ब्रह्मवैवर्तपुराणान्तर्गतगणपतिखण्डसंग्रहः
गणेशजननम्
महादेवीपार्वती महादेवशिवः लोककल्याणहेतुना पुत्रीयन्तौ एकान्ते रमेते स्म | तस्मिन्नेव समये परमात्मा श्रीकृष्णः स्वभक्ते नीलकण्ठे अनुग्रहकामः वृद्धब्राह्मणरूपधारी तत्र आगतः | शङ्करभवनद्वारि स्थितो भिक्षां ययाच स भूसुरः | जगतः पितरौ गौरीश्वरौ लोकनीतिं प्रदर्शयन्तौ बुभुक्षितब्राह्मणाय अन्नदानार्थं सत्वरमन्तःपुरादपसृत्य चत्वरमासादितौ | याचकेन सह कुशलवचनं व्याहृत्य सती सा पाकगृहं प्रविशन्त्यां सति मायापतिः मायया शम्भुशय्यागारं प्रविश्य तत्रत्यतल्पस्थिते वृषभध्वजतेजसि स्वांशेन लीनोऽभूत् | तस्माज्जातः कृष्णांशसंभूतः शुभलक्षणाङ्गः सुन्दराकारः शिशुरेकः | देवी उमा द्वाराभ्याशे ब्राह्मणमदृष्ट्वा विस्मयाविष्टा स्वान्तःपुरं प्राप्ता | तत्र मन्दहासेन क्रीडन्तं बालं प्रेक्ष्य आनन्दतुन्दिला सा अर्भकं वक्षसि कृत्वा स्तन्यं पायितवती |
गजाननप्राप्तिः
गिरिजागिरीशयोः अपत्यजननवार्तां समाकर्ण्य वृन्दारकवृन्दः कैलासक्षेत्रं समागतः | अगजाननपद्मार्कं चारुहासिनं शिशुं दृष्ट्वा परितुष्यन्तः विष्णुमुखदेवाः सुकुमारं बुद्धिबलादिवरान् प्रददुः | शङ्करपुत्रः सः गणेश इति नाम्ना अङ्कितः | सूर्यपुत्रः शनैश्चरोऽपि शिशोः समीपं नतमुुखः उपस्थितः | तद्दृष्ट्वा पार्वती शनैश्चरं तस्य कारणं पप्रच्छ | नवजाते स्वदृष्टिपातः अहितकारणं भवतीति शनैश्चरोऽब्रवीत् | तथापि मातुराग्रहवचनेन ग्रहाधिपतिः शनैश्चरः कटाक्षेण शिशुमीषदैक्षत | शनेः दृष्टिमात्रेण सपदि गणेशस्य शिरो भग्नीभूतम् | सुतस्य मृतावस्थां प्रपश्य भृशं विलपन्तीं पर्वतसुतां सान्त्वयित्वा श्रीहरिः गरुढारूढः उत्तरदिशि प्रस्थितवान् | तत्र सपरिवारं शयानस्य गजराजस्यैकस्य मस्तकं सुदर्शनचक्रेण कर्तयित्वा स्वहस्ते गृहीतवान् | तदा गजराजपत्नी रोदं रोदं नारायणं बहुधा स्तुतवती | स्तवप्रियः चक्रधारी कस्यचिदन्यगजस्य शिरः योजयित्वा तं गजराजं पुनर्जीवितं चकार | ततः गरुडवेगेन कैलासगिरिं प्राप्य पार्वतीपुत्रे करिशिरः संयुज्य तं जीवनप्रदानं कृतवान् | गजाननं पुनर्जीवितं दृष्ट्वा प्रमुदिता पार्वती भक्त्यादरेण श्रीविष्णुं प्राणमत् |
एकदन्तरूपम्
जामदग्निः भार्गवरामः पिनाकिनः पाशुपतास्त्रं प्राप्य कार्तवीर्यं निषूदितवान् | तदनन्तरं सः भूमण्डलमखिलं परिभ्रम्य तद् दुष्टक्षत्रियरहितं चकार | तन्महत्कार्यं समाप्य रेणुकानन्दनः नन्दिवाहनमभिवादयितुं कैलासं समपद्यत | त्रिलोचने निद्रासक्ते सति मन्दिरप्रवेशद्वास्थः गजाननः भार्गवमार्गं निरुध्य प्रतिपालनं प्रतिपादितवान् | शीघ्रकोपी विप्रर्षभरामो गजकर्णवचनमनादृत्य नागभूषणनिलयं प्रवेष्टुमुद्युक्तः | शक्तिसुतगजमुखभृगूद्वहयोर्मध्ये भीकरयुद्धं संजातम् | शान्ताकारो हस्तिवदनः बलिष्ठेन करिकरप्रायशुण्डेन क्षत्रकुलान्तकं लीलया वेष्टयित्वा बहुधा पीडयामास | कृष्णांशसंभूतद्विपाननेन परिक्लान्तो भार्गवः अस्त्रश्रेष्ठं परशुं प्रायोजयत् | सहस्रांशुप्रभामप्रभाकारः परशुरमोघो मातङ्गमुखं प्रति प्राद्रवत् | तन्निवारयितुं समर्थोऽपि गणेशः महादेवशङ्करसन्निहितपरशुं सम्मानयन् तमायुधं स्वीचकार | तद्घोरायुधं द्विरदवदनस्य वामदन्तं समूलं भञ्जितवत् | कदनेक्षुकाणां कैलासवसिनां कोलाहलेन उमोमेश्वरौ भवनाद् बहिरागतौ | रक्तसिक्तवदनं निजसुतं संपश्य भगवती मोमूर्च्छ्यमाना भृशं विललाप | परितप्ता सा दन्तभग्नकारणं परशुरामं शप्तुमुद्यता | तदा दिव्याभरणभूषितः श्रीमन्नारायणः प्रकटीभूय हिमसुतां सान्त्वनवचनेन प्रशामितवान् | भृगुश्रेष्ठः एकदन्तं गणपतिं संस्तुत्य स्वधामं निर्जगाम |
तुलसीनिषेधः
नवयौवना तुलसी पाणिग्रहणयोग्यं युवकं अन्विष्यन्ती महीतले भ्रमति स्म | तदा सा गङ्गातीरे गङ्गाञ्चितपादध्यानासक्तं गङ्गाधरसुतमन्वैक्षत | शान्ताकारं तारुण्यवर्णसौन्दर्यातिशयमनोहराकारं प्रपश्य स्मरशरक्षता बभूव सा | किञ्चित् प्रणयविनोदाकाङ्क्षी तुलसी निमीलितनेत्रं शैलजासुतमुपगम्य किमिदं हरिशत्रुवक्त्रं कथं ते भग्नदन्तः क्वेदं लम्बितोदरं तव इति उपहासं चकार | मूर्ध्नि तस्य किञ्चिज्जलं सुत्वा तर्जन्या तं पीडितवती | भग्नतपः शङ्करात्मजः स्मितवदनां युवतीभावप्रमत्तप्रमदां पुरतःस्थितां शान्तचित्तः एव मातरिति संबुध्य परिचयं चित्रप्रवृत्तिकारणं च पप्रच्छ | तुलसी मनोगतमाशयं परिणयेच्छां प्राकटयत | कृष्णैकमनस्कः विनायकः विनयेन तां तिरस्कुर्वन् पतिमन्यं मार्गयितुमकथयत् | नैराश्यदग्धहृदया तुलसी पत्नी तव असाध्वी भवत्विति पार्वतेयं शशाप | निष्कारणं शप्तः शंभुतनयः तुलसीमपि असुरग्रस्ता वृक्षरूपा भवेति प्रत्यशपत् | निरस्तपरिणामदुःखिता तुलसी नारायणं शरणङ्गता | तत्कृपया सा गणेशपरित्यक्तापि कालान्तरे शङ्खचूडासुरबन्धनमुक्ता वृक्षरूपेण श्रीहरिपरमप्रिया बभूव |
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ |
निर्विघ्नं कुरुमे देव सर्वकार्येषु सर्वदा ||