उशीनरः इति महाराजः आसीत् । सः सत्यधर्मपरिपालकः न्यायनिष्ठुरः इति लोके विश्रुतः । देवेन्द्रः तथा अग्निदेवः उशीनरराजस्य परीक्षार्थं मनः कृतवन्तौ । देवेन्द्रः श्येनरूपम् अग्निदेवः कपोतरूपं च धृत्त्वा उशीनरस्य राजभवनम् आगतवन्तौ ।
श्येनेन प्रद्रावितः कपोतः प्राणभयात् उशीनरस्य अङ्के शरणं प्राप्तवान् । तदा समभूत् एतत् संभाषणम् ।
श्येनः - हे उशीनर । अङ्के तव कपोत एष मया लक्षितः । विसृज एनं मम आहारार्थम् ।
राजा - श्येनश्रेष्ठ । कपोतोऽयं शरणम् इच्छति मम । कृपया एनं त्यक्त्वा अन्यत् किञ्चित् भुङ्क्ष्व ।
श्येनः - हे राजन् । कपोतकुलं मम भक्षणम् इति विधिना विहितम् । अत्र मम न कोऽपि दोषः । भवान् तु धर्मसूक्ष्मज्ञ इति सुविख्यातः । मुञ्चतु मम भक्ष्यपदार्थम् ।
राजा - हे खगवर । त्वत् भीतः जीवितार्थी अयं कपोतः मम आश्रयं प्राप्तः । शरणागतस्य त्यागः धर्मविरुद्धः वर्तते । एतत्कारणात् कृपया त्वं अन्यत् किमपि भक्षय । मम समीपे नानाविधानि भक्ष्याणि सन्ति । यथेष्टं भोक्तुम् अर्हसि ।
श्येनः - महाराज । क्षुधापीडितस्य निजाहारनिराकरणात् मम मृत्युः संभवति । तस्मात् मम कुटुम्बोऽपि प्राणत्यागं करोति । एकस्यास्य कपोतस्य जीवितात् अनेके मृत्युमुखा भवन्ति । अतः अस्य रक्षणात् किमपि प्रयोजनं नास्ति । संत्यज एनम् ।
राजा - हे विहगोत्तम । कल्याणकरं भाषणं ते धर्मज्ञत्वं सूचयति । तथापि शरणागतानां त्यजनं सर्वथा लोके निन्दनीयं पापयोग्यं चेति धर्मविदः वदन्ति । अतः त्वं कापोतभक्षणं विहाय यदिच्छसि तत् निश्चयेन ददामि । इति मम सत्यवचनम् ।
श्येनः - कपोते यदि तव एतादृशः स्नेहः तर्हि तव शरीरात् कपोततुल्यं मांसम् उत्कृत्य देहि । तेन अहं संतुष्टो भवामि ।
राजा - हे पक्षिराट् । तव वचनेन अनुगृहीतोस्मि । अधुना एव अहं कपोतसमं स्वमांसं तोलयित्वा ददामि ।
इति उक्त्वा स राजा उशीनरः तुलाम् एकाम् आदापय्य तस्यां स्वशरीरात् मांसम् उत्कृत्य स्थापितवान् । परन्तु कपोतस्य भारः मांसखण्डात् अधिकतरः अभवत् । तदा राजा पुनः स्शवरीरात् अधिकं मांसम् उत्कृत्य तुलायां स्थापितवान् । कपोतस्य भारः इतोऽपि अधिकः जातः । राजा पुनः अधिकं मांसं स्थापितवान् । एवं बहुवारं कृतम् अपि कपोतात् मांसं लघ्वीभूतम् । तदा उशीनरः स्वयं तुलायाम् उपाविशत् ।
श्येनः - प्रसन्नोस्मि महाराज । तव परीक्षणार्थम् आगतौ आवाम् । अहं श्येनरूपी देवेन्द्रः । अयं कपोतरूपी अग्निदेवः । यत् स्वशरीरात् मांसम् उत्कृत्य अर्पणं कृतं तत् परमाद्भुतम् । तव कीर्तिः लोके उज्ज्वला प्रकाशते ।
इत्युक्त्वा देवेन्द्रः अग्निदेवः च स्वर्गं गतवन्तौ । उशीनरः अपि कालानन्तरं स्वर्गलोकसुखं प्राप्तवान् ।
(महाभारताधारितकथा)