त्रेतायुगस्य कथा एषा | अयोध्यानगरस्य महाराजः दशरथः | तस्य राज्ञः तिस्रः भार्याः कौसल्या सुमित्रा कैकेयी चेति | तासु जाताः राजपुत्राः गुणसंपन्नाः रामः लक्ष्मणः भरतः शत्रुघ्नश्चेति | प्राप्तवयसि राजपुत्राणां मिथिलादेशस्य कन्याभिः सह विवाहोऽपि संपन्नः | अल्पकालानन्तरं वयोवृद्धः दशरथः ज्येष्ठपुत्रस्य रामस्य यौव्वराज्याभिषेकं कर्तुमैच्छत् | तदा राज्ञः प्रियपत्नी कैकेयी स्वपुत्राय भरताय राज्यं तथा रामाय वनवासं विधातुं दशरथं चोदयामास | रामः पितृवाक्यपरिपालनार्थं अनुजलक्ष्मणेन तथा पत्न्या सीतया सह वनं प्राव्रजत् | पुत्रविरहेण संमूढः दशरथः बहुधा प्रव्यथितः शय्याबद्धो बभूव | पाषाणहृदयां कैकेयीं निन्दन् सः पूर्वं स्वयंकृतापरधं संस्मरन् तद्वृत्तान्तं कथयति |
बहुकालपूर्वं राजा दशरथः मृगयासक्तः महारण्यं प्राविशत् | आदिनं मृगयाटनेनापि असंतुष्टः सः सायंकाले चापे शरं संयुञ्जन् मृगप्रतीक्षाम् अकरोत् | तस्मिन् समये एव श्रवणकुमारनामकः कश्चिद्युवकः स्वमातापितृभ्यां सह तदेव वनं प्राविशत् | श्रवणस्य पितरौ अन्धौ आसन् | तयोः आशयपूरणार्थं श्रवणः तौ तीर्थयात्रां कारयन् सायं तद्वनं प्राप | तस्य पितरौ पिपासू जलम् ऐच्छतः | श्रवणः एकस्मिन् प्रशस्तप्रदेशे तौ स्थापयित्वा घटमादाय जलमन्विष्य दूरं गतः | तडागं प्राप्य श्रवणः घटे जलं पूरयितुम् आरभत | अनतिदूरे स्थितः दशरथः जलपूरणशब्दं श्रुत्वा कश्चित् मृगः जलपानाय आगतः इति मत्वा तस्यां दिशायां बाणं व्यामुञ्चत् | तेन बाणेन हृदयप्रदेशे प्रहृतः श्रवणः वेदनाम् अनुभवन् तीव्रनादं चकार | तच्छ्रुत्वा राजा दशरथः संभ्रान्तः तूर्णं जलाशयं प्रति अधावत् | तत्र असह्यपीडया परितप्यमानं शरहतं युवकं दृष्ट्वा प्रव्यथितो बभूव | युवकस्य समीपे गत्वा अचातुर्येण कृतं कार्यमिति निवेदयन् क्षमां ययाच | श्रवणः स्वपरिचयं दत्वा मातापित्रोः विषये वदन् तौ जलं पाययितुं प्रार्थयन् मृतः |
शोषुच्यमानः दशरथः घटे जलं संगृह्य श्रवणस्य मातापित्रोः समीपं जगाम | बहुकालेनापि पुत्रस्य अनागमानेन चिन्तितौ अन्धौ पितरौ पदशब्दं आकर्ण्य हृष्टौ श्रवण एव आगतः इति विचिन्त्य तस्य कुशलवार्तां पप्रच्छतुः | भीतः दशरथः ईषत्कालं तूष्णीं स्थितः | बहुधा प्रश्नान् परीपृच्छ्यमानौ तौ वृद्धौ दशरथः स्वहस्तेन घटितां श्रवणस्य मरणवार्तां गद्गदकण्ठेन श्रावयामास | हृदयाघातकरं तद्वचनं श्रुत्वा तौ दशरथं तस्य पुत्रकारणादेव मृत्युर्भविष्यति इति शप्त्वा देहत्यागं कृतौ | अपुत्रो दशरथः एतस्य शापस्य कारणात् पुत्रवान् भविष्यामीति मनसि तुष्टोऽपि परिणामं चिन्तयन् विषण्णमनः राजगृहं प्रतिन्यवर्तयत |
(आधारः - वाल्मीकिरामायणम्)