एकदा श्रीशनिदेवयोर्मध्ये विवादः संजातः। तयोर्मध्ये कः चारुतरः। कस्य गुणाः आधिक्येन प्रशंसनार्हा इति। मिथः विजल्पन्तौ तौ निर्णयार्थं नारदमुनेः सकाशं ययौ। देवर्षिः नारदः ब्रह्मतनयः। त्रिलोकसंचारी सः देवदानवमर्त्यलोकेषु समभावेन आदिदरिष्यते। भागवताग्रेसरः सः महान्चतुरोऽपि।
अभ्यागतौ तौ रमारविजौ अर्घ्यपाद्यादिना सत्कृत्य सुरमुनिः आगमनकारणं पप्रच्छ। शनैश्चर उवाच - तप्तलोहकान्तिसंपन्नोऽहं महाबली निखिललोकपीडनसमर्थः। रमा उवाच - सुवर्णप्रभाशोभिताहं सकललोकसंपत्कारिणी। आवयोः कः चारुतरः इति प्रश्नस्य समाधानं वक्तुमर्हसि इति अवदताम्। नारदस्य संकटमापतितम्। श्रीरित्युदिते शनिकोपभागयोगः शनिरित्युक्ते श्रीकटाक्षविभवहानिः।
निर्णयवचनाकर्णाभिलषन्तौ स्वसन्निकटमास्थितौ तौ नारदोऽवदत् - अहो! भाग्यं मम यदीदृशं महान्निर्णयावसरः प्रदीयते। अवश्यं परीक्ष्य वाम् इदमित्थं करोमि। इत्युक्त्वा उभावपि पञ्चषान् पादान् दूरं चलितुम् अकथयत्। श्रीः शनिश्च किञ्चिद्दूरं चलन्तौ नारदात् अपगच्छतः। नारदः तदा तौ पुनः स्वसमीपं पुनरागन्तुं कथयामास। तावुभौ नारदाभिमुखं समुपासरताम्। ततः स्मयन्निव नारदो बद्धाञ्जलिरवोचत् - संपरीक्षणं समाप्तं यन्मया निर्णीयते। अपसरणे शनैश्चरः शुभावहः। उपसरणे श्रीः सुखदायिनी इति। नारदवचनं श्रुत्वा संतुष्टौ रमाशनैश्चरौ निजधामौ प्रति निर्जग्मतुः।