व्यासतीर्थः - दासकूटप्रवर्तकः
पञ्चदशक्रैस्तशतके भारतभूमौ व्यासतीर्थः इति यतिश्रेष्ठः विजयनगरराज्ये व्यराजत | तस्य महामहिमस्य संक्षिप्तास्ख्यायिकेऽयम् |
कर्मभूमीति प्रख्यातायां भरतभूमौ दक्षिणदेशे महिषासुरपत्तनसमीपस्थे (Mysore City) बन्नूरुग्रामे न्यवसतां भगवद्भक्तौ अक्कम्माबल्लण्णदम्पती | १४६०तमे क्रैस्ताब्दे भगवत्प्रसादात् तयोः जातः यतिराजः इति पुत्रः | सप्तायनसंपूर्णे उपनयनसंस्कारसंपन्नः यतिराजः चतुरायनं गुरुकुले अधीयमानः काव्यशास्त्रादिषु पाण्डित्यं संपादितवान् | तदनन्तरं सः चन्नपत्तनस्थितस्य माध्वयतिवरस्य ब्रह्मण्यतीर्थस्य आश्रये पित्रा निविष्टः | व्याकरणवेदशास्त्रादिषु यतिराजस्य निष्ठां निरीक्ष्य ब्रह्मण्यतीर्थः तं संन्यासदीक्षां स्वीकर्तुम् आदिष्टवान् | आदेशात् चकितः बालकः यतिराजः अरण्यं प्रविश्य वृक्षमूले ध्यानपरोभवत् | तत्र विष्णुभगवत्प्रेरणया कृतसङ्कल्पः सः ब्रह्मण्यतीर्थं पुनः प्राप्य यतिदीक्षाबद्धोभवत् | तस्य व्यासतीर्थः इति नामकरणोऽपि जातः |
१४६०तमे क्रैस्ताब्दे ब्रह्मण्यतीर्थस्य शरीरत्यागानन्तरं व्यासतीर्थः शास्त्राध्ययनस्थानेषु भूषणप्रायभूते काञ्चीनगरे न्यायमीमांसावेदागमविद्याः साङ्गं हृद्गतं कृतवान् | ततःपश्चात् सः मुळुबागिलुग्रामे श्रीपादराजाख्ययतिवराश्रये माध्वतत्त्वशास्त्रे पारङ्गतोभूत् |
अप्रतिमशास्त्रकोविदः सः भरतखण्डे विविधप्रान्तेषु संचरन् वाक्यार्थगोष्ठिषु नैकान् प्रतिवादीन् पराजित्य मध्वमुनिप्रणीतं भागवततत्त्वं प्रतिष्ठापितवान् | व्यासतीर्थस्य दैवीवर्चस्वम् आद्रियमाणः विजयनगरसाम्राज्याधिपतिः श्रीकृष्णदेवरायः यतिवरं राजगुरुपदविना सममानयत | व्यासतीर्थः श्रीकृष्णदेवरायं राजतान्त्रिकविषयेषु धार्मिकविषयेषु च मार्गदर्शनं करोति स्म | राजाश्रयत्वात्तस्य व्यासराजः इत्यपि नाम बभूव |
व्यासतीर्थः स्वयं संस्कृतभाषायां शास्त्रविषये अष्टौ ग्रन्थानरचयत | तेषु न्यायामृतं तात्पर्यचन्द्रिका तर्कताण्डवं च प्रसिद्धाः कृतयः | सः कन्नडभाषायामपि नैकानि पद्यानि लिलेख | इदानीं देशविदेशेषु प्रख्यातं “कृष्णा नी बेगने बारो” कन्नडगीतं व्यासतीर्थस्य रचना | तस्य यतिशिष्येषु विजयीन्द्रतीर्थः तथा वादिराजतीर्थः सुप्रसिद्धौ | जनसामान्येषु धार्मिकजागरणार्थं सः भक्तियोगप्रधानं दासकूटं स्थापयामास | तेन दासकूटे अनुवर्तिताः विद्वज्जनाः प्रादेशिकभाषासु भगवत्कथाः कीर्तयन्तः गीतानि गायन्तः जनसामान्येषु सुलभतया धार्मिकश्रद्धां सुदृढां चक्रुः | पुरुन्दरदासः कनकदासश्च सुपरिचितहरिदासौ व्यासतीर्थशिष्यौ एव |
सुदीर्घकालं वेदान्तसाम्राज्ये विराजमानः यतिवरशिखामणिः श्रीव्यासतीर्थः प्रायः १५३९तमे क्रैस्तवर्षे हम्पीनगरे स्वदेहं तत्याज | साम्प्रतमपि व्यासराजस्य महत्कार्यं सुजनैः स्मर्यते समाजे तत्फलं अनुभूयते च |
नमो व्यासमुनीन्द्राय भक्ताभीष्टप्रदायिने |
नमतां कल्पतरवे भजतां कामधेनवे ||
(इति विजयीन्द्रतीर्थरचिते व्यासराजस्तोत्रे)