(महाभरतन्तर्गता कथा)
पूर्वस्मिन् काले भारतस्य दक्षिणभागे मणिमतिनगरे इल्वलः नामकः दैत्यराजः आसीत् | तस्य अनुजः वातापिः | एकदा इल्वलः तपोधनं ब्राह्मणमेकं समासाद्य पुत्रमेकं प्रदातुं प्रार्थितवान् | ब्राह्मणवरः इल्वलस्य प्रार्थनां तिरस्कृतवान् | तस्मात् क्रुद्धः इल्वलः ब्राह्मणजनान् हन्तुमेकं कुटिलोपायं समचिन्तयत | यदा कश्चित् ब्राह्मणः अतिथिरूपेण तस्य राजभवनं आगच्छत् तदा इल्वलः अनुजं वातापिं मेषदेहे परिवर्तनं कृत्वा तदनन्तरं मेषरूपिणः वातापेः मांसम् अन्ने मिश्रयित्वा अतिथिं भोजयति स्म | भोजनान्तरम् इल्वलः वातापिं वाचा आह्वयति स्म | स मायावी वातापिः इल्वलवचनेन ब्राह्मणातिथेः उदरं भित्त्वा बहिरागच्छति स्म | एवं नैके ब्राह्मणाः मृत्युमुखं गताः। इल्वलभयात् संत्रस्तः ब्राह्मणगणः तन्निवारणार्थं महामुनिम् अगस्त्यं समाश्रयत् ।
अगस्त्यः इल्वलराजधानीमुद्दिश्य दक्षिणाभिमुखं प्रस्थितवान्। मार्गे सः गर्ते लम्बमानान् स्वपितॄन् अपश्यत्। तान् उद्धर्तुकामः अगस्त्यः सन्तानहेतुः राजकन्यया लोपामुद्रया सह विवाहं चकार। लोपामुद्रा राजवैभवं त्यक्त्वा वने उटजवासिनी पत्यनुकूला मुमोद | किञ्चित् कालानन्तरं पत्या अपत्यार्थं प्रार्थिता सा | परन्तु संतानप्राप्तिपूर्वं विभवाभिलाषा प्रकटिता तया | अर्थसंपादनाय निर्गतः अगस्त्यः श्रुतर्वाणं राजानं प्राप्य तं धनं पृष्टवान् | स राजा राजकोशं दर्शयित्वा अधिकं धनं नास्तीति अवदत् | ततः अगस्त्यः ब्रध्नश्वराजं तरसदस्युराजं च प्राप्य धनम् अयाचत | उभावपि राजानौ स्वकोशे धनाभावं दर्शयन्तौ राक्षसराजस्य इल्वलस्य समीपे भूरि धनं विद्यते इति सूचितवन्तौ |
अगस्त्यः श्रुतर्वाब्रध्नश्वत्रसदस्युराजैः सह इल्वलभवनं प्राप्य असुरराजेन संपूजितः | यथाक्रमं इल्वलः भ्रात्रा वातापिना संस्कृतं भोजनं अगस्त्याय न्यवेदयत् | तद्दृष्ट्वा भयभीतं राजत्रयम् अभयं दत्त्वा अगस्त्यः मांसमिश्रितम् अन्नम् गिलङ्कृतवान् | इल्वलस्तु विकटहासं कुर्वाणः वातापि बहिरागच्छ इति अभणत् | अगस्त्येन उक्तं वातापि जीर्णो भव इति | ततः मुनिः प्रहस्य उक्तवान् मया जिर्णस्तु वातापिः कथं स बहिरागच्छति इति | तदा इल्वलः विषण्णः प्राञ्जलिः भूत्वा अगस्त्यस्य आगमनकारणं पृष्टवान् | अगस्त्यः तदा स्वस्य वित्ताशयं राजत्रयस्य अल्पधनत्त्वं च उक्तवान् | इल्वलः तान् सर्वान् भूरिशः धनं गावः सुवर्णादिकं च प्रदाय अप्रेषयत |
स्वभवनात् प्रस्थितम् अगस्त्यं पृष्ठतः गत्त्वा हन्तुम् उद्युक्तः इल्वलः | तत् ज्ञात्वा क्रोधितो मुनिः केवलं हुंकारमात्रेण राक्षसं भस्मीभूतम् अकरोत् | तदनन्तरं मुनिरगस्त्यः स्वकुटीरं गत्त्वा लोपामुद्रां वसुमतीम् अकरोत् | कालान्तरे मुनिदम्पत्योः दृढस्यः इति मुनिश्रेष्ठः अपत्यरूपेण जातः |