Articles by Sanskrit Enthusiasts

महाशयसुप्पण्डीसंवादः

Write a story based on the pictures below. (05-October-2022)



Story by Smt. Saumya R.

महाशयसुप्पण्डीसंवादः

महाशय: - सुप्पण्डि ! अत्र आगच्छतु ! भवान् किं कार्यं कृतवान् I अहं भवन्तं सङ्गणकम् स्वच्छं कर्तुम् अवदम् I परन्तु सङ्गणकम् पूर्णतया नष्टम् अभवत् I इदानीम् तत् कार्यं न करोति I सुप्पण्डी - किम्? कार्यं न करोति ? परन्तु अहम् उत्तमं फेनकम् उपयुज्य जलेन च क्षालितवान् I किन्तु किम् अनुचितम् अभवत् अहं न जानामि I महाशय: - अहो मूर्ख ! जलं सङ्गणकस्य अन्त: गच्छति चेत् तत् विनश्यति इति न जानाति किम् ? इदानीम् किं करोमि? सुप्पण्डी - क्षम्यताम्, परन्तु चिन्ता मास्तु महाशय I अहं सरलम् उपायं वदामि I आवाम् सङ्गणकम् सूर्यातपे शुष्कं कुर्व: चेत् तत् पुन: कार्यं करिष्यति खलु? सर्वं सम्यक् भविष्यति I

समाप्त:

No comments:

Post a Comment