आसीत् पुरा गाधिनामकराजा | तस्य पुत्री सत्यवती | सा भृगुवंशजातस्य ऋचीकमहर्षेः पत्नी | एकदा सा आश्रममागतं भृगुमहर्षिं अर्चयित्वा स्वस्यै तथा स्वमात्रै च सन्तानप्राप्त्यर्थं फलद्वयं प्राप्तवती | परन्तु दैववशात् मातापुत्र्योः मध्ये फलविनिमयः अभवत् | माता स्वफलं सरस्वतीम् अखादयत् | तथा पुत्र्याः फलं स्वयं चखाद | भृगुमहर्षिः दिव्यदृष्ट्या तद्विदित्वा सखेदः अवदत् - सत्यवत्याः फलं ब्राह्मणशक्तियुतं मातुः फलं क्षात्रशक्तियुतम् | परन्तु फलयोः विनिमयः जातः | अतः इदानीं सत्यवतीगर्भे क्षात्रधर्मयुक्तः शिशुः प्रवर्धते तथा तस्याः माता ब्राह्मणगुणोपेतं पुत्रं जनयिष्यतीति |
तच्छ्रुत्वा स्त्रियावुभे विषण्णमनस्के बभूवतुः | आर्ता सत्यवती क्षात्रपुत्रं अनिच्छुका भृगुमहर्षिं संप्रार्थयत | दयालुः महर्षिः सत्यवत्याः गर्भस्थशिशवे ब्राह्मसत्त्वं प्रदाय तस्याः पौत्रः क्षात्रगुणयुक्तः भविष्यतीति परिवर्तनं चकार | सकाले सत्यवत्यः पुत्रः जमदग्निः जज्ञे | सत्यवत्याः माता गाधिपुत्रं जनयामास यः अनन्तरं विश्वामित्र इति प्रसिद्धः बभूव |
जमदग्नेः विवाहः रेणुकादेव्या सह अभवत् | तयोः पञ्चपुत्राः आसन् | पञ्चमपुत्र एव भगवद्विष्णोः षष्ठावतारः क्षात्रतेजोयुक्तः रामः | सः न केवलं सर्ववेदशास्त्रादिपारङ्गतः परन्तु सर्वशस्त्रात्रकोविदश्च | तस्य मुख्यायुधः परशु इति कारणात् सः परशुरामः नाम्ना प्रसिद्धोऽभवत् | एकदा कस्माच्चित् लघुकारणात् पत्न्यै रेणुकायै कुपितः जमदग्निः तस्याः शिरःछेदनं कर्तुं स्वपुत्रान् आदिदेश | चत्वारः पुत्राः तस्य आदेशं निराकुर्वन् | ते जमदग्निशापात् शिलारूपमविन्दन्त | रामः एव पितुराज्ञां मन्यमानः मातुः शिरःछेदनं चकार | तदनन्तरं प्रीतात् जमदग्नेः वरमादाय माताभ्रातॄन् पुनरुज्जीवयामास |
कालान्तरे कार्तवीर्यार्जुन इति नामकराजा जमदग्नेः समीपस्थं दिव्यधेनुं बलात्कारेण नेतुं प्रायतत | तदा परशुरामः कार्तवीर्यार्जुनेन सह युध्यन् तं जघान | कश्चित्कालानन्तरं परशुरामस्य अनुपस्थित्यां कार्तवीर्यार्जुनस्य पुत्राः आश्रममागत्य जमदग्नेः हननं चक्रुः | तस्मात् परमक्रुद्धः परशुरामः स्वस्यावतारहेतुः दुष्टक्षत्रियनिर्मूलनार्थं भूमण्डलमनेकवारं परिभ्रम्य बहूनां राज्ञां वधकार्यं कृतवान् | विजितां विशालामवनीं कश्यपऋषये दानरूपेण प्रायच्छत् |
भार्गवः परशुरामः त्रेतायुगे रामायणेऽपि रामसीताविवाहानन्तरं स्वप्रकटनं करोति | दाशरथिरामं विष्णुचापे शरसंयोजनाय आह्वयति | तदा स्वपराजयं नटन् सः दाशरथिरामोऽपि विष्णोरन्यावतार इति लोकं बोधयति |
भगवान् परशुरामः द्वापरे महाभारतकथायामपि अतिमहत्वपूर्णंपात्रं वहति | गङ्गापुत्रभीष्मः परशुरामात् अस्त्रशस्त्रादीन् अधीतवान् | द्रोणः सूर्यपुत्रकर्णः चापि तस्यैव छात्रौ | परशुरामस्य कर्णं प्रति शापः महाभारतयुद्धे कर्णस्य मरणकारणमभवत् |
भगवतः परशुरामस्य स्फूर्तिदायकचरित्रं शान्तिप्रियजनाः अपि दुष्टजननिवारणाय औदासीन्यरहिताः यथायोग्यप्रवृत्तिं दर्शयेयुः इति सन्देशं कथयति |
|| रामभृगूद्वहसूर्जितदीप्ते क्षत्रकुलान्तकशम्भुवरेण्य ||
(श्रीमन्मध्वाचार्यविरचितद्वादशस्तोत्रम्)