Thursday, January 12, 2017

Swami Vivekananda (स्वामी विवेकानन्दः)

स्वामिविवेकानन्दस्य जन्म १८६३तमे वत्सरे जनवरीमासस्य द्वादशदिनाङ्के कोलकातानगरे संभूतः | दत्तोपाह्वविश्वनाथस्य भुवनेश्वरीदेव्याः च पुत्ररूपेण प्रादुर्भूतस्य तस्य जन्मनाम नरेन्द्र इति | बाल्यावस्थायामेव सः योगादिशास्त्रेषु तथा धर्मग्रन्थादिषु स्वबान्धवैः सुप्रभावितः |

नरेन्द्रः विश्वविद्यालये १८८४तमे वत्सरे अध्ययनं समाप्य ब्रह्मसमाजनामकस्य संघटनस्य संपर्के आगतः | परमात्मनः साक्षात्कारे अत्युत्कटा जिज्ञासा नरेन्द्रं श्रीरामकृष्णपरमहंसस्य समीपे नीतवती | परतत्वस्य विषये रामकृष्णस्य निजानुभवं परिशील्य तं स्वगुरुरिति स्वीकृतवान् | रामकृष्णस्य मार्गदर्शने नरेन्द्रः अध्यात्मविद्याध्ययनं योगध्यानाभ्यसनं च कृतवान् | १८८५तमे वत्सरे रामकृष्णस्य देहात्यागानन्तरं नरेन्द्रः रामकृष्णमठं संस्थापितवान् | सः पारिव्राजकव्रतं स्वीकृत्य स्वामी विवेकानन्दः इति प्रख्यातः |

तत्पश्चात् परिव्राजकः विवेकानन्दः भारतदेशस्य बहुषु प्रदेशेषु संचरन् समाजे विविधस्तरस्थैः जनैः सह मिलित्वा प्रत्यक्षानुभवं प्राप्तवान् | १८९३तमे वत्सरे अमेरिकादेशं प्राप्य चिकागोनगरसंभूते सर्वधर्मसंमेलने "हे मम सहोदराः तथा सहोदर्यः" इति सभिकान् संबोधयन् भाषणं दत्तवान् | ततः तस्य कीर्तिः न केवलम् अमेरिकादेशे अपि च सर्वे लोके जनजनिता | तदनन्तरं विवेकानन्दः इङ्ग्लण्डदेशेऽपि परिभ्रम्य जनेभ्यः नैकानि भाषणानि श्रावयितवान् | अमेरिकायां तथा युरोपदेशेषु अनेके जनाः विवेकानन्दस्य वर्चसा पारमार्थिकविचारेण च आकर्षिताः | तेषु जनेषु निकोल तेस्ला, मेरी लुइस, भगिनी निवेदिता, डेट्रायिट्नगरवासिनी भगिनी क्रिस्तिना प्रसिद्धाः |

विवेकानन्दः भारतमागत्य दीनजनपराणि बहूनि कार्याणि कृतवान् | तेन अनेकानि पुस्तकानि अपि लिखितानि | १८९७तमे वत्सरे सः रामकृष्णसमाजसेवासंस्थां स्थापितवान् | १९००तमे वत्सरे विवेकानन्दः पुनः युरोपप्रदेशस्य तथा अमेरिकादेशस्य प्रवासं कृत्वा सनातनधर्मस्य महतीं प्रकाशयितवान् |

अविरतकार्यात् परिश्रान्तस्य स्वामिनः विवेकानन्दस्य देहारोग्यः अवगतिरापन्नः | १९०२तमवत्सरस्य जुलैमासस्य चतुर्थदिने सः ध्यानसक्त एव दिवंगतः | स्वामिनः विवेकानन्दस्य जीवनकथा भाषणमालिका ग्रन्थाः च अद्यापि जगति जनेभ्यः बहूपयोगिनः | तेन कठोपनिषदः उद्धृतम् अधस्तनवाक्यं सर्वेभ्यः अतीवस्फूर्तिदयकम् |

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत |

No comments:

Post a Comment