतः । रामः लक्ष्मणः सीता च नौकया नदीं तरन्ति । ते वनं प्रविशन्ति । जनाः शोकं कुर्वन्ति । रामस्य वियोगात् दशरथः मरणं प्राप्नोति । भरतः शत्रुघ्नः च मातुलस्य गृहात् प्रत्यागच्छतः । भरतः सर्वं वृत्तान्तं जानाति । सः दुःखितः क्रुद्धः च भवति । भरतः राज्यपदं निराकरोति । सः परिवारेण सह वनं प्रविशति । तत्र ते सर्वे रामेण सह मिलन्ति । भवान् एव राजा भवतु इति भरतः रामं प्रार्थयति । रामः वदति - "हे भरत, अहं तु इदानीं वने एव वसामि । चतुर्दशवर्षानन्तरम् अयोध्यां प्रत्यागच्छामि । तदा अहं राजा भवामि" । भरतः वदति - "हे प्रिय राम, भवतः पादत्राणं मह्यं ददातु । तस्य साहाय्येन अहं राज्यपालनं करोमि" । रामः भरताय पादत्राणं ददाति । भरतः रामस्य पादत्राणं मस्तकस्य उपरि धरति । सः परिवारेण सह अयोध्यां प्रतिगच्छति । रामः सीतया लक्ष्मणेन च सह अन्यत् वनं व्रजति ।

Meaning of some words:
एकदा = Once (at one time)
तदा = then (at that time)
ज्येष्ठ = eldest
हृष्ट = happy/excited
परन्तु = but/however
मूर्छित = unconscious
निर्गच्छति = goes away
अनुसरति = follows
वियोग = separation
प्रत्यागच्छति = comes back
वृत्तान्त = news/happening
क्रुद्ध = angry
निराकरोति = rejects
इदानीम् = now
चतुर्दशवर्षानन्तरम् = after fourteen years 
साहाय्येन =  with the help of
व्रजति = goes (गच्छति)

English Meaning:
Dasharatha is the king of Ayodhya. Kausalya, Sumitra, and Kaikeyi are Dasharatha's wives. Kausalya's son is Rama. Sumitra's sons are LakshmaNa and Shatrughna. Bharata is Kaikeyi's son. Rama's wife is Seeta. Once Bharata and Shatrugna go to their maternal uncle’s city. Dasharatha desires that his eldest son must be coronated as the king. All people become happy. But Dasharatha's wife Kaikeyi is unhappy. She says to Dasharatha - “My son Bharata only should become the king. And also Rama should go to the forest." Dasharatha loses consciousness. Rama bows to Dasharatha and Kaikeyi. He leaves the city. Seeta and Lakshmana follow Rama. Rama, LakshmaNa, and Seeta cross the river on a boat. They enter the forest. All the people are very dejected. Separated from Rama, Dasharatha attains death. Bharata and Shatrughna return from their maternal uncle’s place. Bharata comes to know of all that happened. He is sad and angry. He rejects the throne. He with his family enter the forest. There they all meet with Rama. Bharata pleads to Rama that he only should become the king of Ayodhya. Rama replies - "Hey Bharata, right now I will live in the forest only. After fourteen years, I will return to Ayodhya. I will be the king then." Bharata says - "Dear Rama, please give me your sandals. With the help of those I will rule the kingdom." Rama gives him his sandals. Bharatha places the sandals over his head. He returns to Ayodhya with his family. Rama with Seeta and LakshmaNa go to another forest.